001 धृतराष्ट्र उवाच 001a तेष्वेवं सन्निवृत्तेषु प्रत्युद्यातेषु भागशः 001c कथं युयुधिरे पार्था मामकाश्च तरस्विनः 002a किमर्जुनश्चाप्यकरोत्संशप्तकबलं प्रति 002c संशप्तका वा पार्थस्य किमकुर्वत सञ्जय 003 सञ्जय उवाच 003a तथा तेषु निवृत्तेषु प्रत्युद्यातेषु भागशः 003c स्वयमभ्यद्रवद्भीमं नागानीकेन ते सुतः 004a स नाग इव नागेन गोवृषेणेव गोवृषः 004c समाहूतः स्वयं राज्ञा नागानीकमुपाद्रवत् 005a स युद्धकुशलः पार्थो बाहुवीर्येण चान्वितः 005c अभिनत्कुञ्जरानीकमचिरेणैव मारिष 006a ते गजा गिरिसङ्काशाः क्षरन्तः सर्वतो मदम् 006c भीमसेनस्य नाराचैर्विमुखा विमदीकृताः 007a विधमेदभ्रजालानि यथा वायुः समन्ततः 007c व्यधमत्तान्यनीकानि तथैव पवनात्मजः 008a स तेषु विसृजन्बाणान्भीमो नागेष्वशोभत 008c भुवनेष्विव सर्वेषु गभस्तीनुदितो रविः 009a ते भीमबाणैः शतशः संस्यूता विबभुर्गजाः 009c गभस्तिभिरिवार्कस्य व्योम्नि नानाबलाहकाः 010a तथा गजानां कदनं कुर्वाणमनिलात्मजम् 010c क्रुद्धो दुर्योधनोऽभ्येत्य प्रत्यविध्यच्छितैः शरैः 011a ततः क्षणेन क्षितिपं क्षतजप्रतिमेक्षणः 011c क्षयं निनीषुर्निशितैर्भीमो विव्याध पत्रिभिः 012a स शरार्पितसर्वाङ्गः क्रुद्धो विव्याध पाण्डवम् 012c नाराचैरर्करश्म्याभैर्भीमसेनं स्मयन्निव 013a तस्य नागं मणिमयं रत्नचित्रं ध्वजे स्थितम् 013c भल्लाभ्यां कार्मुकं चैव क्षिप्रं चिच्छेद पाण्डवः 014a दुर्योधनं पीड्यमानं दृष्ट्वा भीमेन मारिष 014c चुक्षोभयिषुरभ्यागादङ्गो मातङ्गमास्थितः 015a तमापतन्तं मातङ्गमम्बुदप्रतिमस्वनम् 015c कुम्भान्तरे भीमसेनो नाराचेनार्दयद्भृशम् 016a तस्य कायं विनिर्भिद्य ममज्ज धरणीतले 016c ततः पपात द्विरदो वज्राहत इवाचलः 017a तस्यावर्जितनागस्य म्लेच्छस्यावपतिष्यतः 017c शिरश्चिच्छेद भल्लेन क्षिप्रकारी वृकोदरः 018a तस्मिन्निपतिते वीरे सम्प्राद्रवत सा चमूः 018c सम्भ्रान्ताश्वद्विपरथा पदातीनवमृद्नती 019a तेष्वनीकेषु सर्वेषु विद्रवत्सु समन्ततः 019c प्राग्ज्योतिषस्ततो भीमं कुञ्जरेण समाद्रवत् 020a येन नागेन मघवानजयद्दैत्यदानवान् 020c स नागप्रवरो भीमं सहसा समुपाद्रवत् 021a श्रवणाभ्यामथो पद्भ्यां संहतेन करेण च 021c व्यावृत्तनयनः क्रुद्धः प्रदहन्निव पाण्डवम् 022a ततः सर्वस्य सैन्यस्य नादः समभवन्महान् 022c हा हा विनिहतो भीमः कुञ्जरेणेति मारिष 023a तेन नादेन वित्रस्ता पाण्डवानामनीकिनी 023c सहसाभ्यद्रवद्राजन्यत्र तस्थौ वृकोदरः 024a ततो युधिष्ठिरो राजा हतं मत्वा वृकोदरम् 024c भगदत्तं सपाञ्चालः सर्वतः समवारयत् 025a तं रथै रथिनां श्रेष्ठाः परिवार्य समन्ततः 025c अवाकिरञ्शरैस्तीक्ष्णैः शतशोऽथ सहस्रशः 026a स विघातं पृषत्कानामङ्कुशेन समाचरन् 026c गजेन पाण्डुपाञ्चालान्व्यधमत्पर्वतेश्वरः 027a तदद्भुतमपश्याम भगदत्तस्य संयुगे 027c तथा वृद्धस्य चरितं कुञ्जरेण विशाम्पते 028a ततो राजा दशार्णानां प्राग्ज्योतिषमुपाद्रवत् 028c तिर्यग्यातेन नागेन समदेनाशुगामिना 029a तयोर्युद्धं समभवन्नागयोर्भीमरूपयोः 029c सपक्षयोः पर्वतयोर्यथा सद्रुमयोः पुरा 030a प्राग्ज्योतिषपतेर्नागः सन्निपत्यापवृत्य च 030c पार्श्वे दशार्णाधिपतेर्भित्त्वा नागमपातयत् 031a तोमरैः सूर्यरश्म्याभैर्भगदत्तोऽथ सप्तभिः 031c जघान द्विरदस्थं तं शत्रुं प्रचलितासनम् 032a उपसृत्य तु राजानं भगदत्तं युधिष्ठिरः 032c रथानीकेन महता सर्वतः पर्यवारयत् 033a स कुञ्जरस्थो रथिभिः शुशुभे सर्वतो वृतः 033c पर्वते वनमध्यस्थो ज्वलन्निव हुताशनः 034a मण्डलं सर्वतः श्लिष्टं रथिनामुग्रधन्विनाम् 034c किरतां शरवर्षाणि स नागः पर्यवर्तत 035a ततः प्राग्ज्योतिषो राजा परिगृह्य द्विपर्षभम् 035c प्रेषयामास सहसा युयुधानरथं प्रति 036a शिनेः पौत्रस्य तु रथं परिगृह्य महाद्विपः 036c अभिचिक्षेप वेगेन युयुधानस्त्वपाक्रमत् 037a बृहतः सैन्धवानश्वान्समुत्थाप्य तु सारथिः 037c तस्थौ सात्यकिमासाद्य सम्प्लुतस्तं रथं पुनः 038a स तु लब्ध्वान्तरं नागस्त्वरितो रथमण्डलात् 038c निश्चक्राम ततः सर्वान्परिचिक्षेप पार्थिवान् 039a ते त्वाशुगतिना तेन त्रास्यमाना नरर्षभाः 039c तमेकं द्विरदं सङ्ख्ये मेनिरे शतशो नृपाः 040a ते गजस्थेन काल्यन्ते भगदत्तेन पाण्डवाः 040c ऐरावतस्थेन यथा देवराजेन दानवाः 041a तेषां प्रद्रवतां भीमः पाञ्चालानामितस्ततः 041c गजवाजिकृतः शब्दः सुमहान्समजायत 042a भगदत्तेन समरे काल्यमानेषु पाण्डुषु 042c प्राग्ज्योतिषमभिक्रुद्धः पुनर्भीमः समभ्ययात् 043a तस्याभिद्रवतो वाहान्हस्तमुक्तेन वारिणा 043c सिक्त्वा व्यत्रासयन्नागस्ते पार्थमहरंस्ततः 044a ततस्तमभ्ययात्तूर्णं रुचिपर्वाकृतीसुतः 044c समुक्षञ्शरवर्षेण रथस्थोऽन्तकसन्निभः 045a ततो रुचिरपर्वाणं शरेण नतपर्वणा 045c सुपर्वा पर्वतपतिर्निन्ये वैवस्वतक्षयम् 046a तस्मिन्निपतिते वीरे सौभद्रो द्रौपदीसुताः 046c चेकितानो धृष्टकेतुर्युयुत्सुश्चार्दयन्द्विपम् 047a त एनं शरधाराभिर्धाराभिरिव तोयदाः 047c सिषिचुर्भैरवान्नादान्विनदन्तो जिघांसवः 048a ततः पार्ष्ण्यङ्कुशाङ्गुष्ठैः कृतिना चोदितो द्विपः 048c प्रसारितकरः प्रायात्स्तब्धकर्णेक्षणो द्रुतम् 049a सोऽधिष्ठाय पदा वाहान्युयुत्सोः सूतमारुजत् 049c पुत्रस्तु तव सम्भ्रान्तः सौभद्रस्याप्लुतो रथम् 050a स कुञ्जरस्थो विसृजन्निषूनरिषु पार्थिवः 050c बभौ रश्मीनिवादित्यो भुवनेषु समुत्सृजन् 051a तमार्जुनिर्द्वादशभिर्युयुत्सुर्दशभिः शरैः 051c त्रिभिस्त्रिभिर्द्रौपदेया धृष्टकेतुश्च विव्यधुः 052a सोऽरियत्नार्पितैर्बाणैराचितो द्विरदो बभौ 052c संस्यूत इव सूर्यस्य रश्मिभिर्जलदो महान् 053a नियन्तुः शिल्पयत्नाभ्यां प्रेषितोऽरिशरार्दितः 053c परिचिक्षेप तान्नागः स रिपून्सव्यदक्षिणम् 054a गोपाल इव दण्डेन यथा पशुगणान्वने 054c आवेष्टयत तां सेनां भगदत्तस्तथा मुहुः 055a क्षिप्रं श्येनाभिपन्नानां वायसानामिव स्वनः 055c बभूव पाण्डवेयानां भृशं विद्रवतां स्वनः 056a स नागराजः प्रवराङ्कुशाहतः पुरा सपक्षोऽद्रिवरो यथा नृप 056c भयं तथा रिपुषु समादधद्भृशं वणिग्गणानां क्षुभितो यथार्णवः 057a ततो ध्वनिर्द्विरदरथाश्वपार्थिवैर्भयाद्द्रवद्भिर्जनितोऽतिभैरवः 057c क्षितिं वियद्द्यां विदिशो दिशस्तथा समावृणोत्पार्थिव संयुगे तदा 058a स तेन नागप्रवरेण पार्थिवो भृशं जगाहे द्विषतामनीकिनीम् 058c पुरा सुगुप्तां विबुधैरिवाहवे विरोचनो देववरूथिनीमिव 059a भृशं ववौ ज्वलनसखो वियद्रजः समावृणोन्मुहुरपि चैव सैनिकान् 059c तमेकनागं गणशो यथा गजाः समन्ततो द्रुतमिव मेनिरे जनाः