001 सञ्जय उवाच 001a परिणाम्य निशां तां तु भारद्वाजो महारथः 001c बहूक्त्वा च ततो राजन्राजानं च सुयोधनम् 002a विधाय योगं पार्थेन संशप्तकगणैः सह 002c निष्क्रान्ते च रणात्पार्थे संशप्तकवधं प्रति 003a व्यूढानीकस्ततो द्रोणः पाण्डवानां महाचमूम् 003c अभ्ययाद्भरतश्रेष्ठ धर्मराजजिघृक्षया 004a व्यूहं दृष्ट्वा सुपर्णं तु भारद्वाजकृतं तदा 004c व्यूहेन मण्डलार्धेन प्रत्यव्यूहद्युधिष्ठिरः 005a मुखमासीत्सुपर्णस्य भारद्वाजो महारथः 005c शिरो दुर्योधनो राजा सोदर्यैः सानुगैः सह 006a चक्षुषी कृतवर्मा च गौतमश्चास्यतां वरः 006c भूतवर्मा क्षेमशर्मा करकर्षश्च वीर्यवान् 007a कलिङ्गाः सिंहलाः प्राच्याः शूराभीरा दशेरकाः 007c शका यवनकाम्बोजास्तथा हंसपदाश्च ये 008a ग्रीवायां शूरसेनाश्च दरदा मद्रकेकयाः 008c गजाश्वरथपत्त्यौघास्तस्थुः शतसहस्रशः 009a भूरिश्रवाः शलः शल्यः सोमदत्तश्च बाह्लिकः 009c अक्षौहिण्या वृता वीरा दक्षिणं पक्षमाश्रिताः 010a विन्दानुविन्दावावन्त्यौ काम्बोजश्च सुदक्षिणः 010c वामं पक्षं समाश्रित्य द्रोणपुत्राग्रगाः स्थिताः 011a पृष्ठे कलिङ्गाः साम्बष्ठा मागधाः पौण्ड्रमद्रकाः 011c गान्धाराः शकुनिप्राग्याः पार्वतीया वसातयः 012a पुच्छे वैकर्तनः कर्णः सपुत्रज्ञातिबान्धवः 012c महत्या सेनया तस्थौ नानाध्वजसमुत्थया 013a जयद्रथो भीमरथः सांयात्रिकसभो जयः 013c भूमिञ्जयो वृषक्राथो नैषधश्च महाबलः 014a वृता बलेन महता ब्रह्मलोकपुरस्कृताः 014c व्यूहस्योपरि ते राजन्स्थिता युद्धविशारदाः 015a द्रोणेन विहितो व्यूहः पदात्यश्वरथद्विपैः 015c वातोद्धूतार्णवाकारः प्रवृत्त इव लक्ष्यते 016a तस्य पक्षप्रपक्षेभ्यो निष्पतन्ति युयुत्सवः 016c सविद्युत्स्तनिता मेघाः सर्वदिग्भ्य इवोष्णगे 017a तस्य प्राग्ज्योतिषो मध्ये विधिवत्कल्पितं गजम् 017c आस्थितः शुशुभे राजन्नंशुमानुदये यथा 018a माल्यदामवता राजा श्वेतच्छत्रेण धार्यता 018c कृत्तिकायोगयुक्तेन पौर्णमास्यामिवेन्दुना 019a नीलाञ्जनचयप्रख्यो मदान्धो द्विरदो बभौ 019c अभिवृष्टो महामेघैर्यथा स्यात्पर्वतो महान् 020a नानानृपतिभिर्वीरैर्विविधायुधभूषणैः 020c समन्वितः पार्वतीयैः शक्रो देवगणैरिव 021a ततो युधिष्ठिरः प्रेक्ष्य व्यूहं तमतिमानुषम् 021c अजय्यमरिभिः सङ्ख्ये पार्षतं वाक्यमब्रवीत् 022a ब्राह्मणस्य वशं नाहमियामद्य यथा प्रभो 022c पारावतसवर्णाश्व तथा नीतिर्विधीयताम् 023 धृष्टद्युम्न उवाच 023a द्रोणस्य यतमानस्य वशं नैष्यसि सुव्रत 023c अहमावारयिष्यामि द्रोणमद्य सहानुगम् 024a मयि जीवति कौरव्य नोद्वेगं कर्तुमर्हसि 024c न हि शक्तो रणे द्रोणो विजेतुं मां कथञ्चन 025 सञ्जय उवाच 025a एवमुक्त्वा किरन्बाणान्द्रुपदस्य सुतो बली 025c पारावतसवर्णाश्वः स्वयं द्रोणमुपाद्रवत् 026a अनिष्टदर्शनं दृष्ट्वा धृष्टद्युम्नमवस्थितम् 026c क्षणेनैवाभवद्द्रोणो नातिहृष्टमना इव 027a तं तु सम्प्रेक्ष्य पुत्रस्ते दुर्मुखः शत्रुकर्शनः 027c प्रियं चिकीर्षन्द्रोणस्य धृष्टद्युम्नमवारयत् 028a स सम्प्रहारस्तुमुलः समरूप इवाभवत् 028c पार्षतस्य च शूरस्य दुर्मुखस्य च भारत 029a पार्षतः शरजालेन क्षिप्रं प्रच्छाद्य दुर्मुखम् 029c भारद्वाजं शरौघेण महता समवारयत् 030a द्रोणमावारितं दृष्ट्वा भृशायस्तस्तवात्मजः 030c नानालिङ्गैः शरव्रातैः पार्षतं सममोहयत् 031a तयोर्विषक्तयोः सङ्ख्ये पाञ्चाल्यकुरुमुख्ययोः 031c द्रोणो यौधिष्ठिरं सैन्यं बहुधा व्यधमच्छरैः 032a अनिलेन यथाभ्राणि विच्छिन्नानि समन्ततः 032c तथा पार्थस्य सैन्यानि विच्छिन्नानि क्वचित्क्वचित् 033a मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् 033c तत उन्मत्तवद्राजन्निर्मर्यादमवर्तत 034a नैव स्वे न परे राजन्नज्ञायन्त परस्परम् 034c अनुमानेन सञ्ज्ञाभिर्युद्धं तत्समवर्तत 035a चूडामणिषु निष्केषु भूषणेष्वसिचर्मसु 035c तेषामादित्यवर्णाभा मरीच्यः प्रचकाशिरे 036a तत्प्रकीर्णपताकानां रथवारणवाजिनाम् 036c बलाकाशबलाभ्राभं ददृशे रूपमाहवे 037a नरानेव नरा जघ्नुरुदग्राश्च हया हयान् 037c रथांश्च रथिनो जघ्नुर्वारणा वरवारणान् 038a समुच्छ्रितपताकानां गजानां परमद्विपैः 038c क्षणेन तुमुलो घोरः सङ्ग्रामः समवर्तत 039a तेषां संसक्तगात्राणां कर्षतामितरेतरम् 039c दन्तसङ्घातसङ्घर्षात्सधूमोऽग्निरजायत 040a विप्रकीर्णपताकास्ते विषाणजनिताग्नयः 040c बभूवुः खं समासाद्य सविद्युत इवाम्बुदाः 041a विक्षरद्भिर्नदद्भिश्च निपतद्भिश्च वारणैः 041c सम्बभूव मही कीर्णा मेघैर्द्यौरिव शारदी 042a तेषामाहन्यमानानां बाणतोमरवृष्टिभिः 042c वारणानां रवो जज्ञे मेघानामिव सम्प्लवे 043a तोमराभिहताः केचिद्बाणैश्च परमद्विपाः 043c वित्रेसुः सर्वभूतानां शब्दमेवापरेऽव्रजन् 044a विषाणाभिहताश्चापि केचित्तत्र गजा गजैः 044c चक्रुरार्तस्वरं घोरमुत्पातजलदा इव 045a प्रतीपं ह्रियमाणाश्च वारणा वरवारणैः 045c उन्मथ्य पुनराजह्रुः प्रेरिताः परमाङ्कुशैः 046a महामात्रा महामात्रैस्ताडिताः शरतोमरैः 046c गजेभ्यः पृथिवीं जग्मुर्मुक्तप्रहरणाङ्कुशाः 047a निर्मनुष्याश्च मातङ्गा विनदन्तस्ततस्ततः 047c छिन्नाभ्राणीव सम्पेतुः सम्प्रविश्य परस्परम् 048a हतान्परिवहन्तश्च यन्त्रिताः परमायुधैः 048c दिशो जग्मुर्महानागाः केचिदेकचरा इव 049a ताडितास्ताड्यमानाश्च तोमरर्ष्टिपरश्वधैः 049c पेतुरार्तस्वरं कृत्वा तदा विशसने गजाः 050a तेषां शैलोपमैः कायैर्निपतद्भिः समन्ततः 050c आहता सहसा भूमिश्चकम्पे च ननाद च 051a सादितैः सगजारोहैः सपताकैः समन्ततः 051c मातङ्गैः शुशुभे भूमिर्विकीर्णैरिव पर्वतैः 052a गजस्थाश्च महामात्रा निर्भिन्नहृदया रणे 052c रथिभिः पातिता भल्लैर्विकीर्णाङ्कुशतोमराः 053a क्रौञ्चवद्विनदन्तोऽन्ये नाराचाभिहता गजाः 053c परान्स्वांश्चापि मृद्नन्तः परिपेतुर्दिशो दश 054a गजाश्वरथसङ्घानां शरीरौघसमावृता 054c बभूव पृथिवी राजन्मांसशोणितकर्दमा 055a प्रमथ्य च विषाणाग्रैः समुत्क्षिप्य च वारणैः 055c सचक्राश्च विचक्राश्च रथैरेव महारथाः 056a रथाश्च रथिभिर्हीना निर्मनुष्याश्च वाजिनः 056c हतारोहाश्च मातङ्गा दिशो जग्मुः शरातुराः 057a जघानात्र पिता पुत्रं पुत्रश्च पितरं तथा 057c इत्यासीत्तुमुलं युद्धं न प्रज्ञायत किञ्चन 058a आ गुल्फेभ्योऽवसीदन्त नराः शोणितकर्दमे 058c दीप्यमानैः परिक्षिप्ता दावैरिव महाद्रुमाः 059a शोणितैः सिच्यमानानि वस्त्राणि कवचानि च 059c छत्राणि च पताकाश्च सर्वं रक्तमदृश्यत 060a हयौघाश्च रथौघाश्च नरौघाश्च निपातिताः 060c संवृत्ताः पुनरावृत्ता बहुधा रथनेमिभिः 061a स गजौघमहावेगः परासुनरशैवलः 061c रथौघतुमुलावर्तः प्रबभौ सैन्यसागरः 062a तं वाहनमहानौभिर्योधा जयधनैषिणः 062c अवगाह्यावमज्जन्तो नैव मोहं प्रचक्रिरे 063a शरवर्षाभिवृष्टेषु योधेष्वजितलक्ष्मसु 063c न हि स्वचित्ततां लेभे कश्चिदाहतलक्षणः 064a वर्तमाने तथा युद्धे घोररूपे भयङ्करे 064c मोहयित्वा परान्द्रोणो युधिष्ठिरमुपाद्रवत्