001 सञ्जय उवाच 001a समरेऽत्युग्रकर्माणः कर्मभिर्व्यञ्जितश्रमाः 001c सकृष्णाः पाण्डवाः पञ्च देवैरपि दुरासदाः 002a सत्त्वकर्मान्वयैर्बुद्ध्या प्रकृत्या यशसा श्रिया 002c नैव भूतो न भविता कृष्णतुल्यगुणः पुमान् 003a सत्यधर्मपरो दाता विप्रपूजादिभिर्गुणैः 003c सदैव त्रिदिवं प्राप्तो राजा किल युधिष्ठिरः 004a युगान्ते चान्तको राजञ्जामदग्न्यश्च वीर्यवान् 004c रणस्थो भीमसेनश्च कथ्यन्ते सदृशास्त्रयः 005a प्रतिज्ञाकर्मदक्षस्य रणे गाण्डीवधन्वनः 005c उपमां नाधिगच्छामि पार्थस्य सदृशीं क्षितौ 006a गुरुवात्सल्यमत्यन्तं नैभृत्यं विनयो दमः 006c नकुलेऽप्रातिरूप्यं च शौर्यं च नियतानि षट् 007a श्रुतगाम्भीर्यमाधुर्यसत्त्ववीर्यपराक्रमैः 007c सदृशो देवयोर्वीरः सहदेवः किलाश्विनोः 008a ये च कृष्णे गुणाः स्फीताः पाण्डवेषु च ये गुणाः 008c अभिमन्यौ किलैकस्था दृश्यन्ते गुणसञ्चयाः 009a युधिष्ठिरस्य धैर्येण कृष्णस्य चरितेन च 009c कर्मभिर्भीमसेनस्य सदृशो भीमकर्मणः 010a धनञ्जयस्य रूपेण विक्रमेण श्रुतेन च 010c विनयात्सहदेवस्य सदृशो नकुलस्य च 011 धृतराष्ट्र उवाच 011a अभिमन्युमहं सूत सौभद्रमपराजितम् 011c श्रोतुमिच्छामि कार्त्स्न्येन कथमायोधने हतः 012 सञ्जय उवाच 012a चक्रव्यूहो महाराज आचार्येणाभिकल्पितः 012c तत्र शक्रोपमाः सर्वे राजानो विनिवेशिताः 013a सङ्घातो राजपुत्राणां सर्वेषामभवत्तदा 013c कृताभिसमयाः सर्वे सुवर्णविकृतध्वजाः 014a रक्ताम्बरधराः सर्वे सर्वे रक्तविभूषणाः 014c सर्वे रक्तपताकाश्च सर्वे वै हेममालिनः 015a तेषां दशसहस्राणि बभूवुर्दृढधन्विनाम् 015c पौत्रं तव पुरस्कृत्य लक्ष्मणं प्रियदर्शनम् 016a अन्योन्यसमदुःखास्ते अन्योन्यसमसाहसाः 016c अन्योन्यं स्पर्धमानाश्च अन्योन्यस्य हिते रताः 017a कर्णदुःशासनकृपैर्वृतो राजा महारथैः 017c देवराजोपमः श्रीमाञ्श्वेतच्छत्राभिसंवृतः 017e चामरव्यजनाक्षेपैरुदयन्निव भास्करः 018a प्रमुखे तस्य सैन्यस्य द्रोणोऽवस्थितनायके 018c सिन्धुराजस्तथातिष्ठच्छ्रीमान्मेरुरिवाचलः 019a सिन्धुराजस्य पार्श्वस्था अश्वत्थामपुरोगमाः 019c सुतास्तव महाराज त्रिंशत्त्रिदशसन्निभाः 020a गान्धारराजः कितवः शल्यो भूरिश्रवास्तथा 020c पार्श्वतः सिन्धुराजस्य व्यराजन्त महारथाः