001 धृतराष्ट्र उवाच 001a भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे 001c पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत 002a आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम् 002c असेवितां कापुरुषैः सेवितां पुरुषर्षभैः 003a स हि वीरो नरः सूत यो भग्नेषु निवर्तते 003c अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम् 004a जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम् 004c त्यजन्तमाहवे प्राणान्सन्नद्धं चित्रयोधिनम् 005a महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम् 005c कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम् 006a भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम् 006c के वीराः सन्न्यवर्तन्त तन्ममाचक्ष्व सञ्जय 007 सञ्जय उवाच 007a तान्दृष्ट्वा चलितान्सङ्ख्ये प्रणुन्नान्द्रोणसायकैः 007c पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान् 008a द्रोणचापविमुक्तेन शरौघेणासुहारिणा 008c सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान् 009a कौरवाः सिंहनादेन नानावाद्यस्वनेन च 009c रथद्विपनराश्वैश्च सर्वतः पर्यवारयन् 010a तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः 010c दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव 011a पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः 011c सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना 012a नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः 012c यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः 013a अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना 013c पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः 014a सन्निरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना 014c एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः 015a भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः 015c अन्योन्यं समलीयन्त पलायनपरायणाः 016a एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः 016c मदीयैरावृतो योधैः कर्ण तर्जयतीव माम् 017a व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः 017c निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः 018 कर्ण उवाच 018a नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत् 018c न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते 019a न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः 019c शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः 020a विषाग्निद्यूतसङ्क्लेशान्वनवासं च पाण्डवाः 020c स्मरमाणा न हास्यन्ति सङ्ग्राममिति मे मतिः 021a निकृतो हि महाबाहुरमितौजा वृकोदरः 021c वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति 022a असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः 022c आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति 023a तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः 023c पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः 024a शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः 024c विशेषतश्च भीमेन संरब्धेनाभिचोदिताः 025a ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुङ्गवाः 025c वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव 026a एकायनगता ह्येते पीडयेयुर्यतव्रतम् 026c अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः 026e असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे 027a अतिभारं त्वहं मन्ये भारद्वाजे समाहितम् 027c ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः 027e काका इव महानागं मा वै हन्युर्यतव्रतम् 028 सञ्जय उवाच 028a राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा 028c भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति 029a तत्रारावो महानासीदेकं द्रोणं जिघांसताम् 029c पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः