001 धृतराष्ट्र उवाच 001a कथमासंस्तदा योधा हीना भीष्मेण सञ्जय 001c बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा 002a तदैव निहतान्मन्ये कुरूनन्यांश्च पार्थिवान् 002c न प्राहरद्यदा भीष्मो घृणित्वाद्द्रुपदात्मजे 003a ततो दुःखतरं मन्ये किमन्यत्प्रभविष्यति 003c यदद्य पितरं श्रुत्वा निहतं मम दुर्मतेः 004a अश्मसारमयं नूनं हृदयं मम सञ्जय 004c श्रुत्वा विनिहतं भीष्मं शतधा यन्न दीर्यते 005a पुनः पुनर्न मृष्यामि हतं देवव्रतं रणे 005c न हतो जामदग्न्येन दिव्यैरस्त्रैः स्म यः पुरा 006a यदद्य निहतेनाजौ भीष्मेण जयमिच्छता 006c चेष्टितं नरसिंहेन तन्मे कथय सञ्जय 007 सञ्जय उवाच 007a सायाह्ने न्यपतद्भूमौ धार्तराष्ट्रान्विषादयन् 007c पाञ्चालानां ददद्धर्षं कुरुवृद्धः पितामहः 008a स शेते शरतल्पस्थो मेदिनीमस्पृशंस्तदा 008c भीष्मो रथात्प्रपतितः प्रच्युतो धरणीतले 009a हा हेति तुमुलः शब्दो भूतानां समपद्यत 009c सीमावृक्षे निपतिते कुरूणां समितिक्षये 010a उभयोः सेनयो राजन्क्षत्रियान्भयमाविशत् 010c भीष्मं शान्तनवं दृष्ट्वा विशीर्णकवचध्वजम् 010e कुरवः पर्यवर्तन्त पाण्डवाश्च विशाम्पते 011a खं तमोवृतमासीच्च नासीद्भानुमतः प्रभा 011c ररास पृथिवी चैव भीष्मे शान्तनवे हते 012a अयं ब्रह्मविदां श्रेष्ठो अयं ब्रह्मविदां गतिः 012c इत्यभाषन्त भूतानि शयानं भरतर्षभम् 013a अयं पितरमाज्ञाय कामार्तं शन्तनुं पुरा 013c ऊर्ध्वरेतसमात्मानं चकार पुरुषर्षभः 014a इति स्म शरतल्पस्थं भरतानाममध्यमम् 014c ऋषयः पर्यधावन्त सहिताः सिद्धचारणैः 015a हते शान्तनवे भीष्मे भरतानां पितामहे 015c न किञ्चित्प्रत्यपद्यन्त पुत्रास्तव च भारत 016a विवर्णवदनाश्चासन्गतश्रीकाश्च भारत 016c अतिष्ठन्व्रीडिताश्चैव ह्रिया युक्ता ह्यधोमुखाः 017a पाण्डवाश्च जयं लब्ध्वा सङ्ग्रामशिरसि स्थिताः 017c सर्वे दध्मुर्महाशङ्खान्हेमजालपरिष्कृतान् 018a भृशं तूर्यनिनादेषु वाद्यमानेषु चानघ 018c अपश्याम रणे राजन्भीमसेनं महाबलम् 018e आक्रीडमानं कौन्तेयं हर्षेण महता युतम् 019a निहत्य समरे शत्रून्महाबलसमन्वितान् 019c सम्मोहश्चापि तुमुलः कुरूणामभवत्तदा 020a कर्णदुर्योधनौ चापि निःश्वसेतां मुहुर्मुहुः 020c तथा निपतिते भीष्मे कौरवाणां धुरन्धरे 020e हाहाकारमभूत्सर्वं निर्मर्यादमवर्तत 021a दृष्ट्वा च पतितं भीष्मं पुत्रो दुःशासनस्तव 021c उत्तमं जवमास्थाय द्रोणानीकं समाद्रवत् 022a भ्रात्रा प्रस्थापितो वीरः स्वेनानीकेन दंशितः 022c प्रययौ पुरुषव्याघ्रः स्वसैन्यमभिचोदयन् 023a तमायान्तमभिप्रेक्ष्य कुरवः पर्यवारयन् 023c दुःशासनं महाराज किमयं वक्ष्यतीति वै 024a ततो द्रोणाय निहतं भीष्ममाचष्ट कौरवः 024c द्रोणस्तदप्रियं श्रुत्वा सहसा न्यपतद्रथात् 025a स सञ्ज्ञामुपलभ्याथ भारद्वाजः प्रतापवान् 025c निवारयामास तदा स्वान्यनीकानि मारिष 026a विनिवृत्तान्कुरून्दृष्ट्वा पाण्डवापि स्वसैनिकान् 026c दूतैः शीघ्राश्वसंयुक्तैरवहारमकारयन् 027a विनिवृत्तेषु सैन्येषु पारम्पर्येण सर्वशः 027c विमुक्तकवचाः सर्वे भीष्ममीयुर्नराधिपाः 028a व्युपारम्य ततो युद्धाद्योधाः शतसहस्रशः 028c उपतस्थुर्महात्मानं प्रजापतिमिवामराः 029a ते तु भीष्मं समासाद्य शयानं भरतर्षभम् 029c अभिवाद्य व्यतिष्ठन्त पाण्डवाः कुरुभिः सह 030a अथ पाण्डून्कुरूंश्चैव प्रणिपत्याग्रतः स्थितान् 030c अभ्यभाषत धर्मात्मा भीष्मः शान्तनवस्तदा 031a स्वागतं वो महाभागाः स्वागतं वो महारथाः 031c तुष्यामि दर्शनाच्चाहं युष्माकममरोपमाः 032a अभिनन्द्य स तानेवं शिरसा लम्बताब्रवीत् 032c शिरो मे लम्बतेऽत्यर्थमुपधानं प्रदीयताम् 033a ततो नृपाः समाजह्रुस्तनूनि च मृदूनि च 033c उपधानानि मुख्यानि नैच्छत्तानि पितामहः 034a अब्रवीच्च नरव्याघ्रः प्रहसन्निव तान्नृपान् 034c नैतानि वीरशय्यासु युक्तरूपाणि पार्थिवाः 035a ततो वीक्ष्य नरश्रेष्ठमभ्यभाषत पाण्डवम् 035c धनञ्जयं दीर्घबाहुं सर्वलोकमहारथम् 036a धनञ्जय महाबाहो शिरसो मेऽस्य लम्बतः 036c दीयतामुपधानं वै यद्युक्तमिह मन्यसे 037a स सन्न्यस्य महच्चापमभिवाद्य पितामहम् 037c नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत् 038a आज्ञापय कुरुश्रेष्ठ सर्वशस्त्रभृतां वर 038c प्रेष्योऽहं तव दुर्धर्ष क्रियतां किं पितामह 039a तमब्रवीच्छान्तनवः शिरो मे तात लम्बते 039c उपधानं कुरुश्रेष्ठ फल्गुनोपनयस्व मे 039e शयनस्यानुरूपं हि शीघ्रं वीर प्रयच्छ मे 040a त्वं हि पार्थ महाबाहो श्रेष्ठः सर्वधनुष्मताम् 040c क्षत्रधर्मस्य वेत्ता च बुद्धिसत्त्वगुणान्वितः 041a फल्गुनस्तु तथेत्युक्त्वा व्यवसायपुरोजवः 041c प्रगृह्यामन्त्र्य गाण्डीवं शरांश्च नतपर्वणः 042a अनुमान्य महात्मानं भरतानाममध्यमम् 042c त्रिभिस्तीक्ष्णैर्महावेगैरुदगृह्णाच्छिरः शरैः 043a अभिप्राये तु विदिते धर्मात्मा सव्यसाचिना 043c अतुष्यद्भरतश्रेष्ठो भीष्मो धर्मार्थतत्त्ववित् 044a उपधानेन दत्तेन प्रत्यनन्दद्धनञ्जयम् 044c कुन्तीपुत्रं युधां श्रेष्ठं सुहृदां प्रीतिवर्धनम् 045a अनुरूपं शयानस्य पाण्डवोपहितं त्वया 045c यद्यन्यथा प्रवर्तेथाः शपेयं त्वामहं रुषा 046a एवमेतन्महाबाहो धर्मेषु परिनिष्ठितम् 046c स्वप्तव्यं क्षत्रियेणाजौ शरतल्पगतेन वै 047a एवमुक्त्वा तु बीभत्सुं सर्वांस्तानब्रवीद्वचः 047c राज्ञश्च राजपुत्रांश्च पाण्डवेनाभि संस्थितान् 048a शयेयमस्यां शय्यायां यावदावर्तनं रवेः 048c ये तदा पारयिष्यन्ति ते मां द्रक्ष्यन्ति वै नृपाः 049a दिशं वैश्रवणाक्रान्तां यदा गन्ता दिवाकरः 049c अर्चिष्मान्प्रतपल्ँलोकान्रथेनोत्तमतेजसा 049e विमोक्ष्येऽहं तदा प्राणान्सुहृदः सुप्रियानपि 050a परिखा खन्यतामत्र ममावसदने नृपाः 050c उपासिष्ये विवस्वन्तमेवं शरशताचितः 050e उपारमध्वं सङ्ग्रामाद्वैराण्युत्सृज्य पार्थिवाः 051a उपातिष्ठन्नथो वैद्याः शल्योद्धरणकोविदाः 051c सर्वोपकरणैर्युक्ताः कुशलास्ते सुशिक्षिताः 052a तान्दृष्ट्वा जाह्नवीपुत्रः प्रोवाच वचनं तदा 052c दत्तदेया विसृज्यन्तां पूजयित्वा चिकित्सकाः 053a एवङ्गते न हीदानीं वैद्यैः कार्यमिहास्ति मे 053c क्षत्रधर्मप्रशस्तां हि प्राप्तोऽस्मि परमां गतिम् 054a नैष धर्मो महीपालाः शरतल्पगतस्य मे 054c एतैरेव शरैश्चाहं दग्धव्योऽन्ते नराधिपाः 055a तच्छ्रुत्वा वचनं तस्य पुत्रो दुर्योधनस्तव 055c वैद्यान्विसर्जयामास पूजयित्वा यथार्हतः 056a ततस्ते विस्मयं जग्मुर्नानाजनपदेश्वराः 056c स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः 057a उपधानं ततो दत्त्वा पितुस्तव जनेश्वर 057c सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः 058a उपगम्य महात्मानं शयानं शयने शुभे 058c तेऽभिवाद्य ततो भीष्मं कृत्वा चाभिप्रदक्षिणम् 059a विधाय रक्षां भीष्मस्य सर्व एव समन्ततः 059c वीराः स्वशिबिराण्येव ध्यायन्तः परमातुराः 059e निवेशायाभ्युपागच्छन्सायाह्ने रुधिरोक्षिताः 060a निविष्टान्पाण्डवांश्चापि प्रीयमाणान्महारथान् 060c भीष्मस्य पतनाद्धृष्टानुपगम्य महारथान् 060e उवाच यादवः काले धर्मपुत्रं युधिष्ठिरम् 061a दिष्ट्या जयसि कौरव्य दिष्ट्या भीष्मो निपातितः 061c अवध्यो मानुषैरेष सत्यसन्धो महारथः 062a अथ वा दैवतैः पार्थ सर्वशस्त्रास्त्रपारगः 062c त्वां तु चक्षुर्हणं प्राप्य दग्धो घोरेण चक्षुषा 063a एवमुक्तो धर्मराजः प्रत्युवाच जनार्दनम् 063c तव प्रसादाद्विजयः क्रोधात्तव पराजयः 063e त्वं हि नः शरणं कृष्ण भक्तानामभयङ्करः 064a अनाश्चर्यो जयस्तेषां येषां त्वमसि केशव 064c रक्षिता समरे नित्यं नित्यं चापि हिते रतः 064e सर्वथा त्वां समासाद्य नाश्चर्यमिति मे मतिः 065a एवमुक्तः प्रत्युवाच स्मयमानो जनार्दनः 065c त्वय्येवैतद्युक्तरूपं वचनं पार्थिवोत्तम