001 सञ्जय उवाच 001a रथस्थं पुरुषव्याघ्रं दृष्ट्वा कर्णमवस्थितम् 001c हृष्टो दुर्योधनो राजन्निदं वचनमब्रवीत् 002a सनाथमिदमत्यर्थं भवता पालितं बलम् 002c मन्ये किं तु समर्थं यद्धितं तत्सम्प्रधार्यताम् 003 कर्ण उवाच 003a ब्रूहि तत्पुरुषव्याघ्र त्वं हि प्राज्ञतमो नृप 003c यथा चार्थपतिः कृत्यं पश्यते न तथेतरः 004a ते स्म सर्वे तव वचः श्रोतुकामा नरेश्वर 004c नान्याय्यं हि भवान्वाक्यं ब्रूयादिति मतिर्मम 005 दुर्योधन उवाच 005a भीष्मः सेनाप्रणेतासीद्वयसा विक्रमेण च 005c श्रुतेन च सुसम्पन्नः सर्वैर्योधगुणैस्तथा 006a तेनातियशसा कर्ण घ्नता शत्रुगणान्मम 006c सुयुद्धेन दशाहानि पालिताः स्मो महात्मना 007a तस्मिन्नसुकरं कर्म कृतवत्यास्थिते दिवम् 007c कं नु सेनाप्रणेतारं मन्यसे तदनन्तरम् 008a न ऋते नायकं सेना मुहूर्तमपि तिष्ठति 008c आहवेष्वाहवश्रेष्ठ नेतृहीनेव नौर्जले 009a यथा ह्यकर्णधारा नौ रथश्चासारथिर्यथा 009c द्रवेद्यथेष्टं तद्वत्स्यादृते सेनापतिं बलम् 010a स भवान्वीक्ष्य सर्वेषु मामकेषु महात्मसु 010c पश्य सेनापतिं युक्तमनु शान्तनवादिह 011a यं हि सेनाप्रणेतारं भवान्वक्ष्यति संयुगे 011c तं वयं सहिताः सर्वे प्रकरिष्याम मारिष 012 कर्ण उवाच 012a सर्व एव महात्मान इमे पुरुषसत्तमाः 012c सेनापतित्वमर्हन्ति नात्र कार्या विचारणा 013a कुलसंहननज्ञानैर्बलविक्रमबुद्धिभिः 013c युक्ताः कृतज्ञा ह्रीमन्त आहवेष्वनिवर्तिनः 014a युगपन्न तु ते शक्याः कर्तुं सर्वे पुरःसराः 014c एक एवात्र कर्तव्यो यस्मिन्वैशेषिका गुणाः 015a अन्योन्यस्पर्धिनां तेषां यद्येकं सत्करिष्यसि 015c शेषा विमनसो व्यक्तं न योत्स्यन्ते हि भारत 016a अयं तु सर्वयोधानामाचार्यः स्थविरो गुरुः 016c युक्तः सेनापतिः कर्तुं द्रोणः शस्त्रभृतां वरः 017a को हि तिष्ठति दुर्धर्षे द्रोणे ब्रह्मविदुत्तमे 017c सेनापतिः स्यादन्योऽस्माच्छुक्राङ्गिरसदर्शनात् 018a न च स ह्यस्ति ते योधः सर्वराजसु भारत 018c यो द्रोणं समरे यान्तं नानुयास्यति संयुगे 019a एष सेनाप्रणेतॄणामेष शस्त्रभृतामपि 019c एष बुद्धिमतां चैव श्रेष्ठो राजन्गुरुश्च ते 020a एवं दुर्योधनाचार्यमाशु सेनापतिं कुरु 020c जिगीषन्तोऽसुरान्सङ्ख्ये कार्त्तिकेयमिवामराः 021 सञ्जय उवाच 021a कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा 021c सेनामध्यगतं द्रोणमिदं वचनमब्रवीत् 022a वर्णश्रैष्ठ्यात्कुलोत्पत्त्या श्रुतेन वयसा धिया 022c वीर्याद्दाक्ष्यादधृष्यत्वादर्थज्ञानान्नयाज्जयात् 023a तपसा च कृतज्ञत्वाद्वृद्धः सर्वगुणैरपि 023c युक्तो भवत्समो गोप्ता राज्ञामन्यो न विद्यते 024a स भवान्पातु नः सर्वान्विबुधानिव वासवः 024c भवन्नेत्राः पराञ्जेतुमिच्छामो द्विजसत्तम 025a रुद्राणामिव कापाली वसूनामिव पावकः 025c कुबेर इव यक्षाणां मरुतामिव वासवः 026a वसिष्ठ इव विप्राणां तेजसामिव भास्करः 026c पितॄणामिव धर्मोऽथ आदित्यानामिवाम्बुराट् 027a नक्षत्राणामिव शशी दितिजानामिवोशनाः 027c श्रेष्ठः सेनाप्रणेतॄणां स नः सेनापतिर्भव 028a अक्षौहिण्यो दशैका च वशगाः सन्तु तेऽनघ 028c ताभिः शत्रून्प्रतिव्यूह्य जहीन्द्रो दानवानिव 029a प्रयातु नो भवानग्रे देवानामिव पावकिः 029c अनुयास्यामहे त्वाजौ सौरभेया इवर्षभम् 030a उग्रधन्वा महेष्वासो दिव्यं विस्फारयन्धनुः 030c अग्रे भवन्तं दृष्ट्वा नो नार्जुनः प्रसहिष्यते 031a ध्रुवं युधिष्ठिरं सङ्ख्ये सानुबन्धं सबान्धवम् 031c जेष्यामि पुरुषव्याघ्र भवान्सेनापतिर्यदि 032a एवमुक्ते ततो द्रोणे जयेत्यूचुर्नराधिपाः 032c सिंहनादेन महता हर्षयन्तस्तवात्मजम् 033a सैनिकाश्च मुदा युक्ता वर्धयन्ति द्विजोत्तमम् 033c दुर्योधनं पुरस्कृत्य प्रार्थयन्तो महद्यशः 034 द्रोण उवाच 034a वेदं षडङ्गं वेदाहमर्थविद्यां च मानवीम् 034c त्रैयम्बकमथेष्वस्त्रमस्त्राणि विविधानि च 035a ये चाप्युक्ता मयि गुणा भवद्भिर्जयकाङ्क्षिभिः 035c चिकीर्षुस्तानहं सत्यान्योधयिष्यामि पाण्डवान् 036 सञ्जय उवाच 036a स एवमभ्यनुज्ञातश्चक्रे सेनापतिं ततः 036c द्रोणं तव सुतो राजन्विधिदृष्टेन कर्मणा 037a अथाभिषिषिचुर्द्रोणं दुर्योधनमुखा नृपाः 037c सेनापत्ये यथा स्कन्दं पुरा शक्रमुखाः सुराः 038a ततो वादित्रघोषेण सह पुंसां महास्वनैः 038c प्रादुरासीत्कृते द्रोणे हर्षः सेनापतौ तदा 039a ततः पुण्याहघोषेण स्वस्तिवादस्वनेन च 039c संस्तवैर्गीतशब्दैश्च सूतमागधबन्दिनाम् 040a जयशब्दैर्द्विजाग्र्याणां सुभगानर्तितैस्तथा 040c सत्कृत्य विधिवद्द्रोणं जितान्मन्यन्त पाण्डवान्