001 सञ्जय उवाच 001a तद्बलं सुमहद्दीर्णं त्वदीयं प्रेक्ष्य वीर्यवान् 001c दधारैको रणे पाण्डून्वृषसेनोऽस्त्रमायया 002a शरा दश दिशो मुक्ता वृषसेनेन मारिष 002c विचेरुस्ते विनिर्भिद्य नरवाजिरथद्विपान् 003a तस्य दीप्ता महाबाणा विनिश्चेरुः सहस्रशः 003c भानोरिव महाबाहो ग्रीष्मकाले मरीचयः 004a तेनार्दिता महाराज रथिनः सादिनस्तथा 004c निपेतुरुर्व्यां सहसा वातनुन्ना इव द्रुमाः 005a हयौघांश्च रथौघांश्च गजौघांश्च समन्ततः 005c अपातयद्रणे राजञ्शतशोऽथ सहस्रशः 006a दृष्ट्वा तमेवं समरे विचरन्तमभीतवत् 006c सहिताः सर्वराजानः परिवव्रुः समन्ततः 007a नाकुलिस्तु शतानीको वृषसेनं समभ्ययात् 007c विव्याध चैनं दशभिर्नाराचैर्मर्मभेदिभिः 008a तस्य कर्णात्मजश्चापं छित्त्वा केतुमपातयत् 008c तं भ्रातरं परीप्सन्तो द्रौपदेयाः समभ्ययुः 009a कर्णात्मजं शरव्रातैश्चक्रुश्चादृश्यमञ्जसा 009c तान्नदन्तोऽभ्यधावन्त द्रोणपुत्रमुखा रथाः 010a छादयन्तो महाराज द्रौपदेयान्महारथान् 010c शरैर्नानाविधैस्तूर्णं पर्वताञ्जलदा इव 011a तान्पाण्डवाः प्रत्यगृह्णंस्त्वरिताः पुत्रगृद्धिनः 011c पाञ्चालाः केकया मत्स्याः सृञ्जयाश्चोद्यतायुधाः 012a तद्युद्धमभवद्घोरं तुमुलं लोमहर्षणम् 012c त्वदीयैः पाण्डुपुत्राणां देवानामिव दानवैः 013a एवमुत्तमसंरम्भा युयुधुः कुरुपाण्डवाः 013c परस्परमुदीक्षन्तः परस्परकृतागसः 014a तेषां ददृशिरे कोपाद्वपूंष्यमिततेजसाम् 014c युयुत्सूनामिवाकाशे पतत्रिवरभोगिनाम् 015a भीमकर्णकृपद्रोणद्रौणिपार्षतसात्यकैः 015c बभासे स रणोद्देशः कालसूर्यैरिवोदितैः 016a तदासीत्तुमुलं युद्धं निघ्नतामितरेतरम् 016c महाबलानां बलिभिर्दानवानां यथा सुरैः 017a ततो युधिष्ठिरानीकमुद्धूतार्णवनिस्वनम् 017c त्वदीयमवधीत्सैन्यं सम्प्रद्रुतमहारथम् 018a तत्प्रभग्नं बलं दृष्ट्वा शत्रुभिर्भृशमर्दितम् 018c अलं द्रुतेन वः शूरा इति द्रोणोऽभ्यभाषत 019a ततः शोणहयः क्रुद्धश्चतुर्दन्त इव द्विपः 019c प्रविश्य पाण्डवानीकं युधिष्ठिरमुपाद्रवत् 020a तमविध्यच्छितैर्बाणैः कङ्कपत्रैर्युधिष्ठिरः 020c तस्य द्रोणो धनुश्छित्त्वा तं द्रुतं समुपाद्रवत् 021a चक्ररक्षः कुमारस्तु पाञ्चालानां यशस्करः 021c दधार द्रोणमायान्तं वेलेव सरितां पतिम् 022a द्रोणं निवारितं दृष्ट्वा कुमारेण द्विजर्षभम् 022c सिंहनादरवो ह्यासीत्साधु साध्विति भाषताम् 023a कुमारस्तु ततो द्रोणं सायकेन महाहवे 023c विव्याधोरसि सङ्क्रुद्धः सिंहवच्चानदन्मुहुः 024a संवार्य तु रणे द्रोणः कुमारं वै महाबलः 024c शरैरनेकसाहस्रैः कृतहस्तो जितक्लमः 025a तं शूरमार्यव्रतिनमस्त्रार्थकृतनिश्रमम् 025c चक्ररक्षमपामृद्नात्कुमारं द्विजसत्तमः 026a स मध्यं प्राप्य सेनायाः सर्वाः परिचरन्दिशः 026c तव सैन्यस्य गोप्तासीद्भारद्वाजो रथर्षभः 027a शिखण्डिनं द्वादशभिर्विंशत्या चोत्तमौजसम् 027c नकुलं पञ्चभिर्विद्ध्वा सहदेवं च सप्तभिः 028a युधिष्ठिरं द्वादशभिर्द्रौपदेयांस्त्रिभिस्त्रिभिः 028c सात्यकिं पञ्चभिर्विद्ध्वा मत्स्यं च दशभिः शरैः 029a व्यक्षोभयद्रणे योधान्यथामुख्यानभिद्रवन् 029c अभ्यवर्तत सम्प्रेप्सुः कुन्तीपुत्रं युधिष्ठिरम् 030a युगन्धरस्ततो राजन्भारद्वाजं महारथम् 030c वारयामास सङ्क्रुद्धं वातोद्धूतमिवार्णवम् 031a युधिष्ठिरं स विद्ध्वा तु शरैः सन्नतपर्वभिः 031c युगन्धरं च भल्लेन रथनीडादपाहरत् 032a ततो विराटद्रुपदौ केकयाः सात्यकिः शिबिः 032c व्याघ्रदत्तश्च पाञ्चाल्यः सिंहसेनश्च वीर्यवान् 033a एते चान्ये च बहवः परीप्सन्तो युधिष्ठिरम् 033c आवव्रुस्तस्य पन्थानं किरन्तः सायकान्बहून् 034a व्याघ्रदत्तश्च पाञ्चाल्यो द्रोणं विव्याध मार्गणैः 034c पञ्चाशद्भिः शितै राजंस्तत उच्चुक्रुशुर्जनाः 035a त्वरितं सिंहसेनस्तु द्रोणं विद्ध्वा महारथम् 035c प्राहसत्सहसा हृष्टस्त्रासयन्वै यतव्रतम् 036a ततो विस्फार्य नयने धनुर्ज्यामवमृज्य च 036c तलशब्दं महत्कृत्वा द्रोणस्तं समुपाद्रवत् 037a ततस्तु सिंहसेनस्य शिरः कायात्सकुण्डलम् 037c व्याघ्रदत्तस्य चाक्रम्य भल्लाभ्यामहरद्बली 038a तान्प्रमृद्य शरव्रातैः पाण्डवानां महारथान् 038c युधिष्ठिरसमभ्याशे तस्थौ मृत्युरिवान्तकः 039a ततोऽभवन्महाशब्दो राजन्यौधिष्ठिरे बले 039c हृतो राजेति योधानां समीपस्थे यतव्रते 040a अब्रुवन्सैनिकास्तत्र दृष्ट्वा द्रोणस्य विक्रमम् 040c अद्य राजा धार्तराष्ट्रः कृतार्थो वै भविष्यति 040e आगमिष्यति नो नूनं धार्तराष्ट्रस्य संयुगे 041a एवं सञ्जल्पतां तेषां तावकानां महारथः 041c आयाज्जवेन कौन्तेयो रथघोषेण नादयन् 042a शोणितोदां रथावर्तां कृत्वा विशसने नदीम् 042c शूरास्थिचयसङ्कीर्णां प्रेतकूलापहारिणीम् 043a तां शरौघमहाफेनां प्रासमत्स्यसमाकुलाम् 043c नदीमुत्तीर्य वेगेन कुरून्विद्राव्य पाण्डवः 044a ततः किरीटी सहसा द्रोणानीकमुपाद्रवत् 044c छादयन्निषुजालेन महता मोहयन्निव 045a शीघ्रमभ्यस्यतो बाणान्सन्दधानस्य चानिशम् 045c नान्तरं ददृशे कश्चित्कौन्तेयस्य यशस्विनः 046a न दिशो नान्तरिक्षं च न द्यौर्नैव च मेदिनी 046c अदृश्यत महाराज बाणभूतमिवाभवत् 047a नादृश्यत तदा राजंस्तत्र किञ्चन संयुगे 047c बाणान्धकारे महति कृते गाण्डीवधन्वना 048a सूर्ये चास्तमनुप्राप्ते रजसा चाभिसंवृते 048c नाज्ञायत तदा शत्रुर्न सुहृन्न च किञ्चन 049a ततोऽवहारं चक्रुस्ते द्रोणदुर्योधनादयः 049c तान्विदित्वा भृशं त्रस्तानयुद्धमनसः परान् 050a स्वान्यनीकानि बीभत्सुः शनकैरवहारयत् 050c ततोऽभितुष्टुवुः पार्थं प्रहृष्टाः पाण्डुसृञ्जयाः 050e पाञ्चालाश्च मनोज्ञाभिर्वाग्भिः सूर्यमिवर्षयः 051a एवं स्वशिबिरं प्रायाज्जित्वा शत्रून्धनञ्जयः 051c पृष्ठतः सर्वसैन्यानां मुदितो वै सकेशवः 052a मसारगल्वर्कसुवर्णरूप्यैर्वज्रप्रवालस्फटिकैश्च मुख्यैः 052c चित्रे रथे पाण्डुसुतो बभासे नक्षत्रचित्रे वियतीव चन्द्रः