001 सञ्जय उवाच 001a दृष्ट्वा तु सन्निवृत्तांस्तान्संशप्तकगणान्पुनः 001c वासुदेवं महात्मानमर्जुनः समभाषत 002a चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति 002c नैते हास्यन्ति सङ्ग्रामं जीवन्त इति मे मतिः 003a पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च 003c अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव 004a ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम् 004c प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः 005a बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा 005c उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः 006a मण्डलानि ततश्चक्रे गतप्रत्यागतानि च 006c यथा शक्ररथो राजन्युद्धे देवासुरे पुरा 007a अथ नारायणाः क्रुद्धा विविधायुधपाणयः 007c छादयन्तः शरव्रातैः परिवव्रुर्धनञ्जयम् 008a अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ 008c कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनञ्जयम् 009a क्रुद्धस्तु फल्गुनः सङ्ख्ये द्विगुणीकृतविक्रमः 009c गाण्डीवमुपसम्मृज्य तूर्णं जग्राह संयुगे 010a बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम् 010c देवदत्तं महाशङ्खं पूरयामास पाण्डवः 011a अथास्त्रमरिसङ्घघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः 011c ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक् 012a आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः 012c अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे 013a अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ 013c इति ब्रुवाणाः सम्मूढा जघ्नुरन्योन्यमाहवे 014a मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम् 014c अशोभन्त रणे योधाः पुष्पिता इव किङ्शुकाः 015a ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात् 015c कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम् 016a अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि 016c माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः 017a ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः 017c व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च 018a ततो नैवार्जुनस्तत्र न रथो न च केशवः 018c प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः 019a ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः 019c हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा 020a भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः 020c सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष 021a ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत् 021c क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन् 022a तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः 022c वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत् 023a ततः संशप्तकव्रातान्साश्वद्विपरथायुधान् 023c उवाह भगवान्वायुः शुष्कपर्णचयानिव 024a उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना 024c प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष 025a तांस्तथा व्याकुलीकृत्य त्वरमाणो धनञ्जयः 025c जघान निशितैर्बाणैः सहस्राणि शतानि च 026a शिरांसि भल्लैरहरद्बाहूनपि च सायुधान् 026c हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत् 027a पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन् 027c नानाङ्गावयवैर्हीनांश्चकारारीन्धनञ्जयः 028a गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान् 028c शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान् 029a मुण्डतालवनानीव तत्र तत्र चकाशिरे 029c छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित् 030a सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः 030c पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः 031a चामरापीडकवचाः स्रस्तान्त्रनयनासवः 031c सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ 032a विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः 032c पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः 033a तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि 033c भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ 034a रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः 034c मही चाप्यभवद्दुर्गा कबन्धशतसङ्कुला 035a तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे 035c आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून् 036a ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः 036c तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः 037a सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः 037c आस्तीर्णा सम्बभौ सर्वा प्रेतीभूतैः समन्ततः 038a एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि 038c व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत् 039a तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः 039c युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्