001 सञ्जय उवाच 001a ततः संशप्तका राजन्समे देशे व्यवस्थिताः 001c व्यूह्यानीकं रथैरेव चन्द्रार्धाख्यं मुदान्विताः 002a ते किरीटिनमायान्तं दृष्ट्वा हर्षेण मारिष 002c उदक्रोशन्नरव्याघ्राः शब्देन महता तदा 003a स शब्दः प्रदिशः सर्वा दिशः खञ्च समावृणोत् 003c आवृतत्वाच्च लोकस्य नासीत्तत्र प्रतिस्वनः 004a अतीव सम्प्रहृष्टांस्तानुपलभ्य धनञ्जयः 004c किञ्चिदभ्युत्स्मयन्कृष्णमिदं वचनमब्रवीत् 005a पश्यैतान्देवकीमातर्मुमूर्षूनद्य संयुगे 005c भ्रातॄंस्त्रैगर्तकानेवं रोदितव्ये प्रहर्षितान् 006a अथ वा हर्षकालोऽयं त्रैगर्तानामसंशयम् 006c कुनरैर्दुरवापान्हि लोकान्प्राप्स्यन्त्यनुत्तमान् 007a एवमुक्त्वा महाबाहुर्हृषीकेशं ततोऽर्जुनः 007c आससाद रणे व्यूढां त्रैगर्तानामनीकिनीम् 008a स देवदत्तमादाय शङ्खं हेमपरिष्कृतम् 008c दध्मौ वेगेन महता फल्गुनः पूरयन्दिशः 009a तेन शब्देन वित्रस्ता संशप्तकवरूथिनी 009c निश्चेष्टावस्थिता सङ्क्ये अश्मसारमयी यथा 010a वाहास्तेषां विवृत्ताक्षाः स्तब्धकर्णशिरोधराः 010c विष्टब्धचरणा मूत्रं रुधिरं च प्रसुस्रुवुः 011a उपलभ्य च ते सञ्ज्ञामवस्थाप्य च वाहिनीम् 011c युगपत्पाण्डुपुत्राय चिक्षिपुः कङ्कपत्रिणः 012a तान्यर्जुनः सहस्राणि दश पञ्चैव चाशुगैः 012c अनागतान्येव शरैश्चिच्छेदाशुपराक्रमः 013a ततोऽर्जुनं शितैर्बाणैर्दशभिर्दशभिः पुनः 013c प्रत्यविध्यंस्ततः पार्थस्तानविध्यत्त्रिभिस्त्रिभिः 014a एकैकस्तु ततः पार्थं राजन्विव्याध पञ्चभिः 014c स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमी 015a भूय एव तु संरब्धास्तेऽर्जुनं सहकेशवम् 015c आपूरयञ्शरैस्तीक्ष्णैस्तटाकमिव वृष्टिभिः 016a ततः शरसहस्राणि प्रापतन्नर्जुनं प्रति 016c भ्रमराणामिव व्राताः फुल्लद्रुमगणे वने 017a ततः सुबाहुस्त्रिंशद्भिरद्रिसारमयैर्दृढैः 017c अविध्यदिषुभिर्गाढं किरीटे सव्यसाचिनम् 018a तैः किरीटी किरीटस्थैर्हेमपुङ्खैरजिह्मगैः 018c शातकुम्भमयापीडो बभौ यूप इवोच्छ्रितः 019a हस्तावापं सुबाहोस्तु भल्लेन युधि पाण्डवः 019c चिच्छेद तं चैव पुनः शरवर्षैरवाकिरत् 020a ततः सुशर्मा दशभिः सुरथश्च किरीटिनम् 020c सुधर्मा सुधनुश्चैव सुबाहुश्च समर्पयन् 021a तांस्तु सर्वान्पृथग्बाणैर्वानरप्रवरध्वजः 021c प्रत्यविध्यद्ध्वजांश्चैषां भल्लैश्चिच्छेद काञ्चनान् 022a सुधन्वनो धनुश्छित्त्वा हयान्वै न्यवधीच्छरैः 022c अथास्य सशिरस्त्राणं शिरः कायादपाहरत् 023a तस्मिंस्तु पतिते वीरे त्रस्तास्तस्य पदानुगाः 023c व्यद्रवन्त भयाद्भीता येन दौर्योधनं बलम् 024a ततो जघान सङ्क्रुद्धो वासविस्तां महाचमूम् 024c शरजालैरविच्छिन्नैस्तमः सूर्य इवांशुभिः 025a ततो भग्ने बले तस्मिन्विप्रयाते समन्ततः 025c सव्यसाचिनि सङ्क्रुद्धे त्रैगर्तान्भयमाविशत् 026a ते वध्यमानाः पार्थेन शरैः सन्नतपर्वभिः 026c अमुह्यंस्तत्र तत्रैव त्रस्ता मृगगणा इव 027a ततस्त्रिगर्तराट्क्रुद्धस्तानुवाच महारथान् 027c अलं द्रुतेन वः शूरा न भयं कर्तुमर्हथ 028a शप्त्वा तु शपथान्घोरान्सर्वसैन्यस्य पश्यतः 028c गत्वा दौर्योधनं सैन्यं किं वै वक्ष्यथ मुख्यगाः 029a नावहास्याः कथं लोके कर्मणानेन संयुगे 029c भवेम सहिताः सर्वे निवर्तध्वं यथाबलम् 030a एवमुक्तास्तु ते राजन्नुदक्रोशन्मुहुर्मुहुः 030c शङ्खांश्च दध्मिरे वीरा हर्षयन्तः परस्परम् 031a ततस्ते सन्न्यवर्तन्त संशप्तकगणाः पुनः 031c नारायणाश्च गोपालाः कृत्वा मृत्युं निवर्तनम्