001 धृतराष्ट्र उवाच 001a तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः 001c प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम् 002 सञ्जय उवाच 002a प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ 002c मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे 003a तथा हि शरवर्षाणि पातयत्यनिशं प्रभो 003c भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः 004a अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः 004c अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः 005a अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः 005c निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः 006a तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च 006c लाडयन्निव राजानं भगदत्तमयोधयत् 007a सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश 007c प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत् 008a ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः 008c शरजालेन स बभौ व्यभ्रः पर्वतराडिव 009a ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम् 009c व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत् 010a ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः 010c विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम् 011a सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः 011c भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः 012a व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च 012c तैरर्जुनस्य समरे किरीटं परिवर्तितम् 013a परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः 013c सुदृष्टः क्रियतां लोक इति राजानमब्रवीत् 014a एवमुक्तस्तु सङ्क्रुद्धः शरवर्षेण पाण्डवम् 014c अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम् 015a तस्य पार्थो धनुश्छित्त्वा तूणीरान्सन्निकृत्य च 015c त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत् 016a विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन् 016c अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि 017a विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम् 017c उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः 018a वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि 018c ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत 019a अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन 019c इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि 020a यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे 020c ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते 021a सबाणः सधनुश्चाहं ससुरासुरमानवान् 021c शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव 022a ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः 022c शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ 023a चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः 023c आत्मानं प्रविभज्येह लोकानां हितमादधे 024a एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता 024c अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी 025a अपरा कुरुते कर्म मानुषं लोकमाश्रिता 025c शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम् 026a यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम 026c वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा 027a तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा 027c प्रायाचत वरं यं मां नरकार्थाय तं शृणु 028a देवानामसुराणां च अवध्यस्तनयोऽस्तु मे 028c उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि 029a एवं वरमहं श्रुत्वा जगत्यास्तनये तदा 029c अमोघमस्त्रमददं वैष्णवं तदहं पुरा 030a अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे 030c नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति 031a अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः 031c भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा 032a तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी 032c स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः 033a तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम् 033c नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष 034a तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम् 034c वियुक्तं परमास्त्रेण जहि पार्थ महासुरम् 035a वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम् 035c यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा 036a एवमुक्तस्ततः पार्थः केशवेन महात्मना 036c भगदत्तं शितैर्बाणैः सहसा समवाकिरत् 037a ततः पार्थो महाबाहुरसम्भ्रान्तो महामनाः 037c कुम्भयोरन्तरे नागं नाराचेन समार्पयत् 038a समासाद्य तु तं नागं बाणो वज्र इवाचलम् 038c अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः 039a स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ 039c नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः 040a ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा 040c बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः 041a स भिन्नहृदयो राजा भगदत्तः किरीटिना 041c शरासनं शरांश्चैव गतासुः प्रमुमोच ह 042a शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः 042c नालताडनविभ्रष्टं पलाशं नलिनादिव 043a स हेममाली तपनीयभाण्डात्पपात नागाद्गिरिसन्निकाशात् 043c सुपुष्पितो मारुतवेगरुग्णो महीधराग्रादिव कर्णिकारः 044a निहत्य तं नरपतिमिन्द्रविक्रमं सखायमिन्द्रस्य तथैन्द्रिराहवे 044c ततोऽपरांस्तव जयकाङ्क्षिणो नरान्बभञ्ज वायुर्बलवान्द्रुमानिव