001 सञ्जय उवाच 001a ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः 001c तूष्णीम्भूते महाराज भीष्मे शन्तनुनन्दने 002a श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः 002c ईषदागतसन्त्रासः त्वरयोपजगाम ह 003a स ददर्श महात्मानं शरतल्पगतं तदा 003c जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम् 004a निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः 004c अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः 005a राधेयोऽहं कुरुश्रेष्ठ नित्यं चाष्किगतस्तव 005c द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह 006a तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः 006c शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत् 007a रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः 007c पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना 008a एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह 008c यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम् 009a कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम 009c कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः 010a न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते 010c तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान् 011a अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम 011c येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन 012a जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव 012c ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम् 013a न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम 013c कुलभेदं च मत्वाहं सदा परुषमुक्तवान् 014a इष्वस्त्रे भारसन्धाने लाघवेऽस्त्रबले तथा 014c सदृशः फल्गुनेनासि कृष्णेन च महात्मना 015a कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता 015c तस्यार्थे कुरुराजस्य राजानो मृदिता युधि 016a तथा च बलवान्राजा जरासन्धो दुरासदः 016c समरे समरश्लाघी त्वया न सदृशोऽभवत् 017a ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः 017c देवगर्भोऽजितः सङ्ख्ये मनुष्यैरधिको भुवि 018a व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः 018c दैवं पुरुषकारेण न शक्यमतिवर्तितुम् 019a सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन 019c सङ्गच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम् 020a मया भवतु निर्वृत्तं वैरमादित्यनन्दन 020c पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः 021 कर्ण उवाच 021a जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः 021c यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः 022a अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः 022c भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे 023a वसु चैव शरीरं च यदुदारं तथा यशः 023c सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण 023e कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम् 024a अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम् 024c दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् 025a पृथिवीक्षयशंसीनि निमित्तानि पितामह 025c भवद्भिरुपलब्धानि कथितानि च संसदि 026a पाण्डवा वासुदेवश्च विदिता मम सर्वशः 026c अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे 027a अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा 027c अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः 028a दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा 028c यन्मयापकृतं किञ्चित्तदनुक्षन्तुमर्हसि 029 भीष्म उवाच 029a न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम् 029c अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया 030a विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि 030c यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान् 031a अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि 031c क्षत्रधर्मजिताल्ँलोकान्सम्प्राप्स्यसि न संशयः 032a युध्यस्व निरहङ्कारो बलवीर्यव्यपाश्रयः 032c धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते 033a प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया 033c न चैव शकितः कर्तुं यतो धर्मस्ततो जयः 034 सञ्जय उवाच 034a एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च 034c राधेयो रथमारुह्य प्रायात्तव सुतं प्रति