001 सञ्जय उवाच 001a तस्य लालप्यतः श्रुत्वा वृद्धः कुरुपितामहः 001c देशकालोचितं वाक्यमब्रवीत्प्रीतमानसः 002a समुद्र इव सिन्धूनां ज्योतिषामिव भास्करः 002c सत्यस्य च यथा सन्तो बीजानामिव चोर्वरा 003a पर्जन्य इव भूतानां प्रतिष्ठा सुहृदां भव 003c बान्धवास्त्वानुजीवन्तु सहस्राक्षमिवामराः 004a स्वबाहुबलवीर्येण धार्तराष्ट्रप्रियैषिणा 004c कर्ण राजपुरं गत्वा काम्बोजा निहतास्त्वया 005a गिरिव्रजगताश्चापि नग्नजित्प्रमुखा नृपाः 005c अम्बष्ठाश्च विदेहाश्च गान्धाराश्च जितास्त्वया 006a हिमवद्दुर्गनिलयाः किराता रणकर्कशाः 006c दुर्योधनस्य वशगाः कृताः कर्ण त्वया पुरा 007a तत्र तत्र च सङ्ग्रामे दुर्योधनहितैषिणा 007c बहवश्च जिता वीरास्त्वया कर्ण महौजसा 008a यथा दुर्योधनस्तात सज्ञातिकुलबान्धवः 008c तथा त्वमपि सर्वेषां कौरवाणां गतिर्भव 009a शिवेनाभिवदामि त्वां गच्छ युध्यस्व शत्रुभिः 009c अनुशाधि कुरून्सङ्ख्ये धत्स्व दुर्योधने जयम् 010a भवान्पौत्रसमोऽस्माकं यथा दुर्योधनस्तथा 010c तवापि धर्मतः सर्वे यथा तस्य वयं तथा 011a यौनात्सम्बन्धकाल्लोके विशिष्टं सङ्गतं सताम् 011c सद्भिः सह नरश्रेष्ठ प्रवदन्ति मनीषिणः 012a स सत्यसङ्गरो भूत्वा ममेदमिति निश्चितम् 012c कुरूणां पालय बलं यथा दुर्योधनस्तथा 013a इति श्रुत्वा वचः सोऽथ चरणावभिवाद्य च 013c ययौ वैकर्तनः कर्णस्तूर्णमायोधनं प्रति 014a सोऽभिवीक्ष्य नरौघाणां स्थानमप्रतिमं महत् 014c व्यूढप्रहरणोरस्कं सैन्यं तत्समबृंहयत् 015a कर्णं दृष्ट्वा महेष्वासं युद्धाय समवस्थितम् 015c क्ष्वेडितास्फोटितरवैः सिंहनादरवैरपि 015e धनुःशब्दैश्च विविधैः कुरवः समपूजयन्