001 सञ्जय उवाच 001a तथा द्रोणमभिघ्नन्तं साश्वसूतरथद्विपान् 001c व्यथिताः पाण्डवा दृष्ट्वा न चैनं पर्यवारयन् 002a ततो युधिष्ठिरो राजा धृष्टद्युम्नधनञ्जयौ 002c अब्रवीत्सर्वतो यत्तैः कुम्भयोनिर्निवार्यताम् 003a तत्रैनमर्जुनश्चैव पार्षतश्च सहानुगः 003c पर्यगृह्णंस्ततः सर्वे समायान्तं महारथाः 004a केकया भीमसेनश्च सौभद्रोऽथ घटोत्कचः 004c युधिष्ठिरो यमौ मत्स्या द्रुपदस्यात्मजास्तथा 005a द्रौपदेयाश्च संहृष्टा धृष्टकेतुः ससात्यकिः 005c चेकितानश्च सङ्क्रुद्धो युयुत्सुश्च महारथः 006a ये चान्ये पार्थिवा राजन्पाण्डवस्यानुयायिनः 006c कुलवीर्यानुरूपाणि चक्रुः कर्माण्यनेकशः 007a सङ्गृह्यमाणां तां दृष्ट्वा पाण्डवैर्वाहिनीं रणे 007c व्यावृत्य चक्षुषी कोपाद्भारद्वाजोऽन्ववैक्षत 008a स तीव्रं कोपमास्थाय रथे समरदुर्मदः 008c व्यधमत्पाण्डवानीकमभ्राणीव सदागतिः 009a रथानश्वान्नरान्नागानभिधावंस्ततस्ततः 009c चचारोन्मत्तवद्द्रोणो वृद्धोऽपि तरुणो यथा 010a तस्य शोणितदिग्धाङ्गाः शोणास्ते वातरंहसः 010c आजानेया हया राजन्नविभ्रान्ताः श्रियं दधुः 011a तमन्तकमिव क्रुद्धमापतन्तं यतव्रतम् 011c दृष्ट्वा सम्प्राद्रवन्योधाः पाण्डवस्य ततस्ततः 012a तेषां प्रद्रवतां भीमः पुनरावर्ततामपि 012c वीक्षतां तिष्ठतां चासीच्छब्दः परमदारुणः 013a शूराणां हर्षजननो भीरूणां भयवर्धनः 013c द्यावापृथिव्योर्विवरं पूरयामास सर्वतः 014a ततः पुनरपि द्रोणो नाम विश्रावयन्युधि 014c अकरोद्रौद्रमात्मानं किरञ्शरशतैः परान् 015a स तथा तान्यनीकानि पाण्डवेयस्य धीमतः 015c कालवन्न्यवधीद्द्रोणो युवेव स्थविरो बली 016a उत्कृत्य च शिरांस्युग्रो बाहूनपि सभूषणान् 016c कृत्वा शून्यान्रथोपस्थानुदक्रोशन्महारथः 017a तस्य हर्षप्रणादेन बाणवेगेन चाभिभो 017c प्राकम्पन्त रणे योधा गावः शीतार्दिता इव 018a द्रोणस्य रथघोषेण मौर्वीनिष्पेषणेन च 018c धनुःशब्देन चाकाशे शब्दः समभवन्महान् 019a अथास्य बहुशो बाणा निश्चरन्तः सहस्रशः 019c व्याप्य सर्वा दिशः पेतुर्गजाश्वरथपत्तिषु 020a तं कार्मुकमहावेगमस्त्रज्वलितपावकम् 020c द्रोणमासादयां चक्रुः पाञ्चालाः पाण्डवैः सह 021a तान्वै सरथहस्त्यश्वान्प्राहिणोद्यमसादनम् 021c द्रोणोऽचिरेणाकरोच्च महीं शोणितकर्दमाम् 022a तन्वता परमास्त्राणि शरान्सततमस्यता 022c द्रोणेन विहितं दिक्षु बाणजालमदृश्यत 023a पदातिषु रथाश्वेषु वारणेषु च सर्वशः 023c तस्य विद्युदिवाभ्रेषु चरन्केतुरदृश्यत 024a स केकयानां प्रवरांश्च पञ्च पाञ्चालराजं च शरैः प्रमृद्य 024c युधिष्ठिरानीकमदीनयोधी द्रोणोऽभ्ययात्कार्मुकबाणपाणिः 025a तं भीमसेनश्च धनञ्जयश्च शिनेश्च नप्ता द्रुपदात्मजश्च 025c शैब्यात्मजः काशिपतिः शिबिश्च हृष्टा नदन्तो व्यकिरञ्शरौघैः 026a तेषामथो द्रोणधनुर्विमुक्ताः पतत्रिणः काञ्चनचित्रपुङ्खाः 026c भित्त्वा शरीराणि गजाश्वयूनां जग्मुर्महीं शोणितदिग्धवाजाः 027a सा योधसङ्घैश्च रथैश्च भूमिः शरैर्विभिन्नैर्गजवाजिभिश्च 027c प्रच्छाद्यमाना पतितैर्बभूव; समन्ततो द्यौरिव कालमेघैः 028a शैनेयभीमार्जुनवाहिनीपाञ्शैब्याभिमन्यू सह काशिराज्ञा 028c अन्यांश्च वीरान्समरे प्रमृद्नाद्द्रोणः सुतानां तव भूतिकामः 029a एतानि चान्यानि च कौरवेन्द्र कर्माणि कृत्वा समरे महात्मा 029c प्रताप्य लोकानिव कालसूर्यो द्रोणो गतः स्वर्गमितो हि राजन् 030a एवं रुक्मरथः शूरो हत्वा शतसहस्रशः 030c पाण्डवानां रणे योधान्पार्षतेन निपातितः 031a अक्षौहिणीमभ्यधिकां शूराणामनिवर्तिनाम् 031c निहत्य पश्चाद्धृतिमानगच्छत्परमां गतिम् 032a पाण्डवैः सह पाञ्चालैरशिवैः क्रूरकर्मभिः 032c हतो रुक्मरथो राजन्कृत्वा कर्म सुदुष्करम् 033a ततो निनादो भूतानामाकाशे समजायत 033c सैन्यानां च ततो राजन्नाचार्ये निहते युधि 034a द्यां धरां खं दिशो वारि प्रदिशश्चानुनादयन् 034c अहो धिगिति भूतानां शब्दः समभवन्महान् 035a देवताः पितरश्चैव पूर्वे ये चास्य बान्धवाः 035c ददृशुर्निहतं तत्र भारद्वाजं महारथम् 036a पाण्डवास्तु जयं लब्ध्वा सिंहनादान्प्रचक्रिरे 036c तेन नादेन महता समकम्पत मेदिनी