001 सञ्जय उवाच 001a ततस्ते सैनिकाः श्रुत्वा तं युधिष्ठिरनिग्रहम् 001c सिंहनादरवांश्चक्रुर्बाणशङ्खरवैः सह 002a तत्तु सर्वं यथावृत्तं धर्मराजेन भारत 002c आप्तैराशु परिज्ञातं भारद्वाजचिकीर्षितम् 003a ततः सर्वान्समानाय्य भ्रातॄन्सैन्यांश्च सर्वशः 003c अब्रवीद्धर्मराजस्तु धनञ्जयमिदं वचः 004a श्रुतं ते पुरुषव्याघ्र द्रोणस्याद्य चिकीर्षितम् 004c यथा तन्न भवेत्सत्यं तथा नीतिर्विधीयताम् 005a सान्तरं हि प्रतिज्ञातं द्रोणेनामित्रकर्शन 005c तच्चान्तरममोघेषौ त्वयि तेन समाहितम् 006a स त्वमद्य महाबाहो युध्यस्व मदनन्तरम् 006c यथा दुर्योधनः कामं नेमं द्रोणादवाप्नुयात् 007 अर्जुन उवाच 007a यथा मे न वधः कार्य आचार्यस्य कथञ्चन 007c तथा तव परित्यागो न मे राजंश्चिकीर्षितः 008a अप्येवं पाण्डव प्राणानुत्सृजेयमहं युधि 008c प्रतीयां नाहमाचार्यं त्वां न जह्यां कथञ्चन 009a त्वां निगृह्याहवे राजन्धार्तराष्ट्रो यमिच्छति 009c न स तं जीवलोकेऽस्मिन्कामं प्राप्तः कथञ्चन 010a प्रपतेद्द्यौः सनक्षत्रा पृथिवी शकलीभवेत् 010c न त्वां द्रोणो निगृह्णीयाज्जीवमाने मयि ध्रुवम् 011a यदि तस्य रणे साह्यं कुरुते वज्रभृत्स्वयम् 011c देवैर्वा सहितो दैत्यैर्न त्वां प्राप्स्यत्यसौ मृधे 012a मयि जीवति राजेन्द्र न भयं कर्तुमर्हसि 012c द्रोणादस्त्रभृतां श्रेष्ठात्सर्वशस्त्रभृतामपि 013a न स्मराम्यनृतां वाचं न स्मरामि पराजयम् 013c न स्मरामि प्रतिश्रुत्य किञ्चिदप्यनपाकृतम् 014 सञ्जय उवाच 014a ततः शङ्खाश्च भेर्यश्च मृदङ्गाश्चानकैः सह 014c प्रावाद्यन्त महाराज पाण्डवानां निवेशने 015a सिंहनादश्च सञ्जज्ञे पाण्डवानां महात्मनाम् 015c धनुर्ज्यातलशब्दश्च गगनस्पृक्सुभैरवः 016a तं श्रुत्वा शङ्खनिर्घोषं पाण्डवस्य महात्मनः 016c त्वदीयेष्वप्यनीकेषु वादित्राण्यभिजघ्निरे 017a ततो व्यूढान्यनीकानि तव तेषां च भारत 017c शनैरुपेयुरन्योन्यं योत्स्यमानानि संयुगे 018a ततः प्रववृते युद्धं तुमुलं लोमहर्षणम् 018c पाण्डवानां कुरूणां च द्रोणपाञ्चाल्ययोरपि 019a यतमानाः प्रयत्नेन द्रोणानीकविशातने 019c न शेकुः सृञ्जया राजंस्तद्धि द्रोणेन पालितम् 020a तथैव तव पुत्रस्य रथोदाराः प्रहारिणः 020c न शेकुः पाण्डवीं सेनां पाल्यमानां किरीटिना 021a आस्तां ते स्तिमिते सेने रक्ष्यमाणे परस्परम् 021c सम्प्रसुप्ते यथा नक्तं वनराज्यौ सुपुष्पिते 022a ततो रुक्मरथो राजन्नर्केणेव विराजता 022c वरूथिना विनिष्पत्य व्यचरत्पृतनान्तरे 023a तमुद्यतं रथेनैकमाशुकारिणमाहवे 023c अनेकमिव सन्त्रासान्मेनिरे पाण्डुसृञ्जयाः 024a तेन मुक्ताः शरा घोरा विचेरुः सर्वतोदिशम् 024c त्रासयन्तो महाराज पाण्डवेयस्य वाहिनीम् 025a मध्यं दिनमनुप्राप्तो गभस्तिशतसंवृतः 025c यथादृश्यत घर्मांशुस्तथा द्रोणोऽप्यदृश्यत 026a न चैनं पाण्डवेयानां कश्चिच्छक्नोति मारिष 026c वीक्षितुं समरे क्रुद्धं महेन्द्रमिव दानवाः 027a मोहयित्वा ततः सैन्यं भारद्वाजः प्रतापवान् 027c धृष्टद्युम्नबलं तूर्णं व्यधमन्निशितैः शरैः 028a स दिशः सर्वतो रुद्ध्वा संवृत्य खमजिह्मगैः 028c पार्षतो यत्र तत्रैव ममृदे पाण्डुवाहिनीम्