001 सञ्जय उवाच 001a यन्मां पार्थस्य सङ्ग्रामे कर्माणि परिपृच्छसि 001c तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे 002a रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम् 002c भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत् 003a यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन 003c त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः 004a इन्द्रादनवरः सङ्ख्ये गजयानविशारदः 004c प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः 005a स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि 005c सर्वशब्दातिगः सङ्ख्ये कृतकर्मा जितक्लमः 006a सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ 006c स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति 007a न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम् 007c त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः 008a शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम् 008c अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम् 009a वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः 009c दार्यते भगदत्तेन यत्र पाण्डववाहिनी 010a तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः 010c संशप्तकाः समारोहन्सहस्राणि चतुर्दश 011a दशैव तु सहस्राणि त्रिगर्तानां नराधिप 011c चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः 012a दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष 012c आहूयमानस्य च तैरभवद्धृदयं द्विधा 013a किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन् 013c इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम् 014a तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह 014c अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा 015a स सन्निवृत्तः सहसा कपिप्रवरकेतनः 015c एको रथसहस्राणि निहन्तुं वासवी रणे 016a सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः 016c अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत् 017a स तु संवर्तयामास द्वैधीभावेन पाण्डवः 017c रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा 018a ततः शतसहस्राणि शराणां नतपर्वणाम् 018c व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः 019a नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः 019c न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः 020a यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः 020c ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान् 021a शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः 021c केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ 022a द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः 022c हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः 023a विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः 023c सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः 024a सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः 024c सञ्छिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना 025a बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष 025c सञ्छिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे 026a जज्वालालङ्कृतैः सेना पत्रिभिः प्राणभोजनैः 026c नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने 027a क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव 027c धनञ्जयं भूतगणाः साधु साध्वित्यपूजयन् 028a दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः 028c विस्मयं परमं गत्वा तलमाहत्य पूजयत् 029a ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः 029c भगदत्ताय याहीति पार्थः कृष्णमचोदयत्