001 वैशम्पायन उवाच 001a एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम् 001c जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ 002a तं विसञ्ज्ञं निपतितं सिषिचुः परिचारकाः 002c जलेनात्यर्थशीतेन वीजन्तः पुण्यगन्धिना 003a पतितं चैनमाज्ञाय समन्ताद्भरतस्त्रियः 003c परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः 004a उत्थाप्य चैनं शनकै राजानं पृथिवीतलात् 004c आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराङ्गनाः 005a आसनं प्राप्य राजा तु मूर्छयाभिपरिप्लुतः 005c निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः 006a स लब्ध्वा शनकैः सञ्ज्ञां वेपमानो महीपतिः 006c पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम् 007a यत्तदुद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः 007c आयादजातशत्रुर्वै कस्तं द्रोणादवारयत् 008a प्रभिन्नमिव मातङ्गं तथा क्रुद्धं तरस्विनम् 008c आसक्तमनसं दीप्तं प्रतिद्विरदघातिनम् 008e वाशितासङ्गमे यद्वदजय्यं प्रतियूथपैः 009a अति चान्यान्रणे योधान्वीरः पुरुषसत्तमः 009c यो ह्येको हि महाबाहुर्निर्दहेद्घोरचक्षुषा 009e कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः 010a चक्षुर्हणं जये सक्तमिष्वासवररक्षितम् 010c दान्तं बहुमतं लोके के शूराः पर्यवारयन् 011a के दुष्प्रधर्षं राजानमिष्वासवरमच्युतम् 011c समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः 012a तरसैवाभिपत्याथ यो वै द्रोणमुपाद्रवत् 012c तं भीमसेनमायान्तं के शूराः पर्यवारयन् 013a यदायाज्जलदप्रख्यो रथः परमवीर्यवान् 013c पर्जन्य इव बीभत्सुस्तुमुलामशनिं सृजन् 014a ववर्ष शरवर्षाणि वर्षाणि मघवानिव 014c इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः 014e अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च 015a चापविद्युत्प्रभो घोरो रथगुल्मबलाहकः 015c रथनेमिघोषस्तनितः शरशब्दातिबन्धुरः 016a रोषनिर्जितजीमूतो मनोऽभिप्रायशीघ्रगः 016c मर्मातिगो बाणधारस्तुमुलः शोणितोदकः 017a सम्प्लावयन्महीं सर्वां मानवैरास्तरंस्तदा 017c गदानिष्टनितो रौद्रो दुर्योधनकृतोद्यमः 018a युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः 018c गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा 019a कच्चिद्गाण्डीवशब्देन न प्रणश्यत वै बलम् 019c यद्वः स भैरवं कुर्वन्नर्जुनो भृशमभ्यगात् 020a कच्चिन्नापानुदद्द्रोणादिषुभिर्वो धनञ्जयः 020c वातो मेघानिवाविध्यन्प्रवाञ्शरवनानिलः 020e को हि गाण्डीवधन्वानं नरः सोढुं रणेऽर्हति 021a यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम् 021c के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात् 022a के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 022c अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम् 023a न च वेगं सिताश्वस्य विशक्ष्यन्तीह मामकाः 023c गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिस्वनम् 024a विष्वक्सेनो यस्य यन्ता योद्धा चैव धनञ्जयः 024c अशक्यः स रथो जेतुं मन्ये देवासुरैरपि 025a सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः 025c मेधावी निपुणो धीमान्युधि सत्यपराक्रमः 026a आरावं विपुलं कुर्वन्व्यथयन्सर्वकौरवान् 026c यदायान्नकुलो धीमान्के शूराः पर्यवारयन् 027a आशीविष इव क्रुद्धः सहदेवो यदाभ्ययात् 027c शत्रूणां कदनं कुर्वञ्जेतासौ दुर्जयो युधि 028a आर्यव्रतममोघेषुं ह्रीमन्तमपराजितम् 028c द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन् 029a यः स सौवीरराजस्य प्रमथ्य महतीं चमूम् 029c आदत्त महिषीं भोज्यां काम्यां सर्वाङ्गशोभनाम् 030a सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम् 030c सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे 031a बलिनं सत्यकर्माणमदीनमपराजितम् 031c वासुदेवसमं युद्धे वासुदेवादनन्तरम् 032a युक्तं धनञ्जयप्रेष्ये शूरमाचार्यकर्मणि 032c पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत् 033a वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम् 033c रामेण सममस्त्रेषु यशसा विक्रमेण च 034a सत्यं धृतिर्दमः शौर्यं ब्रह्मचर्यमनुत्तमम् 034c सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे 035a तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः 035c समासाद्य महेष्वासं के वीराः पर्यवारयन् 036a पाञ्चालेषूत्तमं शूरमुत्तमाभिजनप्रियम् 036c नित्यमुत्तमकर्माणमुत्तमौजसमाहवे 037a युक्तं धनञ्जयहिते ममानर्थाय चोत्तमम् 037c यमवैश्रवणादित्यमहेन्द्रवरुणोपमम् 038a महारथसमाख्यातं द्रोणायोद्यन्तमाहवे 038c त्यजन्तं तुमुले प्राणान्के शूराः पर्यवारयन् 039a एकोऽपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः 039c धृष्टकेतुं तमायान्तं द्रोणात्कः समवारयत् 040a योऽवधीत्केतुमाञ्शूरो राजपुत्रं सुदर्शनम् 040c अपरान्तगिरिद्वारे कस्तं द्रोणादवारयत् 041a स्त्रीपूर्वो यो नरव्याघ्रो यः स वेद गुणागुणान् 041c शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि 042a देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः 042c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 043a यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात् 043c यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च नित्यदा 044a वासुदेवसमं वीर्ये धनञ्जयसमं बले 044c तेजसादित्यसदृशं बृहस्पतिसमं मतौ 045a अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम् 045c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 046a तरुणस्त्वरुणप्रख्यः सौभद्रः परवीरहा 046c यदाभ्याद्रवत द्रोणं तदासीद्वो मनः कथम् 047a द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः 047c यद्द्रोणमाद्रवन्सङ्ख्ये के वीरास्तानवारयन् 048a ये ते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः 048c अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम् 049a क्षत्रञ्जयः क्षत्रदेवः क्षत्रधर्मा च मानिनः 049c धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन् 050a शताद्विशिष्टं यं युद्धे समपश्यन्त वृष्णयः 050c चेकितानं महेष्वासं कस्तं द्रोणादवारयत् 051a वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि 051c अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत् 052a भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः 052c इन्द्रगोपकवर्णाश्च रक्तवर्मायुधध्वजाः 053a मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः 053c तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन् 054a यं योधयन्तो राजानो नाजयन्वारणावते 054c षण्मासानभिसंरब्धा जिघांसन्तो युधां पतिम् 055a धनुष्मतां वरं शूरं सत्यसन्धं महाबलम् 055c द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं प्रत्यवारयत् 056a यः पुत्रं काशिराजस्य वाराणस्यां महारथम् 056c समरे स्त्रीषु गृध्यन्तं भल्लेनापहरद्रथात् 057a धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम् 057c युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च 058a निर्दहन्तं रणे योधान्दारयन्तं च सर्वशः 058c द्रोणायाभिमुखं यान्तं के वीराः पर्यवारयन् 059a उत्सङ्ग इव संवृद्धं द्रुपदस्यास्त्रवित्तमम् 059c शैखण्डिनं क्षत्रदेवं के तं द्रोणादवारयन् 060a य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत् 060c महता रथवंशेन मुख्यारिघ्नो महारथः 061a दशाश्वमेधानाजह्रे स्वन्नपानाप्तदक्षिणान् 061c निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः 062a पिबन्त्यो दक्षिणां यस्य गङ्गास्रोतः समापिबन् 062c तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे 063a न पूर्वे नापरे चक्रुरिदं केचन मानवाः 063c इति सञ्चुक्रुशुर्देवाः कृते कर्मणि दुष्करे 064a पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु 064c जातं वापि जनिष्यं वा द्वितीयं वापि सम्प्रति 065a अन्यमौशीनराच्छैब्याद्धुरो वोढारमित्युत 065c गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः 066a तस्य नप्तारमायान्तं शैब्यं कः समवारयत् 066c द्रोणायाभिमुखं यान्तं व्यात्ताननमिवान्तकम् 067a विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः 067c प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन् 068a सद्यो वृकोदराज्जातो महाबलपराक्रमः 068c मायावी राक्षसो घोरो यस्मान्मम महद्भयम् 069a पार्थानां जयकामं तं पुत्राणां मम कण्टकम् 069c घटोत्कचं महाबाहुं कस्तं द्रोणादवारयत् 070a एते चान्ये च बहवो येषामर्थाय सञ्जय 070c त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि 071a येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः 071c हितार्थी चापि पार्थानां कथं तेषां पराजयः 072a लोकानां गुरुरत्यन्तं लोकनाथः सनातनः 072c नारायणो रणे नाथो दिव्यो दिव्यात्मवान्प्रभुः 073a यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 073c तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः