001 सञ्जय उवाच 001a सेनापत्यं तु सम्प्राप्य भारद्वाजो महारथः 001c युयुत्सुर्व्यूह्य सैन्यानि प्रायात्तव सुतैः सह 002a सैन्धवश्च कलिङ्गश्च विकर्णश्च तवात्मजः 002c दक्षिणं पार्श्वमास्थाय समतिष्ठन्त दंशिताः 003a प्रपक्षः शकुनिस्तेषां प्रवरैर्हयसादिभिः 003c ययौ गान्धारकैः सार्धं विमलप्रासयोधिभिः 004a कृपश्च कृतवर्मा च चित्रसेनो विविंशतिः 004c दुःशासनमुखा यत्ताः सव्यं पार्श्वमपालयन् 005a तेषां प्रपक्षाः काम्बोजाः सुदक्षिणपुरःसराः 005c ययुरश्वैर्महावेगैः शकाश्च यवनैः सह 006a मद्रास्त्रिगर्ताः साम्बष्ठाः प्रतीच्योदीच्यवासिनः 006c शिबयः शूरसेनाश्च शूद्राश्च मलदैः सह 007a सौवीराः कितवाः प्राच्या दाक्षिणात्याश्च सर्वशः 007c तवात्मजं पुरस्कृत्य सूतपुत्रस्य पृष्ठतः 008a हर्षयन्सर्वसैन्यानि बलेषु बलमादधत् 008c ययौ वैकर्तनः कर्णः प्रमुखे सर्वधन्विनाम् 009a तस्य दीप्तो महाकायः स्वान्यनीकानि हर्षयन् 009c हस्तिकक्ष्यामहाकेतुर्बभौ सूर्यसमद्युतिः 010a न भीष्मव्यसनं कश्चिद्दृष्ट्वा कर्णममन्यत 010c विशोकाश्चाभवन्सर्वे राजानः कुरुभिः सह 011a हृष्टाश्च बहवो योधास्तत्राजल्पन्त सङ्गताः 011c न हि कर्णं रणे दृष्ट्वा युधि स्थास्यन्ति पाण्डवाः 012a कर्णो हि समरे शक्तो जेतुं देवान्सवासवान् 012c किमु पाण्डुसुतान्युद्धे हीनवीर्यपराक्रमान् 013a भीष्मेण तु रणे पार्थाः पालिता बाहुशालिना 013c तांस्तु कर्णः शरैस्तीक्ष्णैर्नाशयिष्यत्यसंशयम् 014a एवं ब्रुवन्तस्तेऽन्योन्यं हृष्टरूपा विशाम्पते 014c राधेयं पूजयन्तश्च प्रशंसन्तश्च निर्ययुः 015a अस्माकं शकटव्यूहो द्रोणेन विहितोऽभवत् 015c परेषां क्रौञ्च एवासीद्व्यूहो राजन्महात्मनाम् 015e प्रीयमाणेन विहितो धर्मराजेन भारत 016a व्यूहप्रमुखतस्तेषां तस्थतुः पुरुषर्षभौ 016c वानरध्वजमुच्छ्रित्य विष्वक्सेनधनञ्जयौ 017a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 017c आदित्यपथगः केतुः पार्थस्यामिततेजसः 018a दीपयामास तत्सैन्यं पाण्डवस्य महात्मनः 018c यथा प्रज्वलितः सूर्यो युगान्ते वै वसुन्धराम् 019a अस्यतामर्जुनः श्रेष्ठो गाण्डीवं धनुषां वरम् 019c वासुदेवश्च भूतानां चक्राणाञ्च सुदर्शनम् 020a चत्वार्येतानि तेजांसि वहञ्श्वेतहयो रथः 020c परेषामग्रतस्तस्थौ कालचक्रमिवोद्यतम् 021a एवमेतौ महात्मानौ बलसेनाग्रगावुभौ 021c तावकानां मुखं कर्णः परेषाञ्च धनञ्जयः 022a ततो जाताभिसंरम्भौ परस्परवधैषिणौ 022c अवेक्षेतां तदान्योन्यं समरे कर्णपाण्डवौ 023a ततः प्रयाते सहसा भारद्वाजे महारथे 023c अन्तर्नादेन घोरेण वसुधा समकम्पत 024a ततस्तुमुलमाकाशमावृणोत्सदिवाकरम् 024c वातोद्धूतं रजस्तीव्रं कौशेयनिकरोपमम् 025a अनभ्रे प्रववर्ष द्यौर्मांसास्थिरुधिराण्युत 025c गृध्राः श्येना बडाः कङ्का वायसाश्च सहस्रशः 025e उपर्युपरि सेनां ते तदा पर्यपतन्नृप 026a गोमायवश्च प्राक्रोशन्भयदान्दारुणान्रवान् 026c अकार्षुरपसव्यं च बहुशः पृतनां तव 026e चिखादिषन्तो मांसानि पिपासन्तश्च शोणितम् 027a अपतद्दीप्यमाना च सनिर्घाता सकम्पना 027c उल्का ज्वलन्ती सङ्ग्रामे पुच्छेनावृत्य सर्वशः 028a परिवेषो महांश्चापि सविद्युत्स्तनयित्नुमान् 028c भास्करस्याभवद्राजन्प्रयाते वाहिनीपतौ 029a एते चान्ये च बहवः प्रादुरासन्सुदारुणाः 029c उत्पाता युधि वीराणां जीवितक्षयकारकाः 030a ततः प्रववृते युद्धं परस्परवधैषिणाम् 030c कुरुपाण्डवसैन्यानां शब्देनानादयज्जगत् 031a ते त्वन्योन्यं सुसंरब्धाः पाण्डवाः कौरवैः सह 031c प्रत्यघ्नन्निशितैर्बाणैर्जयगृद्धाः प्रहारिणः 032a स पाण्डवानां महतीं महेष्वासो महाद्युतिः 032c वेगेनाभ्यद्रवत्सेनां किरञ्शरशतैः शितैः 033a द्रोणमभ्युद्यतं दृष्ट्वा पाण्डवाः सह सृञ्जयैः 033c प्रत्यगृह्णंस्तदा राजञ्शरवर्षैः पृथक्पृथक् 034a सङ्क्षोभ्यमाणा द्रोणेन भिद्यमाना महाचमूः 034c व्यशीर्यत सपाञ्चाला वातेनेव बलाहकाः 035a बहूनीह विकुर्वाणो दिव्यान्यस्त्राणि संयुगे 035c अपीडयत्क्षणेनैव द्रोणः पाण्डवसृञ्जयान् 036a ते वध्यमाना द्रोणेन वासवेनेव दानवाः 036c पाञ्चालाः समकम्पन्त धृष्टद्युम्नपुरोगमाः 037a ततो दिव्यास्त्रविच्छूरो याज्ञसेनिर्महारथः 037c अभिनच्छरवर्षेण द्रोणानीकमनेकधा 038a द्रोणस्य शरवर्षैस्तु शरवर्षाणि भागशः 038c सन्निवार्य ततः सेनां कुरूनप्यवधीद्बली 039a संहृत्य तु ततो द्रोणः समवस्थाप्य चाहवे 039c स्वमनीकं महाबाहुः पार्षतं समुपाद्रवत् 040a स बाणवर्षं सुमहदसृजत्पार्षतं प्रति 040c मघवान्समभिक्रुद्धः सहसा दानवेष्विव 041a ते कम्प्यमाना द्रोणेन बाणैः पाण्डवसृञ्जयाः 041c पुनः पुनरभज्यन्त सिंहेनेवेतरे मृगाः 042a अथ पर्यपतद्द्रोणः पाण्डवानां बलं बली 042c अलातचक्रवद्राजंस्तदद्भुतमिवाभवत् 043a खचरनगरकल्पं कल्पितं शास्त्रदृष्ट्या चलदनिलपताकं ह्रादिनं वल्गिताश्वम् 043c स्फटिकविमलकेतुं तापनं शात्रवाणां रथवरमधिरूढः सञ्जहारारिसेनाम्