001 सञ्जय उवाच 001a शरतल्पे महात्मानं शयानममितौजसम् 001c महावातसमूहेन समुद्रमिव शोषितम् 002a दिव्यैरस्त्रैर्महेष्वासं पातितं सव्यसाचिना 002c जयाशां तव पुत्राणां सम्भग्नां शर्म वर्म च 003a अपाराणामिव द्वीपमगाधे गाधमिच्छताम् 003c स्रोतसा यामुनेनेव शरौघेण परिप्लुतम् 004a महान्तमिव मैनाकमसह्यं भुवि पातितम् 004c नभश्च्युतमिवादित्यं पतितं धरणीतले 005a शतक्रतोरिवाचिन्त्यं पुरा वृत्रेण निर्जयम् 005c मोहनं सर्वसैन्यस्य युधि भीष्मस्य पातनम् 006a ककुदं सर्वसैन्यानां लक्ष्म सर्वधनुष्मताम् 006c धनञ्जयशरव्याप्तं पितरं ते महाव्रतम् 007a तं वीरशयने वीरं शयानं पुरुषर्षभम् 007c भीष्ममाधिरथिर्दृष्ट्वा भरतानाममध्यमम् 008a अवतीर्य रथादार्तो बाष्पव्याकुलिताक्षरम् 008c अभिवाद्याञ्जलिं बद्ध्वा वन्दमानोऽभ्यभाषत 009a कर्णोऽहमस्मि भद्रं ते अद्य मा वद भारत 009c पुण्यया क्षेमया वाचा चक्षुषा चावलोकय 010a न नूनं सुकृतस्येह फलं कश्चित्समश्नुते 010c यत्र धर्मपरो वृद्धः शेते भुवि भवानिह 011a कोशसञ्जनने मन्त्रे व्यूहप्रहरणेषु च 011c नाथमन्यं न पश्यामि कुरूणां कुरुसत्तम 012a बुद्ध्या विशुद्धया युक्तो यः कुरूंस्तारयेद्भयात् 012c योधांस्त्वमप्लवे हित्वा पितृलोकं गमिष्यसि 013a अद्य प्रभृति सङ्क्रुद्धा व्याघ्रा इव मृगक्षयम् 013c पाण्डवा भरतश्रेष्ठ करिष्यन्ति कुरुक्षयम् 014a अद्य गाण्डीवघोषस्य वीर्यज्ञाः सव्यसाचिनः 014c कुरवः सन्त्रसिष्यन्ति वज्रपाणेरिवासुराः 015a अद्य गाण्डीवमुक्तानामशनीनामिव स्वनः 015c त्रासयिष्यति सङ्ग्रामे कुरूनन्यांश्च पार्थिवान् 016a समिद्धोऽग्निर्यथा वीर महाज्वालो द्रुमान्दहेत् 016c धार्तराष्ट्रान्प्रधक्ष्यन्ति तथा बाणाः किरीटिनः 017a येन येन प्रसरतो वाय्वग्नी सहितौ वने 017c तेन तेन प्रदहतो भगवन्तौ यदिच्छतः 018a यादृशोऽग्निः समिद्धो हि तादृक्पार्थो न संशयः 018c यथा वायुर्नरव्याघ्र तथा कृष्णो न संशयः 019a नदतः पाञ्चजन्यस्य रसतो गाण्डिवस्य च 019c श्रुत्वा सर्वाणि सैन्यानि त्रासं यास्यन्ति भारत 020a कपिध्वजस्य चोत्पाते रथस्यामित्रकर्शिनः 020c शब्दं सोढुं न शक्ष्यन्ति त्वामृते वीर पार्थिवाः 021a को ह्यर्जुनं रणे योद्धुं त्वदन्यः पार्थिवोऽर्हति 021c यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः 022a अमानुषश्च सङ्ग्रामस्त्र्यम्बकेन च धीमतः 022c तस्माच्चैव वरः प्राप्तो दुष्प्रापश्चाकृतात्मभिः 023a तमद्याहं पाण्डवं युद्धशौण्डममृष्यमाणो भवतानुशिष्टः 023c आशीविषं दृष्टिहरं सुघोरमियां पुरस्कृत्य वधं जयं वा