001 सञ्जय उवाच 001a व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः 001c पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् 002a तं वीरशयने वीरं शयानं कुरुसत्तमम् 002c अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् 003a कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः 003c स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः 003e समभ्ययुः शान्तनवं भूतानीव तमोनुदम् 004a तूर्याणि गणिका वारास्तथैव नटनर्तकाः 004c उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् 005a उपारम्य च युद्धेभ्यः सन्नाहान्विप्रमुच्य च 005c आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः 006a अन्वासत दुराधर्षं देवव्रतमरिन्दमम् 006c अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः 007a सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता 007c शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् 008a विबभौ च नृपाणां सा पितामहमुपासताम् 008c देवानामिव देवेशं पितामहमुपासताम् 009a भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ 009c अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् 010a शराभितप्तकायोऽहं शरसन्तापमूर्छितः 010c पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत 011a ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः 011c भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् 012a उपनीतं च तद्दृष्ट्वा भीष्मः शान्तनवोऽब्रवीत् 012c नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् 013a उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् 013c प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः 014a एवमुक्त्वा शान्तनवो दीनवाक्सर्वपार्थिवान् 014c धनञ्जयं महाबाहुमभ्यभाषत भारत 015a अथोपेत्य महाबाहुरभिवाद्य पितामहम् 015c अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् 016a तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् 016c अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनञ्जयम् 017a दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः 017c मर्माणि परिदूयन्ते वदनं मम शुष्यति 018a ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन 018c त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि 019a अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् 019c अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः 020a तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः 020c वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः 021a ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः 021c शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् 022a सन्धाय च शरं दीप्तमभिमन्त्र्य महायशाः 022c पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः 022e अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे 023a उत्पपात ततो धारा विमला वारिणः शिवा 023c शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च 024a अतर्पयत्ततः पार्थः शीतया वारिधारया 024c भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः 025a कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः 025c विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः 026a तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् 026c सम्प्रावेपन्त कुरवो गावः शीतार्दिता इव 027a विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः 027c शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् 028a तृप्तः शान्तनवश्चापि राजन्बीभत्सुमब्रवीत् 028c सर्वपार्थिववीराणां सन्निधौ पूजयन्निव 029a नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन 029c कथितो नारदेनासि पूर्वर्षिरमितद्युतिः 030a वासुदेवसहायस्त्वं महत्कर्म करिष्यसि 030c यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् 031a विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः 031c धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु 032a मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः 032c सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् 033a आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः 033c जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् 034a न वै श्रुतं धार्तराष्ट्रेण वाक्यं; सम्बोध्यमानं विदुरेण चैव 034c द्रोणेन रामेण जनार्दनेन; मुहुर्मुहुः सञ्जयेनापि चोक्तम् 035a परीतबुद्धिर्हि विसञ्ज्ञकल्पो; दुर्योधनो नाभ्यनन्दद्वचो मे 035c स शेष्यते वै निहतश्चिराय; शास्त्रातिगो भीमबलाभिभूतः 036a ततः श्रुत्वा तद्वचः कौरवेन्द्रो; दुर्योधनो दीनमना बभूव 036c तमब्रवीच्छान्तनवोऽभिवीक्ष्य; निबोध राजन्भव वीतमन्युः 037a दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता 037c जलस्य धारा जनिता शीतस्यामृतगन्धिनः 037e एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते 038a आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् 038c ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः 038e धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः 039a सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनञ्जयः 039c कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन 039e न शक्याः पाण्डवास्तात युद्धे जेतुं कथञ्चन 040a अमानुषाणि कर्माणि यस्यैतानि महात्मनः 040c तेन सत्त्ववता सङ्ख्ये शूरेणाहवशोभिना 040e कृतिना समरे राजन्सन्धिस्ते तात युज्यताम् 041a यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि 041c तावत्पार्थेन शूरेण सन्धिस्ते तात युज्यताम् 042a यावच्चमूं न ते शेषां शरैः सन्नतपर्वभिः 042c नाशयत्यर्जुनस्तावत्सन्धिस्ते तात युज्यताम् 043a यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः 043c नृपाश्च बहवो राजंस्तावत्सन्धिः प्रयुज्यताम् 044a न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् 044c युधिष्ठिरो हि तावद्वै सन्धिस्ते तात युज्यताम् 045a नकुलः सहदेवश्च भीमसेनश्च पाण्डवः 045c यावच्चमूं महाराज नाशयन्ति न सर्वशः 045e तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् 046a युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः 046c एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ 046e एतत्क्षेममहं मन्ये तव चैव कुलस्य च 047a त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः; पर्याप्तमेतद्यत्कृतं फल्गुनेन 047c भीष्मस्यान्तादस्तु वः सौहृदं वा; सम्प्रश्लेषः साधु राजन्प्रसीद 048a राज्यस्यार्धं दीयतां पाण्डवाना;मिन्द्रप्रस्थं धर्मराजोऽनुशास्तु 048c मा मित्रध्रुक्पार्थिवानां जघन्यः; पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र 049a ममावसानाच्छान्तिरस्तु प्रजानां; सङ्गच्छन्तां पार्थिवाः प्रीतिमन्तः 049c पिता पुत्रं मातुलं भागिनेयो; भ्राता चैव भ्रातरं प्रैतु राजन् 050a न चेदेवं प्राप्तकालं वचो मे; मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या 050c भीष्मस्यान्तादेतदन्ताः स्थ सर्वे; सत्यामेतां भारतीमीरयामि 051a एतद्वाक्यं सौहृदादापगेयो; मध्ये राज्ञां भारतं श्रावयित्वा 051c तूष्णीमासीच्छल्यसन्तप्तमर्मा; यत्वात्मानं वेदनां सन्निगृह्य