001 सञ्जय उवाच 001a ते सेने शिबिरं गत्वा न्यविशेतां विशाम्पते 001c यथाभागं यथान्यायं यथागुल्मं च सर्वशः 002a कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः 002c दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत् 003a उक्तमेतन्मया पूर्वं न तिष्ठति धनञ्जये 003c शक्यो ग्रहीतुं सङ्ग्रामे देवैरपि युधिष्ठिरः 004a इति तद्वः प्रयततां कृतं पार्थेन संयुगे 004c मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ 005a अपनीते तु योगेन केनचिच्छ्वेतवाहने 005c तत एष्यति ते राजन्वशमद्य युधिष्ठिरः 006a कश्चिदाह्वयतां सङ्ख्ये देशमन्यं प्रकर्षतु 006c तमजित्वा तु कौन्तेयो न निवर्तेत्कथञ्चन 007a एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप 007c ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः 008a अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम् 008c मामुपायान्तमालोक्य गृहीतमिति विद्धि तम् 009a एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम् 009c समानेष्यामि सगणं वशमद्य न संशयः 010a यदि तिष्ठति सङ्ग्रामे मुहूर्तमपि पाण्डवः 010c अथापयाति सङ्ग्रामाद्विजयात्तद्विशिष्यते 011a द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः 011c भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत् 012a वयं विनिकृता राजन्सदा गाण्डीवधन्वना 012c अनागःस्वपि चागस्कृदस्मासु भरतर्षभ 013a ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान् 013c क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः 014a स नो दिव्यास्त्रसम्पन्नश्चक्षुर्विषयमागतः 014c कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम् 015a भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम् 015c वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः 016a अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः 016c सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति 017a एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत 017c सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च 018a सहिता भ्रातरः पञ्च रथानामयुतेन च 018c न्यवर्तन्त महाराज कृत्वा शपथमाहवे 019a मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः 019c सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः 020a माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि 020c रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह 021a नानाजनपदेभ्यश्च रथानामयुतं पुनः 021c समुत्थितं विशिष्टानां संशपार्थमुपागतम् 022a ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक् 022c जगृहुः कुशचीराणि चित्राणि कवचानि च 023a ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः 023c मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः 024a यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः 024c योक्ष्यमाणास्तदात्मानं यशसा विजयेन च 025a ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः 025c प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः 026a ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक् 026c गाश्च वासांसि च पुनः समाभाष्य परस्परम् 027a प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम् 027c तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः 028a शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे 028c धृत्वा धनञ्जयवधे प्रतिज्ञां चापि चक्रिरे 029a ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम् 029c पानपस्य च ये लोका गुरुदाररतस्य च 030a ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः 030c शरणागतं च त्यजतो याचमानं तथा घ्नतः 031a अगारदाहिनां ये च ये च गां निघ्नतामपि 031c अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि 032a जायां च ऋतुकाले वै ये मोहादभिगच्छताम् 032c श्राद्धसङ्गतिकानां च ये चाप्यात्मापहारिणाम् 033a न्यासापहारिणां ये च श्रुतं नाशयतां च ये 033c कोपेन युध्यमानानां ये च नीचानुसारिणाम् 034a नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम् 034c तानाप्नुयामहे लोकान्ये च पापकृतामपि 035a यद्यहत्वा वयं युद्धे निवर्तेम धनञ्जयम् 035c तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः 036a यदि त्वसुकरं लोके कर्म कुर्याम संयुगे 036c इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः 037a एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे 037c आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति 038a आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरञ्जयः 038c धर्मराजमिदं वाक्यमपदान्तरमब्रवीत् 039a आहूतो न निवर्तेयमिति मे व्रतमाहितम् 039c संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः 040a एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे 040c वधाय सगणस्यास्य मामनुज्ञातुमर्हसि 041a नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ 041c सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि 042 युधिष्ठिर उवाच 042a श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम् 042c यथा तदनृतं तस्य भवेत्तद्वत्समाचर 043a द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः 043c प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ 044 अर्जुन उवाच 044a अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि 044c ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति 045a हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो 045c सर्वैरपि समेतैर्वा न स्थातव्यं कथञ्चन 046 सञ्जय उवाच 046a अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः 046c प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः 047a विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली 047c क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव 048a ततो दौर्योधनं सैन्यं मुदा परमया युतम् 048c गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे 049a ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा 049c गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके