001 धृतराष्ट्र उवाच 001a किं कुर्वाणं रणे द्रोणं जघ्नुः पाण्डवसृञ्जयाः 001c तथा निपुणमस्त्रेषु सर्वशस्त्रभृतामपि 002a रथभङ्गो बभूवास्य धनुर्वाशीर्यतास्यतः 002c प्रमत्तो वाभवद्द्रोणस्ततो मृत्युमुपेयिवान् 003a कथं नु पार्षतस्तात शत्रुभिर्दुष्प्रधर्षणम् 003c किरन्तमिषुसङ्घातान्रुक्मपुङ्खाननेकशः 004a क्षिप्रहस्तं द्विजश्रेष्ठं कृतिनं चित्रयोधिनम् 004c दूरेषुपातिनं दान्तमस्त्रयुद्धे च पारगम् 005a पाञ्चालपुत्रो न्यवधीद्दिष्ट्या स वरमच्युतम् 005c कुर्वाणं दारुणं कर्म रणे यत्तं महारथम् 006a व्यक्तं दिष्टं हि बलवत्पौरुषादिति मे मतिः 006c यद्द्रोणो निहतः शूरः पार्षतेन महात्मना 007a अस्त्रं चतुर्विधं वीरे यस्मिन्नासीत्प्रतिष्ठितम् 007c तमिष्वस्त्रवराचार्यं द्रोणं शंससि मे हतम् 008a श्रुत्वा हतं रुक्मरथं वैयाघ्रपरिवारणम् 008c जातरूपपरिष्कारं नाद्य शोकमपानुदे 009a न नूनं परदुःखेन कश्चिन्म्रियति सञ्जय 009c यत्र द्रोणमहं श्रुत्वा हतं जीवामि न म्रिये 010a अश्मसारमयं नूनं हृदयं सुदृढं मम 010c यच्छ्रुत्वा निहतं द्रोणं शतधा न विदीर्यते 011a ब्राह्मे वेदे तथेष्वस्त्रे यमुपासन्गुणार्थिनः 011c ब्राह्मणा राजपुत्राश्च स कथं मृत्युना हतः 012a शोषणं सागरस्येव मेरोरिव विसर्पणम् 012c पतनं भास्करस्येव न मृष्ये द्रोणपातनम् 013a दृप्तानां प्रतिषेद्धासीद्धार्मिकानां च रक्षिता 013c योऽत्याक्षीत्कृपणस्यार्थे प्राणानपि परन्तपः 014a मन्दानां मम पुत्राणां जयाशा यस्य विक्रमे 014c बृहस्पत्युशनस्तुल्यो बुद्ध्या स निहतः कथम् 015a ते च शोणा बृहन्तोऽश्वाः सैन्धवा हेममालिनः 015c रथे वातजवा युक्ताः सर्वशब्दातिगा रणे 016a बलिनो घोषिणो दान्ताः सैन्धवाः साधुवाहिनः 016c दृढाः सङ्ग्राममध्येषु कच्चिदासन्न विह्वलाः 017a करिणां बृंहतां युद्धे शङ्खदुन्दुभिनिस्वनम् 017c ज्याक्षेपशरवर्षाणां शस्त्राणां च सहिष्णवः 018a आशंसन्तः पराञ्जेतुं जितश्वासा जितव्यथाः 018c हयाः प्रजविताः शीघ्रा भारद्वाजरथोद्वहाः 019a ते स्म रुक्मरथे युक्ता नरवीरसमाहिताः 019c कथं नाभ्यतरंस्तात पाण्डवानामनीकिनीम् 020a जातरूपपरिष्कारमास्थाय रथमुत्तमम् 020c भारद्वाजः किमकरोच्छूरः सङ्क्रन्दनो युधि 021a विद्यां यस्योपजीवन्ति सर्वलोकधनुर्भृतः 021c स सत्यसन्धो बलवान्द्रोणः किमकरोद्युधि 022a दिवि शक्रमिव श्रेष्ठं महामात्रं धनुर्भृताम् 022c के नु तं रौद्रकर्माणं युद्धे प्रत्युद्ययू रथाः 023a ननु रुक्मरथं दृष्ट्वा प्रद्रवन्ति स्म पाण्डवाः 023c दिव्यमस्त्रं विकुर्वाणं सेनां क्षिण्वन्तमव्ययम् 024a उताहो सर्वसैन्येन धर्मराजः सहानुजः 024c पाञ्चाल्यप्रग्रहो द्रोणं सर्वतः समवारयत् 025a नूनमावारयत्पार्थो रथिनोऽन्यानजिह्मगैः 025c ततो द्रोणं समारोहत्पार्षतः पापकर्मकृत् 026a न ह्यन्यं परिपश्यामि वधे कञ्चन शुष्मिणः 026c धृष्टद्युम्नादृते रौद्रात्पाल्यमानात्किरीटिना 027a तैर्वृतः सर्वतः शूरैः पाञ्चाल्यापसदस्ततः 027c केकयैश्चेदिकारूषैर्मत्स्यैरन्यैश्च भूमिपैः 028a व्याकुलीकृतमाचार्यं पिपीलैरुरगं यथा 028c कर्मण्यसुकरे सक्तं जघानेति मतिर्मम 029a योऽधीत्य चतुरो वेदान्सर्वानाख्यानपञ्चमान् 029c ब्राह्मणानां प्रतिष्ठासीत्स्रोतसामिव सागरः 029e स कथं ब्राह्मणो वृद्धः शस्त्रेण वधमाप्तवान् 030a अमर्षणो मर्षितवान्क्लिश्यमानः सदा मया 030c अनर्हमाणः कौन्तेयः कर्मणस्तस्य तत्फलम् 031a यस्य कर्मानुजीवन्ति लोके सर्वधनुर्भृतः 031c स सत्यसन्धः सुकृती श्रीकामैर्निहतः कथम् 032a दिवि शक्र इव श्रेष्ठो महासत्त्वो महाबलः 032c स कथं निहतः पार्थैः क्षुद्रमत्स्यैर्यथा तिमिः 033a क्षिप्रहस्तश्च बलवान्दृढधन्वारिमर्दनः 033c न यस्य जीविताकाङ्क्षी विषयं प्राप्य जीवति 034a यं द्वौ न जहतः शब्दौ जीवमानं कदाचन 034c ब्राह्मश्च वेदकामानां ज्याघोषश्च धनुर्भृताम् 035a नाहं मृष्ये हतं द्रोणं सिंहद्विरदविक्रमम् 035c कथं सञ्जय दुर्धर्षमनाधृष्ययशोबलम् 036a केऽरक्षन्दक्षिणं चक्रं सव्यं के च महात्मनः 036c पुरस्तात्के च वीरस्य युध्यमानस्य संयुगे 037a के च तत्र तनुं त्यक्त्वा प्रतीपं मृत्युमाव्रजन् 037c द्रोणस्य समरे वीराः केऽकुर्वन्त परां धृतिम् 038a एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु सञ्जय 038c पराक्रमेद्यथाशक्त्या तच्च तस्मिन्प्रतिष्ठितम् 039a मुह्यते मे मनस्तात कथा तावन्निवर्त्यताम् 039c भूयस्तु लब्धसञ्ज्ञस्त्वा परिप्रक्ष्यामि सञ्जय