001 सञ्जय उवाच 001a महद्भैरवमासीन्नः सन्निवृत्तेषु पाण्डुषु 001c दृष्ट्वा द्रोणं छाद्यमानं तैर्भास्करमिवाम्बुदैः 002a तैश्चोद्धूतं रजस्तीव्रमवचक्रे चमूं तव 002c ततो हतममन्याम द्रोणं दृष्टिपथे हते 003a तांस्तु शूरान्महेष्वासान्क्रूरं कर्म चिकीर्षतः 003c दृष्ट्वा दुर्योधनस्तूर्णं स्वसैन्यं समचूचुदत् 004a यथाशक्ति यथोत्साहं यथासत्त्वं नराधिपाः 004c वारयध्वं यथायोगं पाण्डवानामनीकिनीम् 005a ततो दुर्मर्षणो भीममभ्यगच्छत्सुतस्तव 005c आराद्दृष्ट्वा किरन्बाणैरिच्छन्द्रोणस्य जीवितम् 006a तं बाणैरवतस्तार क्रुद्धो मृत्युमिवाहवे 006c तं च भीमोऽतुदद्बाणैस्तदासीत्तुमुलं महत् 007a त ईश्वरसमादिष्टाः प्राज्ञाः शूराः प्रहारिणः 007c बाह्यं मृत्युभयं कृत्वा प्रत्यतिष्ठन्परान्युधि 008a कृतवर्मा शिनेः पुत्रं द्रोणप्रेप्सुं विशाम्पते 008c पर्यवारयदायान्तं शूरं समितिशोभनम् 009a तं शैनेयः शरव्रातैः क्रुद्धः क्रुद्धमवारयत् 009c कृतवर्मा च शैनेयं मत्तो मत्तमिव द्विपम् 010a सैन्धवः क्षत्रधर्माणमापतन्तं शरौघिणम् 010c उग्रधन्वा महेष्वासं यत्तो द्रोणादवारयत् 011a क्षत्रधर्मा सिन्धुपतेश्छित्त्वा केतनकार्मुके 011c नाराचैर्बहुभिः क्रुद्धः सर्वमर्मस्वताडयत् 012a अथान्यद्धनुरादाय सैन्धवः कृतहस्तवत् 012c विव्याध क्षत्रधर्माणं रणे सर्वायसैः शरैः 013a युयुत्सुं पाण्डवार्थाय यतमानं महारथम् 013c सुबाहुर्भ्रातरं शूरं यत्तो द्रोणादवारयत् 014a सुबाहोः सधनुर्बाणावस्यतः परिघोपमौ 014c युयुत्सुः शितपीताभ्यां क्षुराभ्यामच्छिनद्भुजौ 015a राजानं पाण्डवश्रेष्ठं धर्मात्मानं युधिष्ठिरम् 015c वेलेव सागरं क्षुब्धं मद्रराट्समवारयत् 016a तं धर्मराजो बहुभिर्मर्मभिद्भिरवाकिरत् 016c मद्रेशस्तं चतुःषष्ट्या शरैर्विद्ध्वानदद्भृशम् 017a तस्य नानदतः केतुमुच्चकर्त सकार्मुकम् 017c क्षुराभ्यां पाण्डवश्रेष्ठस्तत उच्चुक्रुशुर्जनाः 018a तथैव राजा बाह्लीको राजानं द्रुपदं शरैः 018c आद्रवन्तं सहानीकं सहानीको न्यवारयत् 019a तद्युद्धमभवद्घोरं वृद्धयोः सहसेनयोः 019c यथा महायूथपयोर्द्विपयोः सम्प्रभिन्नयोः 020a विन्दानुविन्दावावन्त्यौ विराटं मत्स्यमार्च्छताम् 020c सहसैन्यौ सहानीकं यथेन्द्राग्नी पुरा बलिम् 021a तदुत्पिञ्जलकं युद्धमासीद्देवासुरोपमम् 021c मत्स्यानां केकयैः सार्धमभीताश्वरथद्विपम् 022a नाकुलिं तु शतानीकं भूतकर्मा सभापतिः 022c अस्यन्तमिषुजालानि यान्तं द्रोणादवारयत् 023a ततो नकुलदायादस्त्रिभिर्भल्लैः सुसंशितैः 023c चक्रे विबाहुशिरसं भूतकर्माणमाहवे 024a सुतसोमं तु विक्रान्तमापतन्तं शरौघिणम् 024c द्रोणायाभिमुखं वीरं विविंशतिरवारयत् 025a सुतसोमस्तु सङ्क्रुद्धः स्वपितृव्यमजिह्मगैः 025c विविंशतिं शरैर्विद्ध्वा नाभ्यवर्तत दंशितः 026a अथ भीमरथः शाल्वमाशुगैरायसैः शितैः 026c षड्भिः साश्वनियन्तारमनयद्यमसादनम् 027a श्रुतकर्माणमायान्तं मयूरसदृशैर्हयैः 027c चैत्रसेनिर्महाराज तव पौत्रो न्यवारयत् 028a तौ पौत्रौ तव दुर्धर्षौ परस्परवधैषिणौ 028c पितॄणामर्थसिद्ध्यर्थं चक्रतुर्युद्धमुत्तमम् 029a तिष्ठन्तमग्रतो दृष्ट्वा प्रतिविन्ध्यं तमाहवे 029c द्रौणिर्मानं पितुः कुर्वन्मार्गणैः समवारयत् 030a तं क्रुद्धः प्रतिविव्याध प्रतिविन्ध्यः शितैः शरैः 030c सिंहलाङ्गूललक्ष्माणं पितुरर्थे व्यवस्थितम् 031a प्रवपन्निव बीजानि बीजकाले नरर्षभ 031c द्रौणायनिर्द्रौपदेयं शरवर्षैरवाकिरत् 032a यस्तु शूरतमो राजन्सेनयोरुभयोर्मतः 032c तं पटच्चरहन्तारं लक्ष्मणः समवारयत् 033a स लक्ष्मणस्येष्वसनं छित्त्वा लक्ष्म च भारत 033c लक्ष्मणे शरजालानि विसृजन्बह्वशोभत 034a विकर्णस्तु महाप्राज्ञो याज्ञसेनिं शिखण्डिनम् 034c पर्यवारयदायान्तं युवानं समरे युवा 035a ततस्तमिषुजालेन याज्ञसेनिः समावृणोत् 035c विधूय तद्बाणजालं बभौ तव सुतो बली 036a अङ्गदोऽभिमुखः शूरमुत्तमौजसमाहवे 036c द्रोणायाभिमुखं यान्तं वत्सदन्तैरवारयत् 037a स सम्प्रहारस्तुमुलस्तयोः पुरुषसिंहयोः 037c सैनिकानां च सर्वेषां तयोश्च प्रीतिवर्धनः 038a दुर्मुखस्तु महेष्वासो वीरं पुरुजितं बली 038c द्रोणायाभिमुखं यान्तं कुन्तिभोजमवारयत् 039a स दुर्मुखं भ्रुवोर्मध्ये नाराचेन व्यताडयत् 039c तस्य तद्विबभौ वक्त्रं सनालमिव पङ्कजम् 040a कर्णस्तु केकयान्भ्रातॄन्पञ्च लोहितकध्वजान् 040c द्रोणायाभिमुखं याताञ्शरवर्षैरवारयत् 041a ते चैनं भृशसङ्क्रुद्धाः शरव्रातैरवाकिरन् 041c स च तांश्छादयामास शरजालैः पुनः पुनः 042a नैव कर्णो न ते पञ्च ददृशुर्बाणसंवृताः 042c साश्वसूतध्वजरथाः परस्परशराचिताः 043a पुत्रस्ते दुर्जयश्चैव जयश्च विजयश्च ह 043c नीलं काश्यं जयं शूरास्त्रयस्त्रीन्प्रत्यवारयन् 044a तद्युद्धमभवद्घोरमीक्षितृप्रीतिवर्धनम् 044c सिंहव्याघ्रतरक्षूणां यथेभमहिषर्षभैः 045a क्षेमधूर्तिबृहन्तौ तौ भ्रातरौ सात्वतं युधि 045c द्रोणायाभिमुखं यान्तं शरैस्तीक्ष्णैस्ततक्षतुः 046a तयोस्तस्य च तद्युद्धमत्यद्भुतमिवाभवत् 046c सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने 047a राजानं तु तथाम्बष्ठमेकं युद्धाभिनन्दिनम् 047c चेदिराजः शरानस्यन्क्रुद्धो द्रोणादवारयत् 048a तमम्बष्ठोऽस्थिभेदिन्या निरविध्यच्छलाकया 048c स त्यक्त्वा सशरं चापं रथाद्भूमिमथापतत् 049a वार्धक्षेमिं तु वार्ष्णेयं कृपः शारद्वतः शरैः 049c अक्षुद्रः क्षुद्रकैर्द्रोणात्क्रुद्धरूपमवारयत् 050a युध्यन्तौ कृपवार्ष्णेयौ येऽपश्यंश्चित्रयोधिनौ 050c ते युद्धसक्तमनसो नान्या बुबुधिरे क्रियाः 051a सौमदत्तिस्तु राजानं मणिमन्तमतन्द्रितम् 051c पर्यवारयदायान्तं यशो द्रोणस्य वर्धयन् 052a स सौमदत्तेस्त्वरितश्छित्त्वेष्वसनकेतने 052c पुनः पताकां सूतं च छत्रं चापातयद्रथात् 053a अथाप्लुत्य रथात्तूर्णं यूपकेतुरमित्रहा 053c साश्वसूतध्वजरथं तं चकर्त वरासिना 054a रथं च स्वं समास्थाय धनुरादाय चापरम् 054c स्वयं यच्छन्हयान्राजन्व्यधमत्पाण्डवीं चमूम् 055a मुसलैर्मुद्गरैश्चक्रैर्भिण्डिपालैः परश्वधैः 055c पांसुवाताग्निसलिलैर्भस्मलोष्ठतृणद्रुमैः 056a आरुजन्प्ररुजन्भञ्जन्निघ्नन्विद्रावयन्क्षिपन् 056c सेनां विभीषयन्नायाद्द्रोणप्रेप्सुर्घटोत्कचः 057a तं तु नानाप्रहरणैर्नानायुद्धविशेषणैः 057c राक्षसं राक्षसः क्रुद्धः समाजघ्ने ह्यलम्बुसः 058a तयोस्तदभवद्युद्धं रक्षोग्रामणिमुख्ययोः 058c तादृग्यादृक्पुरा वृत्तं शम्बरामरराजयोः 059a एवं द्वन्द्वशतान्यासन्रथवारणवाजिनाम् 059c पदातीनां च भद्रं ते तव तेषां च सङ्कुलम् 060a नैतादृशो दृष्टपूर्वः सङ्ग्रामो नैव च श्रुतः 060c द्रोणस्याभावभावेषु प्रसक्तानां यथाभवत् 061a इदं घोरमिदं चित्रमिदं रौद्रमिति प्रभो 061c तत्र युद्धान्यदृश्यन्त प्रततानि बहूनि च