001 सञ्जय उवाच 001a तदनीकमनाधृष्यं भारद्वाजेन रक्षितम् 001c पार्थाः समभ्यवर्तन्त भीमसेनपुरोगमाः 002a सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः 002c कुन्तिभोजश्च विक्रान्तो द्रुपदश्च महारथः 003a आर्जुनिः क्षत्रधर्मा च बृहत्क्षत्रश्च वीर्यवान् 003c चेदिपो धृष्टकेतुश्च माद्रीपुत्रौ घटोत्कचः 004a युधामन्युश्च विक्रान्तः शिखण्डी चापराजितः 004c उत्तमौजाश्च दुर्धर्षो विराटश्च महारथः 005a द्रौपदेयाश्च संरब्धाः शैशुपालिश्च वीर्यवान् 005c केकयाश्च महावीर्याः सृञ्जयाश्च सहस्रशः 006a एते चान्ये च सगणाः कृतास्त्रा युद्धदुर्मदाः 006c समभ्यधावन्सहसा भारद्वाजं युयुत्सवः 007a समवेतांस्तु तान्सर्वान्भारद्वाजोऽपि वीर्यवान् 007c असम्भ्रान्तः शरौघेण महता समवारयत् 008a महौघाः सलिलस्येव गिरिमासाद्य दुर्भिदम् 008c द्रोणं ते नाभ्यवर्तन्त वेलामिव जलाशयाः 009a पीड्यमानाः शरै राजन्द्रोणचापविनिःसृतैः 009c न शेकुः प्रमुखे स्थातुं भारद्वाजस्य पाण्डवाः 010a तदद्भुतमपश्याम द्रोणस्य भुजयोर्बलम् 010c यदेनं नाभ्यवर्तन्त पाञ्चालाः सृञ्जयैः सह 011a तमायान्तमभिक्रुद्धं द्रोणं दृष्ट्वा युधिष्ठिरः 011c बहुधा चिन्तयामास द्रोणस्य प्रतिवारणम् 012a अशक्यं तु तमन्येन द्रोणं मत्वा युधिष्ठिरः 012c अविषह्यं गुरुं भारं सौभद्रे समवासृजत् 013a वासुदेवादनवरं फल्गुनाच्चामितौजसम् 013c अब्रवीत्परवीरघ्नमभिमन्युमिदं वचः 014a एत्य नो नार्जुनो गर्हेद्यथा तात तथा कुरु 014c चक्रव्यूहस्य न वयं विद्म भेदं कथञ्चन 015a त्वं वार्जुनो वा कृष्णो वा भिन्द्यात्प्रद्युम्न एव वा 015c चक्रव्यूहं महाबाहो पञ्चमोऽन्यो न विद्यते 016a अभिमन्यो वरं तात याचतां दातुमर्हसि 016c पितॄणां मातुलानां च सैन्यानां चैव सर्वशः 017a धनञ्जयो हि नस्तात गर्हयेदेत्य संयुगात् 017c क्षिप्रमस्त्रं समादाय द्रोणानीकं विशातय 018 अभिमन्युरुवाच 018a द्रोणस्य दृढमव्यग्रमनीकप्रवरं युधि 018c पितॄणां जयमाकाङ्क्षन्नवगाहे भिनद्मि च 019a उपदिष्टो हि मे पित्रा योगोऽनीकस्य भेदने 019c नोत्सहे तु विनिर्गन्तुमहं कस्याञ्चिदापदि 020 युधिष्ठिर उवाच 020a भिन्ध्यनीकं युधा श्रेष्ठ द्वारं सञ्जनयस्व नः 020c वयं त्वानुगमिष्यामो येन त्वं तात यास्यसि 021a धनञ्जयसमं युद्धे त्वां वयं तात संयुगे 021c प्रणिधायानुयास्यामो रक्षन्तः सर्वतोमुखाः 022 भीम उवाच 022a अहं त्वानुगमिष्यामि धृष्टद्युम्नोऽथ सात्यकिः 022c पाञ्चालाः केकया मत्स्यास्तथा सर्वे प्रभद्रकाः 023a सकृद्भिन्नं त्वया व्यूहं तत्र तत्र पुनः पुनः 023c वयं प्रध्वंसयिष्यामो निघ्नमाना वरान्वरान् 024 अभिमन्युरुवाच 024a अहमेतत्प्रवेक्ष्यामि द्रोणानीकं दुरासदम् 024c पतङ्ग इव सङ्क्रुद्धो ज्वलितं जातवेदसम् 025a तत्कर्माद्य करिष्यामि हितं यद्वंशयोर्द्वयोः 025c मातुलस्य च या प्रीतिर्भविष्यति पितुश्च मे 026a शिशुनैकेन सङ्ग्रामे काल्यमानानि सङ्घशः 026c अद्य द्रक्ष्यन्ति भूतानि द्विषत्सैन्यानि वै मया 027 युधिष्ठिर उवाच 027a एवं ते भाषमाणस्य बलं सौभद्र वर्धताम् 027c यस्त्वमुत्सहसे भेत्तुं द्रोणानीकं सुदुर्भिदम् 028a रक्षितं पुरुषव्याघ्रैर्महेष्वासैः प्रहारिभिः 028c साध्यरुद्रमरुत्कल्पैर्वस्वग्न्यादित्यविक्रमैः 029 सञ्जय उवाच 029a तस्य तद्वचनं श्रुत्वा स यन्तारमचोदयत् 029c सुमित्राश्वान्रणे क्षिप्रं द्रोणानीकाय चोदय