001 सञ्जय उवाच 001a ततो युधिष्ठिरो द्रोणं दृष्ट्वान्तिकमुपागतम् 001c महता शरवर्षेण प्रत्यगृह्णादभीतवत् 002a ततो हलहलाशब्द आसीद्यौधिष्ठिरे बले 002c जिघृक्षति महासिंहे गजानामिव यूथपम् 003a दृष्ट्वा द्रोणं ततः शूरः सत्यजित्सत्यविक्रमः 003c युधिष्ठिरं परिप्रेप्सुमाचार्यं समुपाद्रवत् 004a तत आचार्यपाञ्चाल्यौ युयुधाते परस्परम् 004c विक्षोभयन्तौ तत्सैन्यमिन्द्रवैरोचनाविव 005a ततः सत्यजितं तीक्ष्णैर्दशभिर्मर्मभेदिभिः 005c अविध्यच्छीघ्रमाचार्यश्छित्त्वास्य सशरं धनुः 006a स शीघ्रतरमादाय धनुरन्यत्प्रतापवान् 006c द्रोणं सोऽभिजघानाशु विंशद्भिः कङ्कपत्रिभिः 007a ज्ञात्वा सत्यजिता द्रोणं ग्रस्यमानमिवाहवे 007c वृकः शरशतैस्तीक्ष्णैः पाञ्चाल्यो द्रोणमर्दयत् 008a सञ्छाद्यमानं समरे द्रोणं दृष्ट्वा महारथम् 008c चुक्रुशुः पाण्डवा राजन्वस्त्राणि दुधुवुश्च ह 009a वृकस्तु परमक्रुद्धो द्रोणं षष्ट्या स्तनान्तरे 009c विव्याध बलवान्राजंस्तदद्भुतमिवाभवत् 010a द्रोणस्तु शरवर्षेण छाद्यमानो महारथः 010c वेगं चक्रे महावेगः क्रोधादुद्वृत्य चक्षुषी 011a ततः सत्यजितश्चापं छित्त्वा द्रोणो वृकस्य च 011c षड्भिः ससूतं सहयं शरैर्द्रोणोऽवधीद्वृकम् 012a अथान्यद्धनुरादाय सत्यजिद्वेगवत्तरम् 012c साश्वं ससूतं विशिखैर्द्रोणं विव्याध सध्वजम् 013a स तन्न ममृषे द्रोणः पाञ्चाल्येनार्दनं मृधे 013c ततस्तस्य विनाशाय सत्वरं व्यसृजच्छरान् 014a हयान्ध्वजं धनुर्मुष्टिमुभौ च पार्ष्णिसारथी 014c अवाकिरत्ततो द्रोणः शरवर्षैः सहस्रशः 015a तथा सञ्छिद्यमानेषु कार्मुकेषु पुनः पुनः 015c पाञ्चाल्यः परमास्त्रज्ञः शोणाश्वं समयोधयत् 016a स सत्यजितमालक्ष्य तथोदीर्णं महाहवे 016c अर्धचन्द्रेण चिच्छेद शिरस्तस्य महात्मनः 017a तस्मिन्हते महामात्रे पाञ्चालानां रथर्षभे 017c अपायाज्जवनैरश्वैर्द्रोणात्त्रस्तो युधिष्ठिरः 018a पाञ्चालाः केकया मत्स्याश्चेदिकारूषकोसलाः 018c युधिष्ठिरमुदीक्षन्तो हृष्टा द्रोणमुपाद्रवन् 019a ततो युधिष्ठिरप्रेप्सुराचार्यः शत्रुपूगहा 019c व्यधमत्तान्यनीकानि तूलराशिमिवानिलः 020a निर्दहन्तमनीकानि तानि तानि पुनः पुनः 020c द्रोणं मत्स्यादवरजः शतानीकोऽभ्यवर्तत 021a सूर्यरश्मिप्रतीकाशैः कर्मारपरिमार्जितैः 021c षड्भिः ससूतं सहयं द्रोणं विद्ध्वानदद्भृशम् 022a तस्य नानदतो द्रोणः शिरः कायात्सकुण्डलम् 022c क्षुरेणापाहरत्तूर्णं ततो मत्स्याः प्रदुद्रुवुः 023a मत्स्याञ्जित्वाजयच्चेदीन्कारूषान्केकयानपि 023c पाञ्चालान्सृञ्जयान्पाण्डून्भारद्वाजः पुनः पुनः 024a तं दहन्तमनीकानि क्रुद्धमग्निं यथा वनम् 024c दृष्ट्वा रुक्मरथं क्रुद्धं समकम्पन्त सृञ्जयाः 025a उत्तमं ह्यादधानस्य धनुरस्याशुकारिणः 025c ज्याघोषो निघ्नतोऽमित्रान्दिक्षु सर्वासु शुश्रुवे 026a नागानश्वान्पदातींश्च रथिनो गजसादिनः 026c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 027a नानद्यमानः पर्जन्यो मिश्रवातो हिमात्यये 027c अश्मवर्षमिवावर्षत्परेषां भयमादधत् 028a सर्वा दिशः समचरत्सैन्यं विक्षोभयन्निव 028c बली शूरो महेष्वासो मित्राणामभयङ्करः 029a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 029c दिक्षु सर्वास्वपश्याम द्रोणस्यामिततेजसः 030a द्रोणस्तु पाण्डवानीके चकार कदनं महत् 030c यथा दैत्यगणे विष्णुः सुरासुरनमस्कृतः 031a स शूरः सत्यवाक्प्राज्ञो बलवान्सत्यविक्रमः 031c महानुभावः कालान्ते रौद्रीं भीरुविभीषणाम् 032a कवचोर्मिध्वजावर्तां मर्त्यकूलापहारिणीम् 032c गजवाजिमहाग्राहामसिमीनां दुरासदाम् 033a वीरास्थिशर्करां रौद्रां भेरीमुरजकच्छपाम् 033c चर्मवर्मप्लवां घोरां केशशैवलशाड्वलाम् 034a शरौघिणीं धनुःस्रोतां बाहुपन्नगसङ्कुलाम् 034c रणभूमिवहां घोरां कुरुसृञ्जयवाहिनीम् 034e मनुष्यशीर्षपाषाणां शक्तिमीनां गदोडुपाम् 035a उष्णीषफेनवसनां निष्कीर्णान्त्रसरीसृपाम् 035c वीरापहारिणीमुग्रां मांसशोणितकर्दमाम् 036a हस्तिग्राहां केतुवृक्षां क्षत्रियाणां निमज्जनीम् 036c क्रूरां शरीरसङ्घाटां सादिनक्रां दुरत्ययाम् 036e द्रोणः प्रावर्तयत्तत्र नदीमन्तकगामिनीम् 037a क्रव्यादगणसङ्घुष्टां श्वशृगालगणायुताम् 037c निषेवितां महारौद्रैः पिशिताशैः समन्ततः 038a तं दहन्तमनीकानि रथोदारं कृतान्तवत् 038c सर्वतोऽभ्यद्रवन्द्रोणं कुन्तीपुत्रपुरोगमाः 039a तांस्तु शूरान्महेष्वासांस्तावकाभ्युद्यतायुधाः 039c राजानो राजपुत्राश्च समन्तात्पर्यवारयन् 040a ततो द्रोणः सत्यसन्धः प्रभिन्न इव कुञ्जरः 040c अभ्यतीत्य रथानीकं दृढसेनमपातयत् 041a ततो राजानमासाद्य प्रहरन्तमभीतवत् 041c अविध्यन्नवभिः क्षेमं स हतः प्रापतद्रथात् 042a स मध्यं प्राप्य सैन्यानां सर्वाः प्रविचरन्दिशः 042c त्राता ह्यभवदन्येषां न त्रातव्यः कथञ्चन 043a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 043c वसुदानं च भल्लेन प्रेषयद्यमसादनम् 044a अशीत्या क्षत्रवर्माणं षड्विंशत्या सुदक्षिणम् 044c क्षत्रदेवं तु भल्लेन रथनीडादपाहरत् 045a युधामन्युं चतुःषष्ट्या त्रिंशता चैव सात्यकिम् 045c विद्ध्वा रुक्मरथस्तूर्णं युधिष्ठिरमुपाद्रवत् 046a ततो युधिष्ठिरः क्षिप्रं कितवो राजसत्तमः 046c अपायाज्जवनैरश्वैः पाञ्चाल्यो द्रोणमभ्ययात् 047a तं द्रोणः सधनुष्कं तु साश्वयन्तारमक्षिणोत् 047c स हतः प्रापतद्भूमौ रथाज्ज्योतिरिवाम्बरात् 048a तस्मिन्हते राजपुत्रे पाञ्चालानां यशस्करे 048c हत द्रोणं हत द्रोणमित्यासीत्तुमुलं महत् 049a तांस्तथा भृशसङ्क्रुद्धान्पाञ्चालान्मत्स्यकेकयान् 049c सृञ्जयान्पाण्डवांश्चैव द्रोणो व्यक्षोभयद्बली 050a सात्यकिं चेकितानं च धृष्टद्युम्नशिखण्डिनौ 050c वार्धक्षेमिं चित्रसेनं सेनाबिन्दुं सुवर्चसम् 051a एतांश्चान्यांश्च सुबहून्नानाजनपदेश्वरान् 051c सर्वान्द्रोणोऽजयद्युद्धे कुरुभिः परिवारितः 052a तावकास्तु महाराज जयं लब्ध्वा महाहवे 052c पाण्डवेयान्रणे जघ्नुर्द्रवमाणान्समन्ततः 053a ते दानवा इवेन्द्रेण वध्यमाना महात्मना 053c पाञ्चालाः केकया मत्स्याः समकम्पन्त भारत