001 धृतराष्ट्र उवाच 001a तथा प्रमथमानं तं महेष्वासमजिह्मगैः 001c आर्जुनिं मामकाः सर्वे के त्वेनं समवाकिरन् 002 सञ्जय उवाच 002a शृणु राजन्कुमारस्य रणे विक्रीडितं महत् 002c बिभित्सतो रथानीकं भारद्वाजेन रक्षितम् 003a मद्रेशं सादितं दृष्ट्वा सौभाद्रेणाशुगै रणे 003c शल्यादवरजः क्रुद्धः किरन्बाणान्समभ्ययात् 004a स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम् 004c उदक्रोशन्महाशब्दं तिष्ठ तिष्ठेति चाब्रवीत् 005a तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान् 005c छत्रं ध्वजं नियन्तारं त्रिवेणुं शम्युपस्करम् 006a चक्रे युगेषां तूणीराननुकर्षं च सायकैः 006c पताकां चक्रगोप्तारौ सर्वोपकरणानि च 006e व्यधमल्लाघवात्तच्च ददृशे नास्य कश्चन 007a स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः 007c वायुनेव महाचैत्यः सम्भग्नोऽमिततेजसा 007e अनुगाश्चास्य वित्रस्ताः प्राद्रवन्सर्वतोदिशम् 008a आर्जुनेः कर्म तद्दृष्ट्वा प्रणेदुश्च समन्ततः 008c नादेन सर्वभूतानि साधु साध्विति भारत 009a शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः 009c कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम् 010a अभ्यवर्तन्त सङ्क्रुद्धा विविधायुधपाणयः 010c रथैरश्वैर्गजैश्चान्ये पादातैश्च बलोत्कटाः 011a बाणशब्देन महता खुरनेमिस्वनेन च 011c हुङ्कारैः क्ष्वेडितोत्क्रुष्टैः सिंहनादैः सगर्जितैः 012a ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम् 012c ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवतामिति 013a तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव 013c यो यः स्म प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः 014a सन्दर्शयिष्यन्नस्त्राणि चित्राणि च लघूनि च 014c आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत 015a वासुदेवादुपात्तं यद्यदस्त्रं च धनञ्जयात् 015c अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषयन् 016a दूरमस्यन्गुरुं भारं साधयंश्च पुनः पुनः 016c सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत 017a चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत 017c तमो घ्नतः सुदीप्तस्य सवितुर्मण्डलं यथा 018a ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः 018c महाशनिमुचः काले पयोदस्येव निस्वनः 019a ह्रीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः 019c सम्मिमानयिषुर्वीरानिष्वासांश्चाप्ययुध्यत 020a मृदुर्भूत्वा महाराज दारुणः समपद्यत 020c वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः 021a शरान्विचित्रान्महतो रुक्मपुङ्खाञ्शिलाशितान् 021c मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः 022a क्षुरप्रैर्वत्सदन्तैश्च विपाठैश्च महायशाः 022c नाराचैरर्धनाराचैर्भल्लैरज्ञलिकैरपि 023a अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः 023c ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्