001 धृतराष्ट्र उवाच 001a व्यथयेयुरिमे सेनां देवानामपि संयुगे 001c आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः 002a सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः 002c तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः 003a दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी 003c अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः 004a स एव महतीं सेनां समावर्तयदाहवे 004c किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् 005a युक्त एव हि भाग्येन ध्रुवमुत्पद्यते नरः 005c स तथाकृष्यते तेन न यथा स्वयमिच्छति 006a द्यूतव्यसनमासाद्य क्लेशितो हि युधिष्ठिरः 006c स पुनर्भागधेयेन सहायानुपलब्धवान् 007a अर्धं मे केकया लब्धाः काशिकाः कोसलाश्च ये 007c चेदयश्चापरे वङ्गा मामेव समुपाश्रिताः 008a पृथिवी भूयसी तात मम पार्थस्य नो तथा 008c इति मामब्रवीत्सूत मन्दो दुर्योधनस्तदा 009a तस्य सेनासमूहस्य मध्ये द्रोणः सुरक्षितः 009c निहतः पार्षतेनाजौ किमन्यद्भागधेयतः 010a मध्ये राज्ञां महाबाहुं सदा युद्धाभिनन्दिनम् 010c सर्वास्त्रपारगं द्रोणं कथं मृत्युरुपेयिवान् 011a समनुप्राप्तकृच्छ्रोऽहं सम्मोहं परमं गतः 011c भीष्मद्रोणौ हतौ श्रुत्वा नाहं जीवितुमुत्सहे 012a यन्मा क्षत्ताब्रवीत्तात प्रपश्यन्पुत्रगृद्धिनम् 012c दुर्योधनेन तत्सर्वं प्राप्तं सूत मया सह 013a नृशंसं तु परं तत्स्यात्त्यक्त्वा दुर्योधनं यदि 013c पुत्रशेषं चिकीर्षेयं कृच्छ्रं न मरणं भवेत् 014a यो हि धर्मं परित्यज्य भवत्यर्थपरो नरः 014c सोऽस्माच्च हीयते लोकात्क्षुद्रभावं च गच्छति 015a अद्य चाप्यस्य राष्ट्रस्य हतोत्साहस्य सञ्जय 015c अवशेषं न पश्यामि ककुदे मृदिते सति 016a कथं स्यादवशेषं हि धुर्ययोरभ्यतीतयोः 016c यौ नित्यमनुजीवामः क्षमिणौ पुरुषर्षभौ 017a व्यक्तमेव च मे शंस यथा युद्धमवर्तत 017c केऽयुध्यन्के व्यपाकर्षन्के क्षुद्राः प्राद्रवन्भयात् 018a धनञ्जयं च मे शंस यद्यच्चक्रे रथर्षभः 018c तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च विशेषतः 019a यथासीच्च निवृत्तेषु पाण्डवेषु च सञ्जय 019c मम सैन्यावशेषस्य सन्निपातः सुदारुणः 019e मामकानां च ये शूराः कांस्तत्र समवारयन्