001 धृतराष्ट्र उवाच 001a तेष्वनीकेषु भग्नेषु पाण्डुपुत्रेण सञ्जय 001c चलितानां द्रुतानां च कथमासीन्मनो हि वः 002a अनीकानां प्रभग्नानां व्यवस्थानमपश्यताम् 002c दुष्करं प्रतिसन्धानं तन्ममाचक्ष्व सञ्जय 003 सञ्जय उवाच 003a तथापि तव पुत्रस्य प्रियकामा विशां पते 003c यशः प्रवीरा लोकेषु रक्षन्तो द्रोणमन्वयुः 004a समुद्यतेषु शस्त्रेषु सम्प्राप्ते च युधिष्ठिरे 004c अकुर्वन्नार्यकर्माणि भैरवे सत्यभीतवत् 005a अन्तरं भीमसेनस्य प्रापतन्नमितौजसः 005c सात्यकेश्चैव शूरस्य धृष्टद्युम्नस्य चाभिभो 006a द्रोणं द्रोणमिति क्रूराः पाञ्चालाः समचोदयन् 006c मा द्रोणमिति पुत्रास्ते कुरून्सर्वानचोदयन् 007a द्रोणं द्रोणमिति ह्येके मा द्रोणमिति चापरे 007c कुरूणां पाण्डवानां च द्रोणद्यूतमवर्तत 008a यं यं स्म भजते द्रोणः पाञ्चालानां रथव्रजम् 008c तत्र तत्र स्म पाञ्चाल्यो धृष्टद्युम्नोऽथ धीयते 009a यथाभागविपर्यासे सङ्ग्रामे भैरवे सति 009c वीराः समासदन्वीरानगच्छन्भीरवः परान् 010a अकम्पनीयाः शत्रूणां बभूवुस्तत्र पाण्डवाः 010c अकम्पयंस्त्वनीकानि स्मरन्तः क्लेशमात्मनः 011a ते त्वमर्षवशं प्राप्ता ह्रीमन्तः सत्त्वचोदिताः 011c त्यक्त्वा प्राणान्न्यवर्तन्त घ्नन्तो द्रोणं महाहवे 012a अयसामिव सम्पातः शिलानामिव चाभवत् 012c दीव्यतां तुमुले युद्धे प्राणैरमिततेजसाम् 013a न तु स्मरन्ति सङ्ग्राममपि वृद्धास्तथाविधम् 013c दृष्टपूर्वं महाराज श्रुतपूर्वमथापि वा 014a प्राकम्पतेव पृथिवी तस्मिन्वीरावसादने 014c प्रवर्तता बलौघेन महता भारपीडिता 015a घूर्णतो हि बलौघस्य दिवं स्तब्ध्वेव निस्वनः 015c अजातशत्रोः क्रुद्धस्य पुत्रस्य तव चाभवत् 016a समासाद्य तु पाण्डूनामनीकानि सहस्रशः 016c द्रोणेन चरता सङ्ख्ये प्रभग्नानि शितैः शरैः 017a तेषु प्रमथ्यमानेषु द्रोणेनाद्भुतकर्मणा 017c पर्यवारयदासाद्य द्रोणं सेनापतिः स्वयम् 018a तदद्भुतमभूद्युद्धं द्रोणपाञ्चाल्ययोस्तदा 018c नैव तस्योपमा काचित्सम्भवेदिति मे मतिः 019a ततो नीलोऽनलप्रख्यो ददाह कुरुवाहिनीम् 019c शरस्फुलिङ्गश्चापार्चिर्दहन्कक्षमिवानलः 020a तं दहन्तमनीकानि द्रोणपुत्रः प्रतापवान् 020c पूर्वाभिभाषी सुश्लक्ष्णं स्मयमानोऽभ्यभाषत 021a नील किं बहुभिर्दग्धैस्तव योधैः शरार्चिषा 021c मयैकेन हि युध्यस्व क्रुद्धः प्रहर चाशुगैः 022a तं पद्मनिकराकारं पद्मपत्रनिभेक्षणम् 022c व्याकोशपद्माभमुखं नीलो विव्याध सायकैः 023a तेनातिविद्धः सहसा द्रौणिर्भल्लैः शितैस्त्रिभिः 023c धनुर्ध्वजं च छत्रं च द्विषतः स न्यकृन्तत 024a सोत्प्लुत्य स्यन्दनात्तस्मान्नीलश्चर्मवरासिधृक् 024c द्रोणायनेः शिरः कायाद्धर्तुमैच्छत्पतत्रिवत् 025a तस्योद्यतासेः सुनसं शिरः कायात्सकुण्डलम् 025c भल्लेनापाहरद्द्रौणिः स्मयमान इवानघ 026a सम्पूर्णचन्द्राभमुखः पद्मपत्रनिभेक्षणः 026c प्रांशुरुत्पलगर्भाभो निहतो न्यपतत्क्षितौ 027a ततः प्रविव्यथे सेना पाण्डवी भृशमाकुला 027c आचार्यपुत्रेण हते नीले ज्वलिततेजसि 028a अचिन्तयंश्च ते सर्वे पाण्डवानां महारथाः 028c कथं नो वासविस्त्रायाच्छत्रुभ्य इति मारिष 029a दक्षिणेन तु सेनायाः कुरुते कदनं बली 029c संशप्तकावशेषस्य नारायणबलस्य च