001 सञ्जय उवाच 001a तां प्रभग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा 001c दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् 002a ततो राजानमावृत्तं सौभद्रं प्रति संयुगे 002c दृष्ट्वा द्रोणोऽब्रवीद्योधान्पर्याप्नुत नराधिपम् 003a पुराभिमन्युर्लक्ष्यं नः पश्यतां हन्ति वीर्यवान् 003c तमाद्रवत मा भैष्ट क्षिप्रं रक्षत कौरवम् 004a ततः कृतज्ञा बलिनः सुहृदो जितकाशिनः 004c त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् 005a द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः 005c बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः 006a पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् 006c सौभद्रं शरवर्षेण महता समवाकिरन् 007a सम्मोहयित्वा तमथ दुर्योधनममोचयन् 007c आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः 008a ताञ्शरौघेण महता साश्वसूतान्महारथान् 008c विमुखीकृत्य सौभद्रः सिंहनादमथानदत् 009a तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः 009c नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः 010a त एनं कोष्ठकीकृत्य रथवंशेन मारिष 010c व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः 011a तान्यन्तरिक्षे चिच्छेद पौत्रस्तव शितैः शरैः 011c तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् 012a ततस्ते कोपितास्तेन शरैराशीविषोपमैः 012c परिवव्रुर्जिघांसन्तः सौभद्रमपलायिनम् 013a समुद्रमिव पर्यस्तं त्वदीयं तद्बलार्णवम् 013c अभिमन्युर्दधारैको वेलेव मकरालयम् 014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 014c अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः 015a तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे 015c दुःसहो नवभिर्बाणैरभिमन्युमविध्यत 016a दुःशासनो द्वादशभिः कृपः शारद्वतस्त्रिभिः 016c द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः 017a विविंशतिस्तु विंशत्या कृतवर्मा च सप्तभिः 017c बृहद्बलस्तथाष्टाभिरश्वत्थामा च सप्तभिः 018a भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षड्भिराशुगैः 018c द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः 019a स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः 019c नृत्यन्निव महाराज चापहस्तः प्रतापवान् 020a ततोऽभिमन्युः सङ्क्रुद्धस्ताप्यमानस्तवात्मजैः 020c विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् 021a गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः 021c दान्तैरश्मकदायादं त्वरमाणोऽभ्यहारयत् 021e विव्याध चैनं दशभिर्बाणैस्तिष्ठेति चाब्रवीत् 022a तस्याभिमन्युर्दशभिर्बाणैः सूतं हयान्ध्वजम् 022c बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् 023a ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे 023c सञ्चचाल बलं सर्वं पलायनपरायणम् 024a ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट्शलः 024c शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः 025a वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः 025c वृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः 025e दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् 026a सोऽतिक्रुद्धो महेष्वासैरभिमन्युरजिह्मगैः 026c शरमादत्त कर्णाय परकायावभेदनम् 027a तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः 027c प्राविशद्धरणीं राजन्वल्मीकमिव पन्नगः 028a स तेनातिप्रहारेण व्यथितो विह्वलन्निव 028c सञ्चचाल रणे कर्णः क्षितिकम्पे यथाचलः 029a अथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् 029c कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली 030a कर्णस्तं पञ्चविंशत्या नाराचानां समर्पयत् 030c अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः 031a स शरार्दितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः 031c विचरन्दृश्यते सैन्ये पाशहस्त इवान्तकः 032a शल्यं च बाणवर्षेण समीपस्थमवाकिरत् 032c उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् 033a ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः 033c शल्यो राजन्रथोपस्थे निषसाद मुमोह च 034a तं हि विद्धं तथा दृष्ट्वा सौभद्रेण यशस्विना 034c सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः 035a प्रेक्षन्तस्तं महाबाहुं रुक्मपुङ्खैः समावृतम् 035c त्वदीयाश्च पलायन्ते मृगाः सिंहार्दिता इव 036a स तु रणयशसाभिपूज्यमानः पितृसुरचारणसिद्धयक्षसङ्घैः 036c अवनितलगतैश्च भूतसङ्घैरतिविबभौ हुतभुग्यथाज्यसिक्तः