001 धृतराष्ट्र उवाच 001a बहूनि सुविचित्राणि द्वन्द्वयुद्धानि सञ्जय 001c त्वयोक्तानि निशम्याहं स्पृहयामि सचक्षुषाम् 002a आश्चर्यभूतं लोकेषु कथयिष्यन्ति मानवाः 002c कुरूणां पाण्डवानां च युद्धं देवासुरोपमम् 003a न हि मे तृप्तिरस्तीह शृण्वतो युद्धमुत्तमम् 003c तस्मादार्तायनेर्युद्धं सौभद्रस्य च शंस मे 004 सञ्जय उवाच 004a सादितं प्रेक्ष्य यन्तारं शल्यः सर्वायषीं गदाम् 004c समुत्क्षिप्य नदन्क्रुद्धः प्रचस्कन्द रथोत्तमात् 005a तं दीप्तमिव कालाग्निं दण्डहस्तमिवान्तकम् 005c जवेनाभ्यपतद्भीमः प्रगृह्य महतीं गदाम् 006a सौभद्रोऽप्यशनिप्रख्यां प्रगृह्य महतीं गदाम् 006c एह्येहीत्यब्रवीच्छल्यं यत्नाद्भीमेन वारितः 007a वारयित्वा तु सौभद्रं भीमसेनः प्रतापवान् 007c शल्यमासाद्य समरे तस्थौ गिरिरिवाचलः 008a तथैव मद्रराजोऽपि भीमं दृष्ट्वा महाबलम् 008c ससाराभिमुखस्तूर्णं शार्दूल इव कुञ्जरम् 009a ततस्तूर्यनिनादाश्च शङ्खानां च सहस्रशः 009c सिंहनादाश्च सञ्जज्ञुर्भेरीणां च महास्वनाः 010a पश्यतां शतशो ह्यासीदन्योन्यसमचेतसाम् 010c पाण्डवानां कुरूणां च साधु साध्विति निस्वनः 011a न हि मद्राधिपादन्यः सर्वराजसु भारत 011c सोढुमुत्सहते वेगं भीमसेनस्य संयुगे 012a तथा मद्राधिपस्यापि गदावेगं महात्मनः 012c सोढुमुत्सहते लोके कोऽन्यो युधि वृकोदरात् 013a पट्टैर्जाम्बूनदैर्बद्धा बभूव जनहर्षिणी 013c प्रजज्वाल तथाविद्धा भीमेन महती गदा 014a तथैव चरतो मार्गान्मण्डलानि च भागशः 014c महाविद्युत्प्रतीकाशा शल्यस्य शुशुभे गदा 015a तौ वृषाविव नर्दन्तौ मण्डलानि विचेरतुः 015c आवर्जितगदाशृङ्गावुभौ शल्यवृकोदरौ 016a मण्डलावर्तमार्गेषु गदाविहरणेषु च 016c निर्विशेषमभूद्युद्धं तयोः पुरुषसिंहयोः 017a ताडिता भीमसेनेन शल्यस्य महती गदा 017c साग्निज्वाला महारौद्रा गदाचूर्णमशीर्यत 018a तथैव भीमसेनस्य द्विषताभिहता गदा 018c वर्षाप्रदोषे खद्योतैर्वृतो वृक्ष इवाबभौ 019a गदा क्षिप्ता तु समरे मद्रराजेन भारत 019c व्योम सन्दीपयाना सा ससृजे पावकं बहु 020a तथैव भीमसेनेन द्विषते प्रेषिता गदा 020c तापयामास तत्सैन्यं महोल्का पतती यथा 021a ते चैवोभे गदे श्रेष्ठे समासाद्य परस्परम् 021c श्वसन्त्यौ नागकन्येव ससृजाते विभावसुम् 022a नखैरिव महाव्याघ्रौ दन्तैरिव महागजौ 022c तौ विचेरतुरासाद्य गदाभ्यां च परस्परम् 023a ततो गदाग्राभिहतौ क्षणेन रुधिरोक्षितौ 023c ददृशाते महात्मानौ पुष्पिताविव किंशुकौ 024a शुश्रुवे दिक्षु सर्वासु तयोः पुरुषसिंहयोः 024c गदाभिघातसंह्रादः शक्राशनिरवोपमः 025a गदया मद्रराजेन सव्यदक्षिणमाहतः 025c नाकम्पत तदा भीमो भिद्यमान इवाचलः 026a तथा भीमगदावेगैस्ताड्यमानो महाबलः 026c धैर्यान्मद्राधिपस्तस्थौ वज्रैर्गिरिरिवाहतः 027a आपेततुर्महावेगौ समुच्छ्रितमहागदौ 027c पुनरन्तरमार्गस्थौ मण्डलानि विचेरतुः 028a अथाप्लुत्य पदान्यष्टौ सन्निपत्य गजाविव 028c सहसा लोहदण्डाभ्यामन्योन्यमभिजघ्नतुः 029a तौ परस्परवेगाच्च गदाभ्यां च भृशाहतौ 029c युगपत्पेततुर्वीरौ क्षिताविन्द्रध्वजाविव 030a ततो विह्वलमानं तं निःश्वसन्तं पुनः पुनः 030c शल्यमभ्यपतत्तूर्णं कृतवर्मा महारथः 031a दृष्ट्वा चैनं महाराज गदयाभिनिपीडितम् 031c विचेष्टन्तं यथा नागं मूर्छयाभिपरिप्लुतम् 032a ततः सगदमारोप्य मद्राणामधिपं रथम् 032c अपोवाह रणात्तूर्णं कृतवर्मा महारथः 033a क्षीबवद्विह्वलो वीरो निमेषात्पुनरुत्थितः 033c भीमोऽपि सुमहाबाहुर्गदापाणिरदृश्यत 034a ततो मद्राधिपं दृष्ट्वा तव पुत्राः पराङ्मुखम् 034c सनागरथपत्त्यश्वाः समकम्पन्त मारिष 035a ते पाण्डवैरर्द्यमानास्तावका जितकाशिभिः 035c भीता दिशोऽन्वपद्यन्त वातनुन्ना घना इव 036a निर्जित्य धार्तराष्ट्रांस्तु पाण्डवेया महारथाः 036c व्यरोचन्त रणे राजन्दीप्यमाना यशस्विनः 037a सिंहनादान्भृशं चक्रुः शङ्खान्दध्मुश्च हर्षिताः 037c भेरीश्च वादयामासुर्मृदङ्गांश्चानकैः सह