001 सञ्जय उवाच 001a हतं भीष्ममाधिरथिर्विदित्वा भिन्नां नावमिवात्यगाधे कुरूणाम् 001c सोदर्यवद्व्यसनात्सूतपुत्रः सन्तारयिष्यंस्तव पुत्रस्य सेनाम् 002a श्रुत्वा तु कर्णः पुरुषेन्द्रमच्युतं निपातितं शान्तनवं महारथम् 002c अथोपायात्तूर्णममित्रकर्शनो धनुर्धराणां प्रवरस्तदा वृषः 003a हते तु भीष्मे रथसत्तमे परैर्निमज्जतीं नावमिवार्णवे कुरून् 003c पितेव पुत्रांस्त्वरितोऽभ्ययात्ततः सन्तारयिष्यंस्तव पुत्रस्य सेनाम् 004 कर्ण उवाच 004a यस्मिन्धृतिर्बुद्धिपराक्रमौजो दमः सत्यं वीरगुणाश्च सर्वे 004c अस्त्राणि दिव्यान्यथ सन्नतिर्ह्रीः प्रिया च वागनपायीनि भीष्मे 005a ब्रह्मद्विषघ्ने सततं कृतज्ञे सनातनं चन्द्रमसीव लक्ष्म 005c स चेत्प्रशान्तः परवीरहन्ता मन्ये हतानेव हि सर्वयोधान् 006a नेह ध्रुवं किञ्चन जातु विद्यते अस्मिल्ँलोके कर्मणोऽनित्ययोगात् 006c सूर्योदये को हि विमुक्तसंशयो भावं कुर्वीताद्य महाव्रते हते 007a वसुप्रभावे वसुवीर्यसम्भवे गते वसूनेव वसुन्धराधिपे 007c वसूनि पुत्रांश्च वसुन्धरां तथा कुरूंश्च शोचध्वमिमां च वाहिनीम् 008 सञ्जय उवाच 008a महाप्रभावे वरदे निपातिते लोकश्रेष्ठे शान्तनवे महौजसि 008c पराजितेषु भरतेषु दुर्मनाः कर्णो भृशं न्यश्वसदश्रु वर्तयन् 009a इदं तु राधेयवचो निशम्य ते सुताश्च राजंस्तव सैनिकाश्च ह 009c परस्परं चुक्रुशुरार्तिजं भृशं तदाश्रु नेत्रैर्मुमुचुर्हि शब्दवत् 010a प्रवर्तमाने तु पुनर्महाहवे विगाह्यमानासु चमूषु पार्थिवैः 010c अथाब्रवीद्धर्षकरं वचस्तदा रथर्षभान्सर्वमहारथर्षभः 011 कर्ण उवाच 011a जगत्यनित्ये सततं प्रधावति प्रचिन्तयन्नस्थिरमद्य लक्षये 011c भवत्सु तिष्ठत्स्विह पातितो रणे गिरिप्रकाशः कुरुपुङ्गवः कथम् 012a निपातिते शान्तनवे महारथे दिवाकरे भूतलमास्थिते यथा 012c न पार्थिवाः सोढुमलं धनञ्जयं गिरिप्रवोढारमिवानिलं द्रुमाः 013a हतप्रधानं त्विदमार्तरूपं परैर्हतोत्साहमनाथमद्य वै 013c मया कुरूणां परिपाल्यमाहवे बलं यथा तेन महात्मना तथा 014a समाहितं चात्मनि भारमीदृशं जगत्तथानित्यमिदं च लक्षये 014c निपातितं चाहवशौण्डमाहवे कथं नु कुर्यामहमाहवे भयम् 015a अहं तु तान्कुरुवृषभानजिह्मगैः प्रवेरयन्यमसदनं रणे चरन् 015c यशः परं जगति विभाव्य वर्तिता परैर्हतो युधि शयिताथ वा पुनः 016a युधिष्ठिरो धृतिमतिधर्मतत्त्ववान्वृकोदरो गजशततुल्यविक्रमः 016c तथार्जुनस्त्रिदशवरात्मजो यतो न तद्बलं सुजयमथामरैरपि 017a यमौ रणे यत्र यमोपमौ बले ससात्यकिर्यत्र च देवकीसुतः 017c न तद्बलं कापुरुषोऽभ्युपेयिवान्निवर्तते मृत्युमुखादिवासकृत् 018a तपोऽभ्युदीर्णं तपसैव गम्यते बलं बलेनापि तथा मनस्विभिः 018c मनश्च मे शत्रुनिवारणे ध्रुवं स्वरक्षणे चाचलवद्व्यवस्थितम् 019a एवं चैषां बुध्यमानः प्रभावं गत्वैवाहं ताञ्जयाम्यद्य सूत 019c मित्रद्रोहो मर्षणीयो न मेऽयं भग्ने सैन्ये यः सहायः स मित्रम् 020a कर्तास्म्येतत्सत्पुरुषार्यकर्म त्यक्त्वा प्राणाननुयास्यामि भीष्मम् 020c सर्वान्सङ्ख्ये शत्रुसङ्घान्हनिष्ये हतस्तैर्वा वीरलोकं गमिष्ये 021a सम्प्राक्रुष्टे रुदितस्त्रीकुमारे पराभूते पौरुषे धार्तराष्ट्रे 021c मया कृत्यमिति जानामि सूत तस्माच्छत्रून्धार्तराष्ट्रस्य जेष्ये 022a कुरून्रक्षन्पाण्डुपुत्राञ्जिघांसंस्त्यक्त्वा प्राणान्घोररूपे रणेऽस्मिन् 022c सर्वान्सङ्ख्ये शत्रुसङ्घान्निहत्य दास्याम्यहं धार्तराष्ट्राय राज्यम् 023a निबध्यतां मे कवचं विचित्रं हैमं शुभ्रं मणिरत्नावभासि 023c शिरस्त्राणं चार्कसमानभासं धनुः शरांश्चापि विषाहिकल्पान् 024a उपासङ्गान्षोडश योजयन्तु धनूंषि दिव्यानि तथाहरन्तु 024c असींश्च शक्तीश्च गदाश्च गुर्वीः शङ्खञ्च जाम्बूनदचित्रभासम् 025a एतां रौक्मीं नागकक्ष्याञ्च जैत्रीं जैत्रञ्च मे ध्वजमिन्दीवराभम् 025c श्लक्ष्णैर्वस्त्रैर्विप्रमृज्यानयस्व चित्रां मालां चात्र बद्ध्वा सजालाम् 026a अश्वानग्र्यान्पाण्डुराभ्रप्रकाशान्पुष्टान्स्नातान्मन्त्रपूताभिरद्भिः 026c तप्तैर्भाण्डैः काञ्चनैरभ्युपेताञ्शीघ्राञ्शीघ्रं सूतपुत्रानयस्व 027a रथं चाग्र्यं हेमजालावनद्धं रत्नैश्चित्रं चन्द्रसूर्यप्रकाशैः 027c द्रव्यैर्युक्तं सम्प्रहारोपपन्नैर्वाहैर्युक्तं तूर्णमावर्तयस्व 028a चित्राणि चापानि च वेगवन्ति ज्याश्चोत्तमाः संहननोपपन्नाः 028c तूणांश्च पूर्णान्महतः शराणामासज्य गात्रावरणानि चैव 029a प्रायात्रिकं चानयताशु सर्वं कन्याः पूर्णं वीरकांस्यं च हैमम् 029c आनीय मालामवबध्य चाङ्गे प्रवादयन्त्वाशु जयाय भेरीः 030a प्रयाहि सूताशु यतः किरीटी वृकोदरो धर्मसुतो यमौ च 030c तान्वा हनिष्यामि समेत्य सङ्ख्ये भीष्माय वैष्यामि हतो द्विषद्भिः 031a यस्मिन्राजा सत्यधृतिर्युधिष्ठिरः समास्थितो भीमसेनार्जुनौ च 031c वासुदेवः सात्यकिः सृञ्जयाश्च मन्ये बलं तदजय्यं महीपैः 032a तं चेन्मृत्युः सर्वहरोऽभिरक्षेत्सदाप्रमत्तः समरे किरीटिनम् 032c तथापि हन्तास्मि समेत्य सङ्ख्ये यास्यामि वा भीष्मपथा यमाय 033a न त्वेवाहं न गमिष्यामि तेषां मध्ये शूराणां तत्तथाहं ब्रवीमि 033c मित्रद्रुहो दुर्बलभक्तयो ये पापात्मानो न ममैते सहायाः 034 सञ्जय उवाच 034a स सिद्धिमन्तं रथमुत्तमं दृढं सकूबरं हेमपरिष्कृतं शुभम् 034c पताकिनं वातजवैर्हयोत्तमैर्युक्तं समास्थाय ययौ जयाय 035a सम्पूज्यमानः कुरुभिर्महात्मा रथर्षभः पाण्डुरवाजियाता 035c ययौ तदायोधनमुग्रधन्वा यत्रावसानं भरतर्षभस्य 036a वरूथिना महता सध्वजेन सुवर्णमुक्तामणिवज्रशालिना 036c सदश्वयुक्तेन रथेन कर्णो मेघस्वनेनार्क इवामितौजाः 037a हुताशनाभः स हुताशनप्रभे शुभः शुभे वै स्वरथे धनुर्धरः 037c स्थितो रराजाधिरथिर्महारथः स्वयं विमाने सुरराडिव स्थितः