001 सञ्जय उवाच 001a यियासतस्ततः कृष्णः पार्थस्याश्वान्मनोजवान् 001c अप्रैषीद्धेमसञ्छन्नान्द्रोणानीकाय पाण्डुरान् 002a तं प्रयान्तं कुरुश्रेष्ठं स्वांस्त्रातुं द्रोणतापितान् 002c सुशर्मा भ्रातृभिः सार्धं युद्धार्थी पृष्ठतोऽन्वयात् 003a ततः श्वेतहयः कृष्णमब्रवीदजितं जयः 003c एष मां भ्रातृभिः सार्धं सुशर्माह्वयतेऽच्युत 004a दीर्यते चोत्तरेणैतत्सैन्यं नः शत्रुसूदन 004c द्वैधीभूतं मनो मेऽद्य कृतं संशप्तकैरिदम् 005a किं नु संशप्तकान्हन्मि स्वान्रक्षाम्यहितार्दितान् 005c इति मे त्वं मतं वेत्थ तत्र किं सुकृतं भवेत् 006a एवमुक्तस्तु दाशार्हः स्यन्दनं प्रत्यवर्तयत् 006c येन त्रिगर्ताधिपतिः पाण्डवं समुपाह्वयत् 007a ततोऽर्जुनः सुशर्माणं विद्ध्वा सप्तभिराशुगैः 007c ध्वजं धनुश्चास्य तथा क्षुराभ्यां समकृन्तत 008a त्रिगर्ताधिपतेश्चापि भ्रातरं षड्भिरायसैः 008c साश्वं ससूतं त्वरितः पार्थः प्रैषीद्यमक्षयम् 009a ततो भुजगसङ्काशां सुशर्मा शक्तिमायसीम् 009c चिक्षेपार्जुनमादिश्य वासुदेवाय तोमरम् 010a शक्तिं त्रिभिः शरैश्छित्त्वा तोमरं त्रिभिरर्जुनः 010c सुशर्माणं शरव्रातैर्मोहयित्वा न्यवर्तत 011a तं वासवमिवायान्तं भूरिवर्षशरौघिणम् 011c राजंस्तावकसैन्यानां नोग्रं कश्चिदवारयत् 012a ततो धनञ्जयो बाणैस्तत एव महारथान् 012c आयाद्विनिघ्नन्कौरव्यान्दहन्कक्षमिवानलः 013a तस्य वेगमसह्यं तु कुन्तीपुत्रस्य धीमतः 013c नाशक्नुवंस्ते संसोढुं स्पर्शमग्नेरिव प्रजाः 014a संवेष्टयन्ननीकानि शरवर्षेण पाण्डवः 014c सुपर्णपातवद्राजन्नायात्प्राग्ज्योतिषं प्रति 015a यत्तदानामयज्जिष्णुर्भरतानामपायिनाम् 015c धनुः क्षेमकरं सङ्ख्ये द्विषतामश्रुवर्धनम् 016a तदेव तव पुत्रस्य राजन्दुर्द्यूतदेविनः 016c कृते क्षत्रविनाशाय धनुरायच्छदर्जुनः 017a तथा विक्षोभ्यमाणा सा पार्थेन तव वाहिनी 017c व्यदीर्यत महाराज नौरिवासाद्य पर्वतम् 018a ततो दश सहस्राणि न्यवर्तन्त धनुष्मताम् 018c मतिं कृत्वा रणे क्रुद्धा वीरा जयपराजये 019a व्यपेतहृदयत्रास आपद्धर्मातिगो रथः 019c आर्छत्पार्थो गुरुं भारं सर्वभारसहो युधि 020a यथा नडवनं क्रुद्धः प्रभिन्नः षष्टिहायनः 020c मृद्नीयात्तद्वदायस्तः पार्थोऽमृद्नाच्चमूं तव 021a तस्मिन्प्रमथिते सैन्ये भगदत्तो नराधिपः 021c तेन नागेन सहसा धनञ्जयमुपाद्रवत् 022a तं रथेन नरव्याघ्रः प्रत्यगृह्णादभीतवत् 022c स सन्निपातस्तुमुलो बभूव रथनागयोः 023a कल्पिताभ्यां यथाशास्त्रं रथेन च गजेन च 023c सङ्ग्रामे चेरतुर्वीरौ भगदत्तधनञ्जयौ 024a ततो जीमूतसङ्काशान्नागादिन्द्र इवाभिभूः 024c अभ्यवर्षच्छरौघेण भगदत्तो धनञ्जयम् 025a स चापि शरवर्षं तच्छरवर्षेण वासविः 025c अप्राप्तमेव चिच्छेद भगदत्तस्य वीर्यवान् 026a ततः प्राग्ज्योतिषो राजा शरवर्षं निवार्य तत् 026c शरैर्जघ्ने महाबाहुं पार्थं कृष्णं च भारत 027a ततः स शरजालेन महताभ्यवकीर्य तौ 027c चोदयामास तं नागं वधायाच्युतपार्थयोः 028a तमापतन्तं द्विरदं दृष्ट्वा क्रुद्धमिवान्तकम् 028c चक्रेऽपसव्यं त्वरितः स्यन्दनेन जनार्दनः 029a सम्प्राप्तमपि नेयेष परावृत्तं महाद्विपम् 029c सारोहं मृत्युसात्कर्तुं स्मरन्धर्मं धनञ्जयः 030a स तु नागो द्विपरथान्हयांश्चारुज्य मारिष 030c प्राहिणोन्मृत्युलोकाय ततोऽक्रुध्यद्धनञ्जयः