001 सञ्जय उवाच 001a प्रियमिन्द्रस्य सततं सखायममितौजसम् 001c हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत 002a ततो गान्धारराजस्य सुतौ परपुरञ्जयौ 002c आर्छेतामर्जुनं सङ्ख्ये भ्रातरौ वृषकाचलौ 003a तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ 003c अविध्येतां महावेगैर्निशितैराशुगैर्भृशम् 004a वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम् 004c तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः 005a ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि 005c गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः 006a ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान् 006c प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनञ्जयः 007a हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः 007c आरुरोह रथं भ्रातुरन्यच्च धनुराददे 008a तावेकरथमारूढौ भ्रातरौ वृषकाचलौ 008c शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः 009a स्यालौ तव महात्मानौ राजानौ वृषकाचलौ 009c भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव 010a लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः 010c निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा 011a तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ 011c संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः 012a तौ रथात्सिंहसङ्काशौ लोहिताक्षौ महाभुजौ 012c गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ 013a तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ 013c यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ 014a दृष्ट्वा विनिहतौ सङ्ख्ये मातुलावपलायिनौ 014c भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते 015a निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः 015c कृष्णौ सम्मोहयन्मायां विदधे शकुनिस्ततः 016a लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः 016c गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः 017a सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः 017c क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसन्धिनः 018a चक्राणि विशिखाः प्रासा विविधान्यायुधानि च 018c प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति 019a खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः 019c ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः 020a विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति 020c सङ्क्रुद्धान्यभ्यधावन्त विविधानि वयांसि च 021a ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनञ्जयः 021c विसृजन्निषुजालानि सहसा तान्यताडयत् 022a ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः 022c विरुवन्तो महारावान्विनेशुः सर्वतो हताः 023a ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति 023c तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन् 024a तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत् 024c हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः 025a अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः 025c प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम् 026a एवं बहुविधा मायाः सौबलस्य कृताः कृताः 026c जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा 027a तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः 027c अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा 028a ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु 028c अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम् 029a सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी 029c द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम् 030a द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः 030c केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना 031a नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम् 031c गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया 032a शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम् 032c गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम् 033a ततः पुनर्दक्षिणतः सङ्ग्रामश्चित्रयोधिनाम् 033c सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम् 034a नानाविधान्यनीकानि पुत्राणां तव भारत 034c अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः 035a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 035c महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत् 036a ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम् 036c स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः 037a तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः 037c शलभा इव सम्पेतुः संवृण्वाना दिशो दश 038a तुरगं रथिनं नागं पदातिमपि मारिष 038c विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः 039a न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः 039c पृथगेकशरारुग्णा निपेतुस्ते गतासवः 040a हतैर्मनुष्यैस्तुरगैश्च सर्वतः शराभिवृष्टैर्द्विरदैश्च पातितैः 040c तदा श्वगोमायुबडाभिनादितं विचित्रमायोधशिरो बभूव ह 041a पिता सुतं त्यजति सुहृद्वरं सुहृत्तथैव पुत्रः पितरं शरातुरः 041c स्वरक्षणे कृतमतयस्तदा जनास्त्यजन्ति वाहानपि पार्थपीडिताः