001 धृतराष्ट्र उवाच 001a शृणु दिव्यानि कर्माणि वासुदेवस्य सञ्जय 001c कृतवान्यानि गोविन्दो यथा नान्यः पुमान्क्वचित् 002a संवर्धता गोपकुले बालेनैव महात्मना 002c विख्यापितं बलं बाह्वोस्त्रिषु लोकेषु सञ्जय 003a उच्चैःश्रवस्तुल्यबलं वायुवेगसमं जवे 003c जघान हयराजं यो यमुनावनवासिनम् 004a दानवं घोरकर्माणं गवां मृत्युमिवोत्थितम् 004c वृषरूपधरं बाल्ये भुजाभ्यां निजघान ह 005a प्रलम्बं नरकं जम्भं पीठं चापि महासुरम् 005c मुरुं चाचलसङ्काशमवधीत्पुष्करेक्षणः 006a तथा कंसो महातेजा जरासन्धेन पालितः 006c विक्रमेणैव कृष्णेन सगणः शातितो रणे 007a सुनामा नाम विक्रान्तः समग्राक्षौहिणीपतिः 007c भोजराजस्य मध्यस्थो भ्राता कंसस्य वीर्यवान् 008a बलदेवद्वितीयेन कृष्णेनामित्रघातिना 008c तरस्वी समरे दग्धः ससैन्यः शूरसेनराट् 009a दुर्वासा नाम विप्रर्षिस्तथा परमकोपनः 009c आराधितः सदारेण स चास्मै प्रददौ वरान् 010a तथा गान्धारराजस्य सुतां वीरः स्वयंवरे 010c निर्जित्य पृथिवीपालानवहत्पुष्करेक्षणः 011a अमृष्यमाणा राजानो यस्य जात्या हया इव 011c रथे वैवाहिके युक्ताः प्रतोदेन कृतव्रणाः 012a जरासन्धं महाबाहुमुपायेन जनार्दनः 012c परेण घातयामास पृथगक्षौहिणीपतिम् 013a चेदिराजं च विक्रान्तं राजसेनापतिं बली 013c अर्घे विवदमानं च जघान पशुवत्तदा 014a सौभं दैत्यपुरं स्वस्थं शाल्वगुप्तं दुरासदम् 014c समुद्रकुक्षौ विक्रम्य पातयामास माधवः 015a अङ्गान्वङ्गान्कलिङ्गांश्च मागधान्काशिकोसलान् 015c वत्सगर्गकरूषांश्च पुण्ड्रांश्चाप्यजयद्रणे 016a आवन्त्यान्दाक्षिणात्यांश्च पार्वतीयान्दशेरकान् 016c काश्मीरकानौरसकान्पिशाचांश्च समन्दरान् 017a काम्बोजान्वाटधानांश्च चोलान्पाण्ड्यांश्च सञ्जय 017c त्रिगर्तान्मालवांश्चैव दरदांश्च सुदुर्जयान् 018a नानादिग्भ्यश्च सम्प्राप्तान्व्रातानश्वशकान्प्रति 018c जितवान्पुण्डरीकाक्षो यवनांश्च सहानुगान् 019a प्रविश्य मकरावासं यादोभिरभिसंवृतम् 019c जिगाय वरुणं युद्धे सलिलान्तर्गतं पुरा 010a युधि पञ्चजनं हत्वा पातालतलवासिनम् 010c पाञ्चजन्यं हृषीकेशो दिव्यं शङ्खमवाप्तवान् 011a खाण्डवे पार्थसहितस्तोषयित्वा हुताशनम् 011c आग्नेयमस्त्रं दुर्धर्षं चक्रं लेभे महाबलः 012a वैनतेयं समारुह्य त्रासयित्वामरावतीम् 012c महेन्द्रभवनाद्वीरः पारिजातमुपानयत् 013a तच्च मर्षितवाञ्शक्रो जानंस्तस्य पराक्रमम् 013c राज्ञां चाप्यजितं कञ्चित्कृष्णेनेह न शुश्रुम 014a यच्च तन्महदाश्चर्यं सभायां मम सञ्जय 014c कृतवान्पुण्डरीकाक्षः कस्तदन्य इहार्हति 015a यच्च भक्त्या प्रपन्नोऽहमद्राक्षं कृष्णमीश्वरम् 015c तन्मे सुविदितं सर्वं प्रत्यक्षमिव चागमत् 016a नान्तो विक्रमयुक्तस्य बुद्ध्या युक्तस्य वा पुनः 016c कर्मणः शक्यते गन्तुं हृषीकेशस्य सञ्जय 017a तथा गदश्च साम्बश्च प्रद्युम्नोऽथ विदूरथः 017c आगावहोऽनिरुद्धश्च चारुदेष्णश्च सारणः 018a उल्मुको निशठश्चैव झल्ली बभ्रुश्च वीर्यवान् 018c पृथुश्च विपृथुश्चैव समीकोऽथारिमेजयः 019a एते वै बलवन्तश्च वृष्णिवीराः प्रहारिणः 019c कथञ्चित्पाण्डवानीकं श्रयेयुः समरे स्थिताः 030a आहूता वृष्णिवीरेण केशवेन महात्मना 030c ततः संशयितं सर्वं भवेदिति मतिर्मम 031a नागायुतबलो वीरः कैलासशिखरोपमः 031c वनमाली हली रामस्तत्र यत्र जनार्दनः 032a यमाहुः सर्वपितरं वासुदेवं द्विजातयः 032c अपि वा ह्येष पाण्डूनां योत्स्यतेऽर्थाय सञ्जय 033a स यदा तात सन्नह्येत्पाण्डवार्थाय केशवः 033c न तदा प्रत्यनीकेषु भविता तस्य कश्चन 034a यदि स्म कुरवः सर्वे जयेयुः सर्वपाण्डवान् 034c वार्ष्णेयोऽर्थाय तेषां वै गृह्णीयाच्छस्त्रमुत्तमम् 035a ततः सर्वान्नरव्याघ्रो हत्वा नरपतीन्रणे 035c कौरवांश्च महाबाहुः कुन्त्यै दद्यात्स मेदिनीम् 036a यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः 036c रथस्य तस्य कः सङ्ख्ये प्रत्यनीको भवेद्रथः 037a न केनचिदुपायेन कुरूणां दृश्यते जयः 037c तस्मान्मे सर्वमाचक्ष्व यथा युद्धमवर्तत 038a अर्जुनः केशवस्यात्मा कृष्णोऽप्यात्मा किरीटिनः 038c अर्जुने विजयो नित्यं कृष्णे कीर्तिश्च शाश्वती 039a प्राधान्येन हि भूयिष्ठममेयाः केशवे गुणाः 039c मोहाद्दुर्योधनः कृष्णं यन्न वेत्तीह माधवम् 040a मोहितो दैवयोगेन मृत्युपाशपुरस्कृतः 040c न वेद कृष्णं दाशार्हमर्जुनं चैव पाण्डवम् 041a पूर्वदेवौ महात्मानौ नरनारायणावुभौ 041c एकात्मानौ द्विधाभूतौ दृश्येते मानवैर्भुवि 042a मनसापि हि दुर्धर्षौ सेनामेतां यशस्विनौ 042c नाशयेतामिहेच्छन्तौ मानुषत्वात्तु नेच्छतः 043a युगस्येव विपर्यासो लोकानामिव मोहनम् 043c भीष्मस्य च वधस्तात द्रोणस्य च महात्मनः 044a न ह्येव ब्रह्मचर्येण न वेदाध्ययनेन च 044c न क्रियाभिर्न शस्त्रेण मृत्योः कश्चिद्विमुच्यते 045a लोकसम्भावितौ वीरौ कृतास्त्रौ युद्धदुर्मदौ 045c भीष्मद्रोणौ हतौ श्रुत्वा किं नु जीवामि सञ्जय 046a यां तां श्रियमसूयामः पुरा यातां युधिष्ठिरे 046c अद्य तामनुजानीमो भीष्मद्रोणवधेन च 047a तथा च मत्कृते प्राप्तः कुरूणामेष सङ्क्षयः 047c पक्वानां हि वधे सूत वज्रायन्ते तृणान्यपि 048a अनन्यमिदमैश्वर्यं लोके प्राप्तो युधिष्ठिरः 048c यस्य कोपान्महेष्वासौ भीष्मद्रोणौ निपातितौ 049a प्राप्तः प्रकृतितो धर्मो नाधर्मो मानवान्प्रति 049c क्रूरः सर्वविनाशाय कालः समतिवर्तते 050a अन्यथा चिन्तिता ह्यर्था नरैस्तात मनस्विभिः 050c अन्यथैव हि गच्छन्ति दैवादिति मतिर्मम 051a तस्मादपरिहार्येऽर्थे सम्प्राप्ते कृच्छ्र उत्तमे 051c अपारणीये दुश्चिन्त्ये यथाभूतं प्रचक्ष्व मे