001 सञ्जय उवाच 001a ततः स पाण्डवानीके जनयंस्तुमुलं महत् 001c व्यचरत्पाण्डवान्द्रोणो दहन्कक्षमिवानलः 002a निर्दहन्तमनीकानि साक्षादग्निमिवोत्थितम् 002c दृष्ट्वा रुक्मरथं युद्धे समकम्पन्त सृञ्जयाः 003a प्रततं चास्यमानस्य धनुषोऽस्याशुकारिणः 003c ज्याघोषः श्रूयतेऽत्यर्थं विस्फूर्जितमिवाशनेः 004a रथिनः सादिनश्चैव नागानश्वान्पदातिनः 004c रौद्रा हस्तवता मुक्ताः प्रमथ्नन्ति स्म सायकाः 005a नानद्यमानः पर्जन्यः सानिलः शुचिसङ्क्षये 005c अश्मवर्षमिवावर्षत्परेषामावहद्भयम् 006a व्यचरत्स तदा राजन्सेनां विक्षोभयन्प्रभुः 006c वर्धयामास सन्त्रासं शात्रवाणाममानुषम् 007a तस्य विद्युदिवाभ्रेषु चापं हेमपरिष्कृतम् 007c भ्रमद्रथाम्बुदे तस्मिन्दृश्यते स्म पुनः पुनः 008a स वीरः सत्यवान्प्राज्ञो धर्मनित्यः सुदारुणः 008c युगान्तकाले यन्तेव रौद्रां प्रास्कन्दयन्नदीम् 009a अमर्षवेगप्रभवां क्रव्यादगणसङ्कुलाम् 009c बलौघैः सर्वतः पूर्णां वीरवृक्षापहारिणीम् 010a शोणितोदां रथावर्तां हस्त्यश्वकृतरोधसम् 010c कवचोडुपसंयुक्तां मांसपङ्कसमाकुलाम् 011a मेदोमज्जास्थिसिकतामुष्णीषवरफेनिलाम् 011c सङ्ग्रामजलदापूर्णां प्रासमत्स्यसमाकुलाम् 012a नरनागाश्वसम्भूतां शरवेगौघवाहिनीम् 012c शरीरदारुशृङ्गाटां भुजनागसमाकुलाम् 013a उत्तमाङ्गोपलतलां निस्त्रिंशझषसेविताम् 013c रथनागह्रदोपेतां नानाभरणनीरजाम् 014a महारथशतावर्तां भूमिरेणूर्मिमालिनीम् 014c महावीर्यवतां सङ्ख्ये सुतरां भीरुदुस्तराम् 015a शूरव्यालसमाकीर्णां प्राणिवाणिजसेविताम् 015c छिन्नच्छत्रमहाहंसां मुकुटाण्डजसङ्कुलाम् 016a चक्रकूर्मां गदानक्रां शरक्षुद्रझषाकुलाम् 016c बडगृध्रसृगालानां घोरसङ्घैर्निषेविताम् 017a निहतान्प्राणिनः सङ्ख्ये द्रोणेन बलिना शरैः 017c वहन्तीं पितृलोकाय शतशो राजसत्तम 018a शरीरशतसम्बाधां केशशैवलशाद्वलाम् 018c नदीं प्रावर्तयद्राजन्भीरूणां भयवर्धिनीम् 019a तं जयन्तमनीकानि तानि तान्येव भारत 019c सर्वतोऽभ्यद्रवन्द्रोणं युधिष्ठिरपुरोगमाः 020a तानभिद्रवतः शूरांस्तावका दृढकार्मुकाः 020c सर्वतः प्रत्यगृह्णन्त तदभूल्लोमहर्षणम् 021a शतमायस्तु शकुनिः सहदेवं समाद्रवत् 021c सनियन्तृध्वजरथं विव्याध निशितैः शरैः 022a तस्य माद्रीसुतः केतुं धनुः सूतं हयानपि 022c नातिक्रुद्धः शरैश्छित्त्वा षष्ट्या विव्याध मातुलम् 023a सौबलस्तु गदां गृह्य प्रचस्कन्द रथोत्तमात् 023c स तस्य गदया राजन्रथात्सूतमपातयत् 024a ततस्तौ विरथौ राजन्गदाहस्तौ महाबलौ 024c चिक्रीडतू रणे शूरौ सशृङ्गाविव पर्वतौ 025a द्रोणः पाञ्चालराजानं विद्ध्वा दशभिराशुगैः 025c बहुभिस्तेन चाभ्यस्तस्तं विव्याध शताधिकैः 026a विविंशतिं भीमसेनो विंशत्या निशितैः शरैः 026c विद्ध्वा नाकम्पयद्वीरस्तदद्भुतमिवाभवत् 027a विविंशतिस्तु सहसा व्यश्वकेतुशरासनम् 027c भीमं चक्रे महाराज ततः सैन्यान्यपूजयन् 028a स तन्न ममृषे वीरः शत्रोर्विजयमाहवे 028c ततोऽस्य गदया दान्तान्हयान्सर्वानपातयत् 029a शल्यस्तु नकुलं वीरः स्वस्रीयं प्रियमात्मनः 029c विव्याध प्रहसन्बाणैर्लाडयन्कोपयन्निव 030a तस्याश्वानातपत्रं च ध्वजं सूतमथो धनुः 030c निपात्य नकुलः सङ्ख्ये शङ्खं दध्मौ प्रतापवान् 031a धृष्टकेतुः कृपेनास्ताञ्छित्त्वा बहुविधाञ्शरान् 031c कृपं विव्याध सप्तत्या लक्ष्म चास्याहरत्त्रिभिः 032a तं कृपः शरवर्षेण महता समवाकिरत् 032c निवार्य च रणे विप्रो धृष्टकेतुमयोधयत् 033a सात्यकिः कृतवर्माणं नाराचेन स्तनान्तरे 033c विद्ध्वा विव्याध सप्तत्या पुनरन्यैः स्मयन्निव 034a सप्तसप्ततिभिर्भोजस्तं विद्ध्वा निशितैः शरैः 034c नाकम्पयत शैनेयं शीघ्रो वायुरिवाचलम् 035a सेनापतिः सुशर्माणं शीघ्रं मर्मस्वताडयत् 035c स चापि तं तोमरेण जत्रुदेशे अताडयत् 036a वैकर्तनं तु समरे विराटः प्रत्यवारयत् 036c सह मत्स्यैर्महावीर्यैस्तदद्भुतमिवाभवत् 037a तत्पौरुषमभूत्तत्र सूतपुत्रस्य दारुणम् 037c यत्सैन्यं वारयामास शरैः सन्नतपर्वभिः 038a द्रुपदस्तु स्वयं राजा भगदत्तेन सङ्गतः 038c तयोर्युद्धं महाराज चित्ररूपमिवाभवत् 038e भूतानां त्रासजननं चक्रातेऽस्त्रविशारदौ 039a भूरिश्रवा रणे राजन्याज्ञसेनिं महारथम् 039c महता सायकौघेन छादयामास वीर्यवान् 040a शिखण्डी तु ततः क्रुद्धः सौमदत्तिं विशाम्पते 040c नवत्या सायकानां तु कम्पयामास भारत 041a राक्षसौ भीमकर्माणौ हैडिम्बालम्बुसावुभौ 041c चक्रातेऽत्यद्भुतं युद्धं परस्परवधैषिणौ 042a मायाशतसृजौ दृप्तौ मायाभिरितरेतरम् 042c अन्तर्हितौ चेरतुस्तौ भृशं विस्मयकारिणौ 043a चेकितानोऽनुविन्देन युयुधे त्वतिभैरवम् 043c यथा देवासुरे युद्धे बलशक्रौ महाबलौ 044a लक्ष्मणः क्षत्रदेवेन विमर्दमकरोद्भृशम् 044c यथा विष्णुः पुरा राजन्हिरण्याक्षेण संयुगे 045a ततः प्रजविताश्वेन विधिवत्कल्पितेन च 045c रथेनाभ्यपतद्राजन्सौभद्रं पौरवो नदन् 046a ततोऽभियाय त्वरितो युद्धाकाङ्क्षी महाबलः 046c तेन चक्रे महद्युद्धमभिमन्युररिन्दमः 047a पौरवस्त्वथ सौभद्रं शरव्रातैरवाकिरत् 047c तस्यार्जुनिर्ध्वजं छत्रं धनुश्चोर्व्यामपातयत् 048a सौभद्रः पौरवं त्वन्यैर्विद्ध्वा सप्तभिराशुगैः 048c पञ्चभिस्तस्य विव्याध हयान्सूतं च सायकैः 049a ततः संहर्षयन्सेनां सिंहवद्विनदन्मुहुः 049c समादत्तार्जुनिस्तूर्णं पौरवान्तकरं शरम् 050a द्वाभ्यां शराभ्यां हार्दिक्यश्चकर्त सशरं धनुः 050c तदुत्सृज्य धनुश्छिन्नं सौभद्रः परवीरहा 050e उद्बबर्ह सितं खड्गमाददानः शरावरम् 051a स तेनानेकतारेण चर्मणा कृतहस्तवत् 051c भ्रान्तासिरचरन्मार्गान्दर्शयन्वीर्यमात्मनः 052a भ्रामितं पुनरुद्भ्रान्तमाधूतं पुनरुच्छ्रितम् 052c चर्मनिस्त्रिंशयो राजन्निर्विशेषमदृश्यत 053a स पौरवरथस्येषामाप्लुत्य सहसा नदन् 053c पौरवं रथमास्थाय केशपक्षे परामृशत् 054a जघानास्य पदा सूतमसिनापातयद्ध्वजम् 054c विक्षोभ्याम्भोनिधिं तार्क्ष्यस्तं नागमिव चाक्षिपत् 055a तमाकलितकेशान्तं ददृशुः सर्वपार्थिवाः 055c उक्षाणमिव सिंहेन पात्यमानमचेतनम् 056a तमार्जुनिवशं प्राप्तं कृष्यमाणमनाथवत् 056c पौरवं पतितं दृष्ट्वा नामृष्यत जयद्रथः 057a स बर्हिणमहावाजं किङ्किणीशतजालवत् 057c चर्म चादाय खड्गं च नदन्पर्यपतद्रथात् 058a ततः सैन्धवमालोक्य कार्ष्णिरुत्सृज्य पौरवम् 058c उत्पपात रथात्तूर्णं श्येनवन्निपपात च 059a प्रासपट्टिशनिस्त्रिंशाञ्शत्रुभिः सम्प्रवेरितान् 059c चिच्छेदाथासिना कार्ष्णिश्चर्मणा संरुरोध च 060a स दर्शयित्वा सैन्यानां स्वबाहुबलमात्मनः 060c तमुद्यम्य महाखड्गं चर्म चाथ पुनर्बली 061a वृद्धक्षत्रस्य दायादं पितुरत्यन्तवैरिणम् 061c ससाराभिमुखः शूरः शार्दूल इव कुञ्जरम् 062a तौ परस्परमासाद्य खड्गदन्तनखायुधौ 062c हृष्टवत्सम्प्रजह्राते व्याघ्रकेसरिणाविव 063a सम्पातेष्वभिपातेषु निपातेष्वसिचर्मणोः 063c न तयोरन्तरं कश्चिद्ददर्श नरसिंहयोः 064a अवक्षेपोऽसिनिर्ह्रादः शस्त्रान्तरनिदर्शनम् 064c बाह्यान्तरनिपातश्च निर्विशेषमदृश्यत 065a बाह्यमाभ्यन्तरं चैव चरन्तौ मार्गमुत्तमम् 065c ददृशाते महात्मानौ सपक्षाविव पर्वतौ 066a ततो विक्षिपतः खड्गं सौभद्रस्य यशस्विनः 066c शरावरणपक्षान्ते प्रजहार जयद्रथः 067a रुक्मपक्षान्तरे सक्तस्तस्मिंश्चर्मणि भास्वरे 067c सिन्धुराजबलोद्धूतः सोऽभज्यत महानसिः 068a भग्नमाज्ञाय निस्त्रिंशमवप्लुत्य पदानि षट् 068c सोऽदृश्यत निमेषेण स्वरथं पुनरास्थितः 069a तं कार्ष्णिं समरान्मुक्तमास्थितं रथमुत्तमम् 069c सहिताः सर्वराजानः परिवव्रुः समन्ततः 070a ततश्चर्म च खड्गं च समुत्क्षिप्य महाबलः 070c ननादार्जुनदायादः प्रेक्षमाणो जयद्रथम् 071a सिन्धुराजं परित्यज्य सौभद्रः परवीरहा 071c तापयामास तत्सैन्यं भुवनं भास्करो यथा 072a तस्य सर्वायसीं शक्तिं शल्यः कनकभूषणाम् 072c चिक्षेप समरे घोरां दीप्तामग्निशिखामिव 073a तामवप्लुत्य जग्राह सकोशं चाकरोदसिम् 073c वैनतेयो यथा कार्ष्णिः पतन्तमुरगोत्तमम् 074a तस्य लाघवमाज्ञाय सत्त्वं चामिततेजसः 074c सहिताः सर्वराजानः सिंहनादमथानदन् 075a ततस्तामेव शल्यस्य सौभद्रः परवीरहा 075c मुमोच भुजवीर्येण वैडूर्यविकृताजिराम् 076a सा तस्य रथमासाद्य निर्मुक्तभुजगोपमा 076c जघान सूतं शल्यस्य रथाच्चैनमपातयत् 077a ततो विराटद्रुपदौ धृष्टकेतुर्युधिष्ठिरः 077c सात्यकिः केकया भीमो धृष्टद्युम्नशिखण्डिनौ 077e यमौ च द्रौपदेयाश्च साधु साध्विति चुक्रुशुः 078a बाणशब्दाश्च विविधाः सिंहनादाश्च पुष्कलाः 078c प्रादुरासन्हर्षयन्तः सौभद्रमपलायिनम् 078e तन्नामृष्यन्त पुत्रास्ते शत्रोर्विजयलक्षणम् 079a अथैनं सहसा सर्वे समन्तान्निशितैः शरैः 079c अभ्याकिरन्महाराज जलदा इव पर्वतम् 080a तेषां च प्रियमन्विच्छन्सूतस्य च पराभवात् 080c आर्तायनिरमित्रघ्नः क्रुद्धः सौभद्रमभ्ययात्