001 धृतराष्ट्र उवाच 001a सर्वेषामेव मे ब्रूहि रथचिह्नानि सञ्जय 001c ये द्रोणमभ्यवर्तन्त क्रुद्धा भीमपुरोगमाः 002 सञ्जय उवाच 002a ऋश्यवर्णैर्हयैर्दृष्ट्वा व्यायच्छन्तं वृकोदरम् 002c रजताश्वस्ततः शूरः शैनेयः सन्न्यवर्तत 003a दर्शनीयास्तु काम्बोजाः शुकपत्रपरिच्छदाः 003c वहन्तो नकुलं शीघ्रं तावकानभिदुद्रुवुः 004a कृष्णास्तु मेघसङ्काशाः सहदेवमुदायुधम् 004c भीमवेगा नरव्याघ्रमवहन्वातरंहसः 005a हेमोत्तमप्रतिच्छन्नैर्हयैर्वातसमैर्जवे 005c अभ्यवर्तन्त सैन्यानि सर्वाण्येव युधिष्ठिरम् 006a राज्ञस्त्वनन्तरं राजा पाञ्चाल्यो द्रुपदोऽभवत् 006c जातरूपमयच्छत्रः सर्वैः स्वैरभिरक्षितः 007a ललामैर्हरिभिर्युक्तैः सर्वशब्दक्षमैर्युधि 007c राज्ञां मध्ये महेष्वासः शान्तभीरभ्यवर्तत 008a तं विराटोऽन्वयात्पश्चात्सह शूरैर्महारथैः 008c केकयाश्च शिखण्डी च धृष्टकेतुस्तथैव च 008e स्वैः स्वैः सैन्यैः परिवृता मत्स्यराजानमन्वयुः 009a ते तु पाटलपुष्पाणां समवर्णा हयोत्तमाः 009c वहमाना व्यराजन्त मत्स्यस्यामित्रघातिनः 010a हारिद्रसमवर्णास्तु जवना हेममालिनः 010c पुत्रं विराटराजस्य सत्वराः समुदावहन् 011a इन्द्रगोपकवर्णैस्तु भ्रातरः पञ्च केकयाः 011c जातरूपसमाभासः सर्वे लोहितकध्वजाः 012a ते हेममालिनः शूराः सर्वे युद्धविशारदाः 012c वर्षन्त इव जीमूताः प्रत्यदृश्यन्त दंशिताः 013a आमपात्रनिभाकाराः पाञ्चाल्यममितौजसम् 013c दान्तास्ताम्रारुणा युक्ताः शिखण्डिनमुदावहन् 014a तथा द्वादशसाहस्राः पाञ्चालानां महारथाः 014c तेषां तु षट्सहस्राणि ये शिखण्डिनमन्वयुः 015a पुत्रं तु शिशुपालस्य नरसिंहस्य मारिष 015c आक्रीडन्तो वहन्ति स्म सारङ्गशबला हयाः 016a धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः 016c काम्बोजैः शबलैरश्वैरभ्यवर्तत दुर्जयः 017a बृहत्क्षत्रं तु कैकेयं सुकुमारं हयोत्तमाः 017c पलालधूमवर्णाभाः सैन्धवाः शीघ्रमावहन् 018a मल्लिकाक्षाः पद्मवर्णा बाह्लिजाताः स्वलङ्कृताः 018c शूरं शिखण्डिनः पुत्रं क्षत्रदेवमुदावहन् 019a युवानमवहन्युद्धे क्रौञ्चवर्णा हयोत्तमाः 019c काश्यस्याभिभुवः पुत्रं सुकुमारं महारथम् 020a श्वेतास्तु प्रतिविन्ध्यं तं कृष्णग्रीवा मनोजवाः 020c यन्तुः प्रेष्यकरा राजन्राजपुत्रमुदावहन् 021a सुतसोमं तु यं धौम्यात्पार्थः पुत्रमयाचत 021c माषपुष्पसवर्णास्तमवहन्वाजिनो रणे 022a सहस्रसोमप्रतिमा बभूवुः पुरे कुरूणामुदयेन्दुनाम्नि 022c तस्मिञ्जातः सोमसङ्क्रन्दमध्ये यस्मात्तस्मात्सुतसोमोऽभवत्सः 023a नाकुलिं तु शतानीकं शालपुष्पनिभा हयाः 023c आदित्यतरुणप्रख्याः श्लाघनीयमुदावहन् 024a काञ्चनप्रतिमैर्योक्त्रैर्मयूरग्रीवसन्निभाः 024c द्रौपदेयं नरव्याघ्रं श्रुतकर्माणमावहन् 025a श्रुतकीर्तिं श्रुतनिधिं द्रौपदेयं हयोत्तमाः 025c ऊहुः पार्थसमं युद्धे चाषपत्रनिभा हयाः 026a यमाहुरध्यर्धगुणं कृष्णात्पार्थाच्च संयुगे 026c अभिमन्युं पिशङ्गास्तं कुमारमवहन्रणे 027a एकस्तु धार्तराष्ट्रेभ्यः पाण्डवान्यः समाश्रितः 027c तं बृहन्तो महाकाया युयुत्सुमवहन्रणे 028a पलालकाण्डवर्णास्तु वार्धक्षेमिं तरस्विनम् 028c ऊहुः सुतुमुले युद्धे हया हृष्टाः स्वलङ्कृताः 029a कुमारं शितिपादास्तु रुक्मपत्रैरुरश्छदैः 029c सौचित्तिमवहन्युद्धे यन्तुः प्रेष्यकरा हयाः 030a रुक्मपृष्ठावकीर्णास्तु कौशेयसदृशा हयाः 030c सुवर्णमालिनः क्षान्ताः श्रेणिमन्तमुदावहन् 031a रुक्ममालाधराः शूरा हेमवर्णाः स्वलङ्कृताः 031c काशिराजं हयश्रेष्ठाः श्लाघनीयमुदावहन् 032a अस्त्राणां च धनुर्वेदे ब्राह्मे वेदे च पारगम् 032c तं सत्यधृतिमायान्तमरुणाः समुदावहन् 033a यः स पाञ्चालसेनानीर्द्रोणमंशमकल्पयत् 033c पारावतसवर्णाश्वा धृष्टद्युम्नमुदावहन् 034a तमन्वयात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः 034c श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभो 035a युक्तैः परमकाम्बोजैर्जवनैर्हेममालिभिः 035c भीषयन्तो द्विषत्सैन्यं यमवैश्रवणोपमाः 036a प्रभद्रकास्तु पाञ्चालाः षट्सहस्राण्युदायुधाः 036c नानावर्णैर्हयश्रेष्ठैर्हेमचित्ररथध्वजाः 037a शरव्रातैर्विधुन्वन्तः शत्रून्विततकार्मुकाः 037c समानमृत्यवो भूत्वा धृष्टद्युम्नं समन्वयुः 038a बभ्रुकौशेयवर्णास्तु सुवर्णवरमालिनः 038c ऊहुरग्लानमनसश्चेकितानं हयोत्तमाः 039a इन्द्रायुधसवर्णैस्तु कुन्तिभोजो हयोत्तमैः 039c आयात्सुवश्यैः पुरुजिन्मातुलः सव्यसाचिनः 040a अन्तरिक्षसवर्णास्तु तारकाचित्रिता इव 040c राजानं रोचमानं ते हयाः सङ्ख्ये समावहन् 041a कर्बुराः शितिपादास्तु स्वर्णजालपरिच्छदाः 041c जारासन्धिं हयश्रेष्ठाः सहदेवमुदावहन् 042a ये तु पुष्करनालस्य समवर्णा हयोत्तमाः 042c जवे श्येनसमाश्चित्राः सुदामानमुदावहन् 043a शशलोहितवर्णास्तु पाण्डुरोद्गतराजयः 043c पाञ्चाल्यं गोपतेः पुत्रं सिंहसेनमुदावहन् 044a पाञ्चालानां नरव्याघ्रो यः ख्यातो जनमेजयः 044c तस्य सर्षपपुष्पाणां तुल्यवर्णा हयोत्तमाः 045a माषवर्णास्तु जवना बृहन्तो हेममालिनः 045c दधिपृष्ठाश्चन्द्रमुखाः पाञ्चाल्यमवहन्द्रुतम् 046a शूराश्च भद्रकाश्चैव शरकाण्डनिभा हयाः 046c पद्मकिञ्जल्कवर्णाभा दण्डधारमुदावहन् 047a बिभ्रतो हेममालाश्च चक्रवाकोदरा हयाः 047c कोसलाधिपतेः पुत्रं सुक्षत्रं वाजिनोऽवहन् 048a शबलास्तु बृहन्तोऽश्वा दान्ता जाम्बूनदस्रजः 048c युद्धे सत्यधृतिं क्षैमिमवहन्प्रांशवः शुभाः 049a एकवर्णेन सर्वेण ध्वजेन कवचेन च 049c अश्वैश्च धनुषा चैव शुक्लैः शुक्लो न्यवर्तत 050a समुद्रसेनपुत्रं तु सामुद्रा रुद्रतेजसम् 050c अश्वाः शशाङ्कसदृशाश्चन्द्रदेवमुदावहन् 051a नीलोत्पलसवर्णास्तु तपनीयविभूषिताः 051c शैब्यं चित्ररथं युद्धे चित्रमाल्यावहन्हयाः 052a कलायपुष्पवर्णास्तु श्वेतलोहितराजयः 052c रथसेनं हयश्रेष्ठाः समूहुर्युद्धदुर्मदम् 053a यं तु सर्वमनुष्येभ्यः प्राहुः शूरतरं नृपम् 053c तं पटच्चरहन्तारं शुकवर्णावहन्हयाः 054a चित्रायुधं चित्रमाल्यं चित्रवर्मायुधध्वजम् 054c ऊहुः किङ्शुकपुष्पाणां तुल्यवर्णा हयोत्तमाः 055a एकवर्णेन सर्वेण ध्वजेन कवचेन च 055c धनुषा रथवाहैश्च नीलैर्नीलोऽभ्यवर्तत 056a नानारूपै रत्नचित्रैर्वरूथध्वजकार्मुकैः 056c वाजिध्वजपताकाभिश्चित्रैश्चित्रोऽभ्यवर्तत 057a ये तु पुष्करपत्रस्य तुल्यवर्णा हयोत्तमाः 057c ते रोचमानस्य सुतं हेमवर्णमुदावहन् 058a योधाश्च भद्रकाराश्च शरदण्डानुदण्डजाः 058c श्वेताण्डाः कुक्कुटाण्डाभा दण्डकेतुमुदावहन् 059a आटरूषकपुष्पाभा हयाः पाण्ड्यानुयायिनाम् 059c अवहन्रथमुख्यानामयुतानि चतुर्दश 060a नानारूपेण वर्णेन नानाकृतिमुखा हयाः 060c रथचक्रध्वजं वीरं घटोत्कचमुदावहन् 061a सुवर्णवर्णा धर्मज्ञमनीकस्थं युधिष्ठिरम् 061c राजश्रेष्ठं हयश्रेष्ठाः सर्वतः पृष्ठतोऽन्वयुः 061e वर्णैश्चोच्चावचैर्दिव्यैः सदश्वानां प्रभद्रकाः 062a ते यत्ता भीमसेनेन सहिताः काञ्चनध्वजाः 062c प्रत्यदृश्यन्त राजेन्द्र सेन्द्रा इव दिवौकसः 063a अत्यरोचत तान्सर्वान्धृष्टद्युम्नः समागतान् 063c सर्वाण्यपि च सैन्यानि भारद्वाजोऽत्यरोचत