001 सञ्जय उवाच 001a प्रतिघातं तु सैन्यस्य नामृष्यत वृकोदरः 001c सोऽभिनद्बाह्लिकं षष्ट्या कर्णं च दशभिः शरैः 002a तस्य द्रोणः शितैर्बाणैस्तीक्ष्णधारैरयस्मयैः 002c जीवितान्तमभिप्रेप्सुर्मर्मण्याशु जघान ह 003a कर्णो द्वादशभिर्बाणैरश्वत्थामा च सप्तभिः 003c षड्भिर्दुर्योधनो राजा तत एनमवाकिरत् 004a भीमसेनोऽपि तान्सर्वान्प्रत्यविध्यन्महाबलः 004c द्रोणं पञ्चाशतेषूणां कर्णं च दशभिः शरैः 005a दुर्योधनं द्वादशभिर्द्रौणिं चाष्टाभिराशुगैः 005c आरावं तुमुलं कुर्वन्नभ्यवर्तत तान्रणे 006a तस्मिन्सन्त्यजति प्राणान्मृत्युसाधारणीकृते 006c अजातशत्रुस्तान्योधान्भीमं त्रातेत्यचोदयत् 007a ते ययुर्भीमसेनस्य समीपममितौजसः 007c युयुधानप्रभृतयो माद्रीपुत्रौ च पाण्डवौ 008a ते समेत्य सुसंरब्धाः सहिताः पुरुषर्षभाः 008c महेष्वासवरैर्गुप्तं द्रोणानीकं बिभित्सवः 009a समापेतुर्महावीर्या भीमप्रभृतयो रथाः 009c तान्प्रत्यगृह्णादव्यग्रो द्रोणोऽपि रथिनां वरः 010a महाबलानतिरथान्वीरान्समरशोभिनः 010c बाह्यं मृत्युभयं कृत्वा तावकाः पाण्डवान्ययुः 011a सादिनः सादिनोऽभ्यघ्नंस्तथैव रथिनो रथान् 011c आसीच्छक्त्यसिसम्पातो युद्धमासीत्परश्वधैः 012a निकृष्टमसियुद्धं च बभूव कटुकोदयम् 012c कुञ्जराणां च सङ्घातैर्युद्धमासीत्सुदारुणम् 013a अपतत्कुञ्जरादन्यो हयादन्यस्त्ववाक्शिराः 013c नरो बाणेन निर्भिन्नो रथादन्यश्च मारिष 014a तत्रान्यस्य च सम्मर्दे पतितस्य विवर्मणः 014c शिरः प्रध्वंसयामास वक्षस्याक्रम्य कुञ्जरः 015a अपरेऽप्यपराञ्जघ्नुर्वारणाः पतितान्नरान् 015c विषाणैश्चावनिं गत्वा व्यभिन्दन्रथिनो बहून् 016a नरान्त्रैः केचिदपरे विषाणालग्नसंस्रवैः 016c बभ्रमुः शतशो नागा मृद्नन्तः शतशो नरान् 017a कांस्यायसतनुत्राणान्नराश्वरथकुञ्जरान् 017c पतितान्पोथयां चक्रुर्द्विपाः स्थूलनडानिव 018a गृध्रपत्राधिवासांसि शयनानि नराधिपाः 018c ह्रीमन्तः कालसम्पक्वाः सुदुःखान्यधिशेरते 019a हन्ति स्मात्र पिता पुत्रं रथेनाभ्यतिवर्तते 019c पुत्रश्च पितरं मोहान्निर्मर्यादमवर्तत 020a अक्षो भग्नो ध्वजश्छिन्नश्छत्रमुर्व्यां निपातितम् 020c युगार्धं छिन्नमादाय प्रदुद्राव तथा हयः 021a सासिर्बाहुर्निपतितः शिरश्छिन्नं सकुण्डलम् 021c गजेनाक्षिप्य बलिना रथः सञ्चूर्णितः क्षितौ 022a रथिना ताडितो नागो नाराचेनापतद्व्यसुः 022c सारोहश्चापतद्वाजी गजेनाताडितो भृशम् 023a निर्मर्यादं महद्युद्धमवर्तत सुदारुणम् 023c हा तात हा पुत्र सखे क्वासि तिष्ठ क्व धावसि 024a प्रहराहर जह्येनं स्मितक्ष्वेडितगर्जितैः 024c इत्येवमुच्चरन्त्यः स्म श्रूयन्ते विविधा गिरः 025a नरस्याश्वस्य नागस्य समसज्जत शोणितम् 025c उपाशाम्यद्रजो भौमं भीरून्कश्मलमाविशत् 026a आसीत्केशपरामर्शो मुष्टियुद्धं च दारुणम् 026c नखैर्दन्तैश्च शूराणमद्वीपे द्वीपमिच्छताम् 027a तत्राच्छिद्यत वीरस्य सखड्गो बाहुरुद्यतः 027c सधनुश्चापरस्यापि सशरः साङ्कुशस्तथा 028a प्राक्रोशदन्यमन्योऽत्र तथान्यो विमुखोऽद्रवत् 028c अन्यः प्राप्तस्य चान्यस्य शिरः कायादपाहरत् 029a शब्दमभ्यद्रवच्चान्यः शब्दादन्योऽद्रवद्भृशम् 029c स्वानन्योऽथ परानन्यो जघान निशितैः शरैः 030a गिरिशृङ्गोपमश्चात्र नाराचेन निपातितः 030c मातङ्गो न्यपतद्भूमौ नदीरोध इवोष्णगे 031a तथैव रथिनं नागः क्षरन्गिरिरिवारुजत् 031c अध्यतिष्ठत्पदा भूमौ सहाश्वं सहसारथिम् 032a शूरान्प्रहरतो दृष्ट्वा कृतास्त्रान्रुधिरोक्षितान् 032c बहूनप्याविशन्मोहो भीरून्हृदयदुर्बलान् 033a सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन 033c सैन्ये च रजसा ध्वस्ते निर्मर्यादमवर्तत 034a ततः सेनापतिः शीघ्रमयं काल इति ब्रुवन् 034c नित्याभित्वरितानेव त्वरयामास पाण्डवान् 035a कुर्वन्तः शासनं तस्य पाण्डवेया यशस्विनः 035c सरो हंसा इवापेतुर्घ्नन्तो द्रोणरथं प्रति 036a गृह्णीताद्रवतान्योन्यं विभीता विनिकृन्तत 036c इत्यासीत्तुमुलः शब्दो दुर्धर्षस्य रथं प्रति 037a ततो द्रोणः कृपः कर्णो द्रौणी राजा जयद्रथः 037c विन्दानुविन्दावावन्त्यौ शल्यश्चैनानवारयन् 038a ते त्वार्यधर्मसंरब्धा दुर्निवार्या दुरासदाः 038c शरार्ता न जहुर्द्रोणं पाञ्चालाः पाण्डवैः सह 039a ततो द्रोणोऽभिसङ्क्रुद्धो विसृजञ्शतशः शरान् 039c चेदिपाञ्चालपाण्डूनामकरोत्कदनं महत् 040a तस्य ज्यातलनिर्घोषः शुश्रुवे दिक्षु मारिष 040c वज्रसङ्घातसङ्काशस्त्रासयन्पाण्डवान्बहून् 041a एतस्मिन्नन्तरे जिष्णुर्हत्वा संशप्तकान्बली 041c अब्ययात्तत्र यत्र स्म द्रोणः पाण्डून्प्रमर्दति 042a तं शरौघमहावर्तं शोणितोदं महाह्रदम् 042c तीर्णः संशप्तकान्हत्वा प्रत्यदृश्यत फल्गुनः 043a तस्य कीर्तिमतो लक्ष्म सूर्यप्रतिमतेजसः 043c दीप्यमानमपश्याम तेजसा वानरध्वजम् 044a संशप्तकसमुद्रं तमुच्छोष्यास्त्रगभस्तिभिः 044c स पाण्डवयुगान्तार्कः कुरूनप्यभ्यतीतपत् 045a प्रददाह कुरून्सर्वानर्जुनः शस्त्रतेजसा 045c युगान्ते सर्वभूतानि धूमकेतुरिवोत्थितः 046a तेन बाणसहस्रौघैर्गजाश्वरथयोधिनः 046c ताड्यमानाः क्षितिं जग्मुर्मुक्तशस्त्राः शरार्दिताः 047a केचिदार्तस्वरं चक्रुर्विनेदुरपरे पुनः 047c पार्थबाणहताः केचिन्निपेतुर्विगतासवः 048a तेषामुत्पततां कांश्चित्पतितांश्च पराङ्मुखान् 048c न जघानार्जुनो योधान्योधव्रतमनुस्मरन् 049a ते विशीर्णरथाश्वेभाः प्रायशश्च पराङ्मुखाः 049c कुरवः कर्ण कर्णेति हा हेति च विचुक्रुशुः 050a तमाधिरथिराक्रन्दं विज्ञाय शरणैषिणाम् 050c मा भैष्टेति प्रतिश्रुत्य ययावभिमुखोऽर्जुनम् 051a स भारतरथश्रेष्ठः सर्वभारतहर्षणः 051c प्रादुश्चक्रे तदाग्नेयमस्त्रमस्त्रविदां वरः 052a तस्य दीप्तशरौघस्य दीप्तचापधरस्य च 052c शरौघाञ्शरजालेन विदुधाव धनञ्जयः 052e अस्त्रमस्त्रेण संवार्य प्राणदद्विसृजञ्शरान् 053a धृष्टद्युम्नश्च भीमश्च सात्यकिश्च महारथः 053c विव्यधुः कर्णमासाद्य त्रिभिस्त्रिभिरजिह्मगैः 054a अर्जुनास्त्रं तु राधेयः संवार्य शरवृष्टिभिः 054c तेषां त्रयाणां चापानि चिच्छेद विशिखैस्त्रिभिः 055a ते निकृत्तायुधाः शूरा निर्विषा भुजगा इव 055c रथशक्तीः समुत्क्षिप्य भृशं सिंहा इवानदन् 056a ता भुजाग्रैर्महावेगा विसृष्टा भुजगोपमाः 056c दीप्यमाना महाशक्त्यो जग्मुराधिरथिं प्रति 057a ता निकृत्य शितैर्बाणैस्त्रिभिस्त्रिभिरजिह्मगैः 057c ननाद बलवान्कर्णः पार्थाय विसृजञ्शरान् 058a अर्जुनश्चापि राधेयं विद्ध्वा सप्तभिराशुगैः 058c कर्णादवरजं बाणैर्जघान निशितैस्त्रिभिः 059a ततः शत्रुञ्जयं हत्वा पार्थः षड्भिरजिह्मगैः 059c जहार सद्यो भल्लेन विपाटस्य शिरो रथात् 060a पश्यतां धार्तराष्ट्राणामेकेनैव किरीटिना 060c प्रमुखे सूतपुत्रस्य सोदर्या निहतास्त्रयः 061a ततो भीमः समुत्पत्य स्वरथाद्वैनतेयवत् 061c वरासिना कर्णपक्षाञ्जघान दश पञ्च च 062a पुनः स्वरथमास्थाय धनुरादाय चापरम् 062c विव्याध दशभिः कर्णं सूतमश्वांश्च पञ्चभिः 063a धृष्टद्युम्नोऽप्यसिवरं चर्म चादाय भास्वरम् 063c जघान चन्द्रवर्माणं बृहत्क्षत्रं च पौरवम् 064a ततः स्वरथमास्थाय पाञ्चाल्योऽन्यच्च कार्मुकम् 064c आदाय कर्णं विव्याध त्रिसप्तत्या नदन्रणे 065a शैनेयोऽप्यन्यदादाय धनुरिन्द्रायुधद्युति 065c सूतपुत्रं चतुःषष्ट्या विद्ध्वा सिंह इवानदत् 066a भल्लभ्यां साधुमुक्ताभ्यां छित्त्वा कर्णस्य कार्मुकम् 066c पुनः कर्णं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 067a ततो दुर्योधनो द्रोणो राजा चैव जयद्रथः 067c निमज्जमानं राधेयमुज्जह्रुः सात्यकार्णवात् 068a धृष्टद्युम्नश्च भीमश्च सौभद्रोऽर्जुन एव च 068c नकुलः सहदेवश्च सात्यकिं जुगुपू रणे 069a एवमेष महारौद्रः क्षयार्थं सर्वधन्विनाम् 069c तावकानां परेषां च त्यक्त्वा प्राणानभूद्रणः 070a पदातिरथनागाश्वैर्गजाश्वरथपत्तयः 070c रथिनो नागपत्त्यश्वै रथपत्ती रथद्विपैः 071a अश्वैरश्वा गजैर्नागा रथिनो रथिभिः सह 071c संसक्ताः समदृश्यन्त पत्तयश्चापि पत्तिभिः 072a एवं सुकलिलं युद्धमासीत्क्रव्यादहर्षणम् 072c महद्भिस्तैरभीतानां यमराष्ट्रविवर्धनम् 073a ततो हता नररथवाजिकुञ्जरैरनेकशो द्विपरथवाजिपत्तयः 073c गजैर्गजा रथिभिरुदायुधा रथा हयैर्हयाः पत्तिगणैश्च पत्तयः 074a रथैर्द्विपा द्विरदवरैर्महाहया हयैर्नरा वररथिभिश्च वाजिनः 074c निरस्तजिह्वादशनेक्षणाः क्षितौ क्षयं गताः प्रमथितवर्मभूषणाः 075a तथा परैर्बहुकरणैर्वरायुधैर्हता गताः प्रतिभयदर्शनाः क्षितिम् 075c विपोथिता हयगजपादताडिता भृशाकुला रथखुरनेमिभिर्हताः 076a प्रमोदने श्वापदपक्षिरक्षसां जनक्षये वर्तति तत्र दारुणे 076c महाबलास्ते कुपिताः परस्परं निषूदयन्तः प्रविचेरुरोजसा 077a ततो बले भृशलुलिते परस्परं निरीक्षमाणे रुधिरौघसम्प्लुते 077c दिवाकरेऽस्तङ्गिरिमास्थिते शनैरुभे प्रयाते शिबिराय भारत