07001001 जनमेजय उवाच 07001001a तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् 07001001c हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना 07001002a धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः 07001002c किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् 07001003a तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः 07001003c पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति 07001004a तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् 07001004c यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम 07001005 वैशम्पायन उवाच 07001005a निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः 07001005c लेभे न शान्तिं कौरव्यश्चिन्ताशोकपरायणः 07001006a तस्य चिन्तयतो दुःखमनिशं पार्थिवस्य तत् 07001006c आजगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा 07001007a शिबिरात्सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् 07001007c आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत 07001008a श्रुत्वा भीष्मस्य निधनमप्रहृष्टमना भृशम् 07001008c पुत्राणां जयमाकाङ्क्षन्विललापातुरो यथा 07001009 धृतराष्ट्र उवाच 07001009a संसाध्य तु महात्मानं भीष्मं भीमपराक्रमम् 07001009c किमकार्षुः परं तात कुरवः कालचोदिताः 07001010a तस्मिन्विनिहते शूरे दुराधर्षे महौजसि 07001010c किं नु स्वित्कुरवोऽकार्षुर्निमग्नाः शोकसागरे 07001011a तदुदीर्णं महत्सैन्यं त्रैलोक्यस्यापि सञ्जय 07001011c भयमुत्पादयेत्तीव्रं पाण्डवानां महात्मनाम् 07001012a देवव्रते तु निहते कुरूणामृषभे तदा 07001012c यदकार्षुर्नृपतयस्तन्ममाचक्ष्व सञ्जय 07001013 सञ्जय उवाच 07001013a शृणु राजन्नेकमना वचनं ब्रुवतो मम 07001013c यत्ते पुत्रास्तदाकार्षुर्हते देवव्रते मृधे 07001014a निहते तु तदा भीष्मे राजन्सत्यपराक्रमे 07001014c तावकाः पाण्डवेयाश्च प्राध्यायन्त पृथक्पृथक् 07001015a विस्मिताश्च प्रहृष्टाश्च क्षत्रधर्मं निशाम्य ते 07001015c स्वधर्मं निन्दमानाश्च प्रणिपत्य महात्मने 07001016a शयनं कल्पयामासुर्भीष्मायामिततेजसे 07001016c सोपधानं नरव्याघ्र शरैः सन्नतपर्वभिः 07001017a विधाय रक्षां भीष्माय समाभाष्य परस्परम् 07001017c अनुमान्य च गाङ्गेयं कृत्वा चापि प्रदक्षिणम् 07001018a क्रोधसंरक्तनयनाः समवेक्ष्य परस्परम् 07001018c पुनर्युद्धाय निर्जग्मुः क्षत्रियाः कालचोदिताः 07001019a ततस्तूर्यनिनादैश्च भेरीणां च महास्वनैः 07001019c तावकानामनीकानि परेषां चापि निर्ययुः 07001020a व्यावृत्तेऽहनि राजेन्द्र पतिते जाह्नवीसुते 07001020c अमर्षवशमापन्नाः कालोपहतचेतसः 07001021a अनादृत्य वचः पथ्यं गाङ्गेयस्य महात्मनः 07001021c निर्ययुर्भरतश्रेष्ठाः शस्त्राण्यादाय सर्वशः 07001022a मोहात्तव सपुत्रस्य वधाच्छान्तनवस्य च 07001022c कौरव्या मृत्युसाद्भूताः सहिताः सर्वराजभिः 07001023a अजावय इवागोपा वने श्वापदसङ्कुले 07001023c भृशमुद्विग्नमनसो हीना देवव्रतेन ते 07001024a पतिते भरतश्रेष्ठे बभूव कुरुवाहिनी 07001024c द्यौरिवापेतनक्षत्रा हीनं खमिव वायुना 07001025a विपन्नसस्येव मही वाक्चैवासंस्कृता यथा 07001025c आसुरीव यथा सेना निगृहीते पुरा बलौ 07001026a विधवेव वरारोहा शुष्कतोयेव निम्नगा 07001026c वृकैरिव वने रुद्धा पृषती हतयूथपा 07001027a स्वाधर्षा हतसिंहेव महती गिरिकन्दरा 07001027c भारती भरतश्रेष्ठ पतिते जाह्नवीसुते 07001028a विष्वग्वातहता रुग्णा नौरिवासीन्महार्णवे 07001028c बलिभिः पाण्डवैर्वीरैर्लब्धलक्षैर्भृशार्दिता 07001029a सा तदासीद्भृशं सेना व्याकुलाश्वरथद्विपा 07001029c विषण्णभूयिष्ठनरा कृपणा द्रष्टुमाबभौ 07001030a तस्यां त्रस्ता नृपतयः सैनिकाश्च पृथग्विधाः 07001030c पाताल इव मज्जन्तो हीना देवव्रतेन ते 07001030e कर्णं हि कुरवोऽस्मार्षुः स हि देवव्रतोपमः 07001031a सर्वशस्त्रभृतां श्रेष्ठं रोचमानमिवातिथिम् 07001031c बन्धुमापद्गतस्येव तमेवोपागमन्मनः 07001032a चुक्रुशुः कर्ण कर्णेति तत्र भारत पार्थिवाः 07001032c राधेयं हितमस्माकं सूतपुत्रं तनुत्यजम् 07001033a स हि नायुध्यत तदा दशाहानि महायशाः 07001033c सामात्यबन्धुः कर्णो वै तमाह्वयत माचिरम् 07001034a भीष्मेण हि महाबाहुः सर्वक्षत्रस्य पश्यतः 07001034c रथेषु गण्यमानेषु बलविक्रमशालिषु 07001034e सङ्ख्यातोऽर्धरथः कर्णो द्विगुणः सन्नरर्षभः 07001035a रथातिरथसङ्ख्यायां योऽग्रणीः शूरसम्मतः 07001035c पितृवित्ताम्बुदेवेशानपि यो योद्धुमुत्सहेत् 07001036a स तु तेनैव कोपेन राजन्गाङ्गेयमुक्तवान् 07001036c त्वयि जीवति कौरव्य नाहं योत्स्ये कथञ्चन 07001037a त्वया तु पाण्डवेयेषु निहतेषु महामृधे 07001037c दुर्योधनमनुज्ञाप्य वनं यास्यामि कौरव 07001038a पाण्डवैर्वा हते भीष्मे त्वयि स्वर्गमुपेयुषि 07001038c हन्तास्म्येकरथेनैव कृत्स्नान्यान्मन्यसे रथान् 07001039a एवमुक्त्वा महाराज दशाहानि महायशाः 07001039c नायुध्यत ततः कर्णः पुत्रस्य तव सम्मते 07001040a भीष्मः समरविक्रान्तः पाण्डवेयस्य पार्थिव 07001040c जघान समरे योधानसङ्ख्येयपराक्रमः 07001041a तस्मिंस्तु निहते शूरे सत्यसन्धे महौजसि 07001041c त्वत्सुताः कर्णमस्मार्षुस्तर्तुकामा इव प्लवम् 07001042a तावकास्तव पुत्राश्च सहिताः सर्वराजभिः 07001042c हा कर्ण इति चाक्रन्दन्कालोऽयमिति चाब्रुवन् 07001043a जामदग्न्याभ्यनुज्ञातमस्त्रे दुर्वारपौरुषम् 07001043c अगमन्नो मनः कर्णं बन्धुमात्ययिकेष्विव 07001044a स हि शक्तो रणे राजंस्त्रातुमस्मान्महाभयात् 07001044c त्रिदशानिव गोविन्दः सततं सुमहाभयात् 07001045 वैशम्पायन उवाच 07001045a तथा कर्णं युधि वरं कीर्तयन्तं पुनः पुनः 07001045c आशीविषवदुच्छ्वस्य धृतराष्ट्रोऽब्रवीदिदम् 07001046a यत्तद्वैकर्तनं कर्णमगमद्वो मनस्तदा 07001046c अप्यपश्यत राधेयं सूतपुत्रं तनुत्यजम् 07001047a अपि तन्न मृषाकार्षीद्युधि सत्यपराक्रमः 07001047c सम्भ्रान्तानां तदार्तानां त्रस्तानां त्राणमिच्छताम् 07001048a अपि तत्पूरयां चक्रे धनुर्धरवरो युधि 07001048c यत्तद्विनिहते भीष्मे कौरवाणामपावृतम् 07001049a तत्खण्डं पूरयामास परेषामादधद्भयम् 07001049c कृतवान्मम पुत्राणां जयाशां सफलामपि