001 सञ्जय उवाच 001a सौभद्रस्तु वचः श्रुत्वा धर्मराजस्य धीमतः 001c अचोदयत यन्तारं द्रोणानीकाय भारत 002a तेन सञ्चोद्यमानस्तु याहि याहीति सारथिः 002c प्रत्युवाच ततो राजन्नभिमन्युमिदं वचः 003a अतिभारोऽयमायुष्मन्नाहितस्त्वयि पाण्डवैः 003c सम्प्रधार्य क्षमं बुद्ध्या ततस्त्वं योद्धुमर्हसि 004a आचार्यो हि कृती द्रोणः परमास्त्रे कृतश्रमः 004c अत्यन्तसुखसंवृद्धस्त्वं च युद्धविशारदः 005a ततोऽभिमन्युः प्रहसन्सारथिं वाक्यमब्रवीत् 005c सारथे को न्वयं द्रोणः समग्रं क्षत्रमेव वा 006a ऐरावतगतं शक्रं सहामरगणैरहम् 006c योधयेयं रणमुखे न मे क्षत्रेऽद्य विस्मयः 006e न ममैतद्द्विषत्सैन्यं कलामर्हति षोडशीम् 007a अपि विश्वजितं विष्णुं मातुलं प्राप्य सूतज 007c पितरं चार्जुनं सङ्ख्ये न भीर्मामुपयास्यति 008a ततोऽभिमन्युस्तां वाचं कदर्थीकृत्य सारथेः 008c याहीत्येवाब्रवीदेनं द्रोणानीकाय माचिरम् 009a ततः सञ्चोदयामास हयानस्य त्रिहायनान् 009c नातिहृष्टमनाः सूतो हेमभाण्डपरिच्छदान् 010a ते प्रेषिताः सुमित्रेण द्रोणानीकाय वाजिनः 010c द्रोणमभ्यद्रवन्राजन्महावेगपराक्रमाः 011a तमुदीक्ष्य तथायान्तं सर्वे द्रोणपुरोगमाः 011c अभ्यवर्तन्त कौरव्याः पाण्डवाश्च तमन्वयुः 012a स कर्णिकारप्रवरोच्छ्रितध्वजः सुवर्णवर्मार्जुनिरर्जुनाद्वरः 012c युयुत्सया द्रोणमुखान्महारथान्समासदत्सिंहशिशुर्यथा गजान् 013a ते विंशतिपदे यत्ताः सम्प्रहारं प्रचक्रिरे 013c आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव 014a शूराणां युध्यमानानां निघ्नतामितरेतरम् 014c सङ्ग्रामस्तुमुलो राजन्प्रावर्तत सुदारुणः 015a प्रवर्तमाने सङ्ग्रामे तस्मिन्नतिभयङ्करे 015c द्रोणस्य मिषतो व्यूहं भित्त्वा प्राविशदार्जुनिः 016a तं प्रविष्टं परान्घ्नन्तं शत्रुमध्ये महाबलम् 016c हस्त्यश्वरथपत्त्यौघाः परिवव्रुरुदायुधाः 017a नानावादित्रनिनदैः क्ष्वेडितोत्क्रुष्टगर्जितैः 017c हुङ्कारैः सिंहनादैश्च तिष्ठ तिष्ठेति निस्वनैः 018a घोरैर्हलहलाशब्दैर्मा गास्तिष्ठैहि मामिति 018c असावहममुत्रेति प्रवदन्तो मुहुर्मुहुः 019a बृंहितैः शिञ्जितैर्हासैः खुरनेमिस्वनैरपि 019c सन्नादयन्तो वसुधामभिदुद्रुवुरार्जुनिम् 020a तेषामापततां वीरः पूर्वं शीघ्रमथो दृढम् 020c क्षिप्रास्त्रो न्यवधीद्व्रातान्मर्मज्ञो मर्मभेदिभिः 021a ते हन्यमानाश्च तथा नानालिङ्गैः शितैः शरैः 021c अभिपेतुस्तमेवाजौ शलभा इव पावकम् 022a ततस्तेषां शरीरैश्च शरीरावयवैश्च सः 022c सन्तस्तार क्षितिं क्षिप्रं कुशैर्वेदिमिवाध्वरे 023a बद्धगोधाङ्गुलित्राणान्सशरावरकार्मुकान् 023c सासिचर्माङ्कुशाभीशून्सतोमरपरश्वधान् 024a सगुडायोमुखप्रासान्सर्ष्टितोमरपट्टिशान् 024c सभिण्डिपालपरिघान्सशक्तिवरकम्पनान् 025a सप्रतोदमहाशङ्खान्सकुन्तान्सकचग्रहान् 025c समुद्गरक्षेपणीयान्सपाशपरिघोपलान् 026a सकेयूराङ्गदान्बाहून्हृद्यगन्धानुलेपनान् 026c सञ्चिच्छेदार्जुनिर्वृत्तांस्त्वदीयानां सहस्रशः 027a तैः स्फुरद्भिर्महाराज शुशुभे लोहितोक्षितैः 027c पञ्चास्यैः पन्नगैश्छिन्नैर्गरुडेनेव मारिष 028a सुनासाननकेशान्तैरव्रणैश्चारुकुण्डलैः 028c सन्दष्टौष्ठपुटैः क्रोधात्क्षरद्भिः शोणितं बहु 029a चारुस्रङ्मुकुटोष्णीषैर्मणिरत्नविराजितैः 029c विनालनलिनाकारैर्दिवाकरशशिप्रभैः 030a हितप्रियंवदैः काले बहुभिः पुण्यगन्धिभिः 030c द्विषच्छिरोभिः पृथिवीमवतस्तार फाल्गुणिः 031a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 031c वीषामुखान्वित्रिवेणून्व्यस्तदण्डकबन्धुरान् 032a विजङ्घकूबराक्षांश्च विनेमीननरानपि 032c विचक्रोपस्करोपस्थान्भग्नोपकरणानपि 033a प्रशातितोपकरणान्हतयोधान्सहस्रशः 033c शरैर्विशकलीकुर्वन्दिक्षु सर्वास्वदृश्यत 034a पुनर्द्विपान्द्विपारोहान्वैजयन्त्यङ्कुशध्वजान् 034c तूणान्वर्माण्यथो कक्ष्या ग्रैवेयानथ कम्बलान् 035a घण्टाः शुण्डान्विषाणाग्रान्क्षुरपालान्पदानुगान् 035c शरैर्निशितधाराग्रैः शात्रवाणामशातयत् 036a वनायुजान्पार्वतीयान्काम्बोजारट्टबाह्लिकान् 036c स्थिरवालधिकर्णाक्षाञ्जवनान्साधुवाहिनः 037a स्वारूढाञ्शिक्षितैर्योधैः शक्त्यृष्टिप्रासयोधिभिः 037c विध्वस्तचामरकुथान्विप्रकीर्णप्रकीर्णकान् 038a निरस्तजिह्वानयनान्निष्कीर्णान्त्रयकृद्घनान् 038c हतारोहान्भिन्नभाण्डान्क्रव्यादगणमोदनान् 039a निकृत्तवर्मकवचाञ्शकृन्मूत्रासृगाप्लुतान् 039c निपातयन्नश्ववरांस्तावकान्सोऽभ्यरोचत 040a एको विष्णुरिवाचिन्त्यः कृत्वा प्राक्कर्म दुष्करम् 040c तथा विमथितं तेन त्र्यङ्गं तव बलं महत् 040e व्यहनत्स पदात्योघांस्त्वदीयानेव भारत 041a एवमेकेन तां सेनां सौभद्रेण शितैः शरैः 041c भृशं विप्रहतां दृष्ट्वा स्कन्देनेवासुरीं चमूम् 042a त्वदीयास्तव पुत्राश्च वीक्षमाणा दिशो दश 042c संशुष्कास्याश्चलन्नेत्राः प्रस्विन्ना लोमहर्षणाः 043a पलायनकृतोत्साहा निरुत्साहा द्विषज्जये 043c गोत्रनामभिरन्योन्यं क्रन्दन्तो जीवितैषिणः 044a हतान्पुत्रांस्तथा पितॄन्सुहृत्सम्बन्धिबान्धवान् 044c प्रातिष्ठन्त समुत्सृज्य त्वरयन्तो हयद्विपान्