001 सञ्जय उवाच 001a हन्त ते वर्णयिष्यामि सर्वं प्रत्यक्षदर्शिवान् 001c यथा स न्यपतद्द्रोणः सादितः पाण्डुसृञ्जयैः 002a सेनापतित्वं सम्प्राप्य भारद्वाजो महारथः 002c मध्ये सर्वस्य सैन्यस्य पुत्रं ते वाक्यमब्रवीत् 003a यत्कौरवाणामृषभादापगेयादनन्तरम् 003c सेनापत्येन मां राजन्नद्य सत्कृतवानसि 004a सदृशं कर्मणस्तस्य फलं प्राप्नुहि पार्थिव 004c करोमि कामं कं तेऽद्य प्रवृणीष्व यमिच्छसि 005a ततो दुर्योधनश्चिन्त्य कर्णदुःशासनादिभिः 005c तमथोवाच दुर्धर्षमाचार्यं जयतां वरम् 006a ददासि चेद्वरं मह्यं जीवग्राहं युधिष्ठिरम् 006c गृहीत्वा रथिनां श्रेष्ठं मत्समीपमिहानय 007a ततः कुरूणामाचार्यः श्रुत्वा पुत्रस्य ते वचः 007c सेनां प्रहर्षयन्सर्वामिदं वचनमब्रवीत् 008a धन्यः कुन्तीसुतो राजा यस्य ग्रहणमिच्छसि 008c न वधार्थं सुदुर्धर्ष वरमद्य प्रयाचसि 009a किमर्थं च नरव्याघ्र न वधं तस्य काङ्क्षसि 009c नाशंससि क्रियामेतां मत्तो दुर्योधन ध्रुवम् 010a आहोस्विद्धर्मपुत्रस्य द्वेष्टा तस्य न विद्यते 010c यदिच्छसि त्वं जीवन्तं कुलं रक्षसि चात्मनि 011a अथ वा भरतश्रेष्ठ निर्जित्य युधि पाण्डवान् 011c राज्यांशं प्रतिदत्त्वा च सौभ्रात्रं कर्तुमिच्छसि 012a धन्यः कुन्तीसुतो राजा सुजाता चास्य धीमतः 012c अजातशत्रुता सत्या तस्य यत्स्निह्यते भवान् 013a द्रोणेन त्वेवमुक्तस्य तव पुत्रस्य भारत 013c सहसा निःसृतो भावो योऽस्य नित्यं प्रवर्तते 014a नाकारो गूहितुं शक्यो बृहस्पतिसमैरपि 014c तस्मात्तव सुतो राजन्प्रहृष्टो वाक्यमब्रवीत् 015a वधे कुन्तीसुतस्याजौ नाचार्य विजयो मम 015c हते युधिष्ठिरे पार्थो हन्यात्सर्वान्हि नो ध्रुवम् 016a न च शक्यो रणे सर्वैर्निहन्तुममरैरपि 016c य एव चैषां शेषः स्यात्स एवास्मान्न शेषयेत् 017a सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते 017c पुनर्यास्यन्त्यरण्याय कौन्तेयास्तमनुव्रताः 018a सोऽयं मम जयो व्यक्तं दीर्घकालं भविष्यति 018c अतो न वधमिच्छामि धर्मराजस्य कर्हिचित् 019a तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्त्ववित् 019c तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् 020 द्रोण उवाच 020a न चेद्युधिष्ठिरं वीर पालयेदर्जुनो युधि 020c मन्यस्व पाण्डवं ज्येष्ठमानीतं वशमात्मनः 021a न हि पार्थो रणे शक्यः सेन्द्रैर्देवासुरैरपि 021c प्रत्युद्यातुमतस्तात नैतदामर्षयाम्यहम् 022a असंशयं स शिष्यो मे मत्पूर्वश्चास्त्रकर्मणि 022c तरुणः कीर्तियुक्तश्च एकायनगतश्च सः 023a अस्त्राणीन्द्राच्च रुद्राच्च भूयांसि समवाप्तवान् 023c अमर्षितश्च ते राजंस्तेन नामर्षयाम्यहम् 024a स चापक्रम्यतां युद्धाद्येनोपायेन शक्यते 024c अपनीते ततः पार्थे धर्मराजो जितस्त्वया 025a ग्रहणं चेज्जयं तस्य मन्यसे पुरुषर्षभ 025c एतेन चाभ्युपायेन ध्रुवं ग्रहणमेष्यति 026a अहं गृहीत्वा राजानं सत्यधर्मपरायणम् 026c आनयिष्यामि ते राजन्वशमद्य न संशयः 027a यदि स्थास्यति सङ्ग्रामे मुहूर्तमपि मेऽग्रतः 027c अपनीते नरव्याघ्रे कुन्तीपुत्रे धनञ्जये 028a फल्गुनस्य समक्षं तु न हि पार्थो युधिष्ठिरः 028c ग्रहीतुं समरे शक्यः सेन्द्रैरपि सुरासुरैः 029 सञ्जय उवाच 029a सान्तरं तु प्रतिज्ञाते राज्ञो द्रोणेन निग्रहे 029c गृहीतं तममन्यन्त तव पुत्राः सुबालिशाः 030a पाण्डवेषु हि सापेक्षं द्रोणं जानाति ते सुतः 030c ततः प्रतिज्ञास्थैर्यार्थं स मन्त्रो बहुलीकृतः 031a ततो दुर्योधनेनापि ग्रहणं पाण्डवस्य तत् 031c सैन्यस्थानेषु सर्वेषु व्याघोषितमरिन्दम