001 सञ्जय उवाच 001a एवं ते पाण्डवाः सर्वे पुरस्कृत्य शिखण्डिनम् 001c विव्यधुः समरे भीष्मं परिवार्य समन्ततः 002a शतघ्नीभिः सुघोराभिः पट्टिशैः सपरश्वधैः 002c मुद्गरैर्मुसलैः प्रासैः क्षेपणीभिश्च सर्वशः 003a शरैः कनकपुङ्खैश्च शक्तितोमरकम्पनैः 003c नाराचैर्वत्सदन्तैश्च भुशुण्डीभिश्च भारत 003e अताडयन्रणे भीष्मं सहिताः सर्वसृञ्जयाः 004a स विशीर्णतनुत्राणः पीडितो बहुभिस्तदा 004c विव्यथे नैव गाङ्गेयो भिद्यमानेषु मर्मसु 005a स दीप्तशरचापार्चिरस्त्रप्रसृतमारुतः 005c नेमिनिर्ह्रादसन्नादो महास्त्रोदयपावकः 006a चित्रचापमहाज्वालो वीरक्षयमहेन्धनः 006c युगान्ताग्निसमो भीष्मः परेषां समपद्यत 007a निपत्य रथसङ्घानामन्तरेण विनिःसृतः 007c दृश्यते स्म नरेन्द्राणां पुनर्मध्यगतश्चरन् 008a ततः पाञ्चालराजं च धृष्टकेतुमतीत्य च 008c पाण्डवानीकिनीमध्यमाससाद स वेगितः 009a ततः सात्यकिभीमौ च पाण्डवं च धनञ्जयम् 009c द्रुपदं च विराटं च धृष्टद्युम्नं च पार्षतम् 010a भीमघोषैर्महावेगैर्वैरिवारणभेदिभिः 010c षडेतान्षड्भिरानर्छद्भास्करप्रतिमैः शरैः 011a तस्य ते निशितान्बाणान्सन्निवार्य महारथाः 011c दशभिर्दशभिर्भीष्ममर्दयामासुरोजसा 012a शिखण्डी तु रणे बाणान्यान्मुमोच महाव्रते 012c ते भीष्मं विविशुस्तूर्णं स्वर्णपुङ्खाः शिलाशिताः 013a ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत 013c शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् 014a भीष्मस्य धनुषश्छेदं नामृष्यन्त महारथाः 014c द्रोणश्च कृतवर्मा च सैन्धवश्च जयद्रथः 015a भूरिश्रवाः शलः शल्यो भगदत्तस्तथैव च 015c सप्तैते परमक्रुद्धाः किरीटिनमभिद्रुताः 016a उत्तमास्त्राणि दिव्यानि दर्शयन्तो महारथाः 016c अभिपेतुर्भृशं क्रुद्धाश्छादयन्त स्म पाण्डवान् 017a तेषामापततां शब्दः शुश्रुवे फल्गुनं प्रति 017c उद्वृत्तानां यथा शब्दः समुद्राणां युगक्षये 018a हतानयत गृह्णीत युध्यतापि च कृन्तत 018c इत्यासीत्तुमुलः शब्दः फल्गुनस्य रथं प्रति 019a तं शब्दं तुमुलं श्रुत्वा पाण्डवानां महारथाः 019c अभ्यधावन्परीप्सन्तः फल्गुनं भरतर्षभ 020a सात्यकिर्भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 020c विराटद्रुपदौ चोभौ राक्षसश्च घटोत्कचः 021a अभिमन्युश्च सङ्क्रुद्धः सप्तैते क्रोधमूर्छिताः 021c समभ्यधावंस्त्वरिताश्चित्रकार्मुकधारिणः 022a तेषां समभवद्युद्धं तुमुलं लोमहर्षणम् 022c सङ्ग्रामे भरतश्रेष्ठ देवानां दानवैरिव 023a शिखण्डी तु रथश्रेष्ठो रक्ष्यमाणः किरीटिना 023c अविध्यद्दशभिर्भीष्मं छिन्नधन्वानमाहवे 023e सारथिं दशभिश्चास्य ध्वजं चैकेन चिच्छिदे 024a सोऽन्यत्कार्मुकमादाय गाङ्गेयो वेगवत्तरम् 024c तदप्यस्य शितैर्भल्लैस्त्रिभिश्चिच्छेद फल्गुनः 025a एवं स पाण्डवः क्रुद्ध आत्तमात्तं पुनः पुनः 025c धनुर्भीष्मस्य चिच्छेद सव्यसाची परन्तपः 026a स च्छिन्नधन्वा सङ्क्रुद्धः सृक्किणी परिसंलिहन् 026c शक्तिं जग्राह सङ्क्रुद्धो गिरीणामपि दारणीम् 026e तां च चिक्षेप सङ्क्रुद्धः फल्गुनस्य रथं प्रति 027a तामापतन्तीं सम्प्रेक्ष्य ज्वलन्तीमशनीमिव 027c समादत्त शितान्भल्लान्पञ्च पाण्डवनन्दनः 028a तस्य चिच्छेद तां शक्तिं पञ्चधा पञ्चभिः शरैः 028c सङ्क्रुद्धो भरतश्रेष्ठ भीष्मबाहुबलेरिताम् 029a सा पपात परिच्छिन्ना सङ्क्रुद्धेन किरीटिना 029c मेघवृन्दपरिभ्रष्टा विच्छिन्नेव शतह्रदा 030a छिन्नां तां शक्तिमालोक्य भीष्मः क्रोधसमन्वितः 030c अचिन्तयद्रणे वीरो बुद्ध्या परपुरञ्जयः 031a शक्तोऽहं धनुषैकेन निहन्तुं सर्वपाण्डवान् 031c यद्येषां न भवेद्गोप्ता विष्वक्सेनो महाबलः 032a कारणद्वयमास्थाय नाहं योत्स्यामि पाण्डवैः 032c अवध्यत्वाच्च पाण्डूनां स्त्रीभावाच्च शिखण्डिनः 033a पित्रा तुष्टेन मे पूर्वं यदा कालीमुदावहत् 033c स्वच्छन्दमरणं दत्तमवध्यत्वं रणे तथा 033e तस्मान्मृत्युमहं मन्ये प्राप्तकालमिवात्मनः 034a एवं ज्ञात्वा व्यवसितं भीष्मस्यामिततेजसः 034c ऋषयो वसवश्चैव वियत्स्था भीष्ममब्रुवन् 035a यत्ते व्यवसितं वीर अस्माकं सुमहत्प्रियम् 035c तत्कुरुष्व महेष्वास युद्धाद्बुद्धिं निवर्तय 036a तस्य वाक्यस्य निधने प्रादुरासीच्छिवोऽनिलः 036c अनुलोमः सुगन्धी च पृषतैश्च समन्वितः 037a देवदुन्दुभयश्चैव सम्प्रणेदुर्महास्वनाः 037c पपात पुष्पवृष्टिश्च भीष्मस्योपरि पार्थिव 038a न च तच्छुश्रुवे कश्चित्तेषां संवदतां नृप 038c ऋते भीष्मं महाबाहुं मां चापि मुनितेजसा 039a सम्भ्रमश्च महानासीत्त्रिदशानां विशाम्पते 039c पतिष्यति रथाद्भीष्मे सर्वलोकप्रिये तदा 040a इति देवगणानां च श्रुत्वा वाक्यं महामनाः 040c ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत 040e भिद्यमानः शितैर्बाणैः सर्वावरणभेदिभिः 041a शिखण्डी तु महाराज भरतानां पितामहम् 041c आजघानोरसि क्रुद्धो नवभिर्निशितैः शरैः 042a स तेनाभिहतः सङ्ख्ये भीष्मः कुरुपितामहः 042c नाकम्पत महाराज क्षितिकम्पे यथाचलः 043a ततः प्रहस्य बीभत्सुर्व्याक्षिपन्गाण्डिवं धनुः 043c गाङ्गेयं पञ्चविंशत्या क्षुद्रकाणां समर्पयत् 044a पुनः शरशतेनैनं त्वरमाणो धनञ्जयः 044c सर्वगात्रेषु सङ्क्रुद्धः सर्वमर्मस्वताडयत् 045a एवमन्यैरपि भृशं वध्यमानो महारणे 045c न चक्रुस्ते रुजं तस्य रुक्मपुङ्खाः शिलाशिताः 046a ततः किरीटी संरब्धो भीष्ममेवाभ्यवर्तत 046c शिखण्डिनं पुरस्कृत्य धनुश्चास्य समाच्छिनत् 047a अथैनं दशभिर्विद्ध्वा ध्वजमेकेन चिच्छिदे 047c सारथिं विशिखैश्चास्य दशभिः समकम्पयत् 048a सोऽन्यत्कार्मुकमादत्त गाङ्गेयो बलवत्तरम् 048c तदप्यस्य शितैर्भल्लैस्त्रिधा त्रिभिरुपानुदत् 048e निमेषान्तरमात्रेण आत्तमात्तं महारणे 049a एवमस्य धनूंष्याजौ चिच्छेद सुबहून्यपि 049c ततः शान्तनवो भीष्मो बीभत्सुं नाभ्यवर्तत 050a अथैनं पञ्चविंशत्या क्षुद्रकाणां समर्दयत् 050c सोऽतिविद्धो महेष्वासो दुःशासनमभाषत 051a एष पार्थो रणे क्रुद्धः पाण्डवानां महारथः 051c शरैरनेकसाहस्रैर्मामेवाभ्यसते रणे 052a न चैष शक्यः समरे जेतुं वज्रभृता अपि 052c न चापि सहिता वीरा देवदानवराक्षसाः 052e मां चैव शक्ता निर्जेतुं किमु मर्त्याः सुदुर्बलाः 053a एवं तयोः संवदतोः फल्गुनो निशितैः शरैः 053c शिखण्डिनं पुरस्कृत्य भीष्मं विव्याध संयुगे 054a ततो दुःशासनं भूयः स्मयमानोऽभ्यभाषत 054c अतिविद्धः शितैर्बाणैर्भृशं गाण्डीवधन्वना 055a वज्राशनिसमस्पर्शाः शिताग्राः सम्प्रवेशिताः 055c विमुक्ता अव्यवच्छिन्ना नेमे बाणाः शिखण्डिनः 056a निकृन्तमाना मर्माणि दृढावरणभेदिनः 056c मुसलानीव मे घ्नन्ति नेमे बाणाः शिखण्डिनः 057a ब्रह्मदण्डसमस्पर्शा वज्रवेगा दुरासदाः 057c मम प्राणानारुजन्ति नेमे बाणाः शिखण्डिनः 058a भुजगा इव सङ्क्रुद्धा लेलिहाना विषोल्बणाः 058c ममाविशन्ति मर्माणि नेमे बाणाः शिखण्डिनः 059a नाशयन्तीव मे प्राणान्यमदूता इवाहिताः 059c गदापरिघसंस्पर्शा नेमे बाणाः शिखण्डिनः 060a कृन्तन्ति मम गात्राणि माघमासे गवामिव 060c अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः 061a सर्वे ह्यपि न मे दुःखं कुर्युरन्ये नराधिपाः 061c वीरं गण्डीवधन्वानमृते जिष्णुं कपिध्वजम् 062a इति ब्रुवञ्शान्तनवो दिधक्षुरिव पाण्डवम् 062c सविष्फुलिङ्गां दीप्ताग्रां शक्तिं चिक्षेप भारत 063a तामस्य विशिखैश्छित्त्वा त्रिधा त्रिभिरपातयत् 063c पश्यतां कुरुवीराणां सर्वेषां तत्र भारत 064a चर्माथादत्त गाङ्गेयो जातरूपपरिष्कृतम् 064c खड्गं चान्यतरं प्रेप्सुर्मृत्योरग्रे जयाय वा 065a तस्य तच्छतधा चर्म व्यधमद्दंशितात्मनः 065c रथादनवरूढस्य तदद्भुतमिवाभवत् 066a विनद्योच्चैः सिंह इव स्वान्यनीकान्यचोदयत् 066c अभिद्रवत गाङ्गेयं मां वोऽस्तु भयमण्वपि 067a अथ ते तोमरैः प्रासैर्बाणौघैश्च समन्ततः 067c पट्टिशैश्च सनिस्त्रिंशैर्नानाप्रहरणैस्तथा 068a वत्सदन्तैश्च भल्लैश्च तमेकमभिदुद्रुवुः 068c सिंहनादस्ततो घोरः पाण्डवानामजायत 069a तथैव तव पुत्राश्च राजन्भीष्मजयैषिणः 069c तमेकमभ्यवर्तन्त सिंहनादांश्च नेदिरे 070a तत्रासीत्तुमुलं युद्धं तावकानां परैः सह 070c दशमेऽहनि राजेन्द्र भीष्मार्जुनसमागमे 071a आसीद्गाङ्ग इवावर्तो मुहूर्तमुदधेरिव 071c सैन्यानां युध्यमानानां निघ्नतामितरेतरम् 072a अगम्यरूपा पृथिवी शोणिताक्ता तदाभवत् 072c समं च विषमं चैव न प्राज्ञायत किञ्चन 073a योधानामयुतं हत्वा तस्मिन्स दशमेऽहनि 073c अतिष्ठदाहवे भीष्मो भिद्यमानेषु मर्मसु 074a ततः सेनामुखे तस्मिन्स्थितः पार्थो धनञ्जयः 074c मध्येन कुरुसैन्यानां द्रावयामास वाहिनीम् 075a वयं श्वेतहयाद्भीताः कुन्तीपुत्राद्धनञ्जयात् 075c पीड्यमानाः शितैः शस्त्रैः प्रद्रवाम महारणात् 076a सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः 076c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 077a शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह 077c द्वादशैते जनपदाः शरार्ता व्रणपीडिताः 077e सङ्ग्रामे न जहुर्भीष्मं युध्यमानं किरीटिना 078a ततस्तमेकं बहवः परिवार्य समन्ततः 078c परिकाल्य कुरून्सर्वाञ्शरवर्षैरवाकिरन् 079a निपातयत गृह्णीत विध्यताथ च कर्षत 079c इत्यासीत्तुमुलः शब्दो राजन्भीष्मरथं प्रति 080a अभिहत्य शरौघैस्तं शतशोऽथ सहस्रशः 080c न तस्यासीदनिर्भिन्नं गात्रेष्वङ्गुलमात्रकम् 081a एवं विभो तव पिता शरैर्विशकलीकृतः 081c शिताग्रैः फल्गुनेनाजौ प्राक्शिराः प्रापतद्रथात् 081e किञ्चिच्छेषे दिनकरे पुत्राणां तव पश्यताम् 082a हा हेति दिवि देवानां पार्थिवानां च सर्वशः 082c पतमाने रथाद्भीष्मे बभूव सुमहान्स्वनः 083a तं पतन्तमभिप्रेक्ष्य महात्मानं पितामहम् 083c सह भीष्मेण सर्वेषां प्रापतन्हृदयानि नः 084a स पपात महाबाहुर्वसुधामनुनादयन् 084c इन्द्रध्वज इवोत्सृष्टः केतुः सर्वधनुष्मताम् 084e धरणीं नास्पृशच्चापि शरसङ्घैः समाचितः 085a शरतल्पे महेष्वासं शयानं पुरुषर्षभम् 085c रथात्प्रपतितं चैनं दिव्यो भावः समाविशत् 086a अभ्यवर्षत पर्जन्यः प्राकम्पत च मेदिनी 086c पतन्स ददृशे चापि खर्वितं च दिवाकरम् 087a सञ्ज्ञां चैवालभद्वीरः कालं सञ्चिन्त्य भारत 087c अन्तरिक्षे च शुश्राव दिव्यां वाचं समन्ततः 088a कथं महात्मा गाङ्गेयः सर्वशस्त्रभृतां वरः 088c कालं कर्ता नरव्याघ्रः सम्प्राप्ते दक्षिणायने 089a स्थितोऽस्मीति च गाङ्गेयस्तच्छ्रुत्वा वाक्यमब्रवीत् 089c धारयामास च प्राणान्पतितोऽपि हि भूतले 089e उत्तरायणमन्विच्छन्भीष्मः कुरुपितामहः 090a तस्य तन्मतमाज्ञाय गङ्गा हिमवतः सुता 090c महर्षीन्हंसरूपेण प्रेषयामास तत्र वै 091a ततः सम्पातिनो हंसास्त्वरिता मानसौकसः 091c आजग्मुः सहिता द्रष्टुं भीष्मं कुरुपितामहम् 091e यत्र शेते नरश्रेष्ठः शरतल्पे पितामहः 092a ते तु भीष्मं समासाद्य मुनयो हंसरूपिणः 092c अपश्यञ्शरतल्पस्थं भीष्मं कुरुपितामहम् 093a ते तं दृष्ट्वा महात्मानं कृत्वा चापि प्रदक्षिणम् 093c गाङ्गेयं भरतश्रेष्ठं दक्षिणेन च भास्करम् 094a इतरेतरमामन्त्र्य प्राहुस्तत्र मनीषिणः 094c भीष्म एव महात्मा सन्संस्थाता दक्षिणायने 095a इत्युक्त्वा प्रस्थितान्हंसान्दक्षिणामभितो दिशम् 095c सम्प्रेक्ष्य वै महाबुद्धिश्चिन्तयित्वा च भारत 096a तानब्रवीच्छान्तनवो नाहं गन्ता कथञ्चन 096c दक्षिणावृत्त आदित्ये एतन्मे मनसि स्थितम् 097a गमिष्यामि स्वकं स्थानमासीद्यन्मे पुरातनम् 097c उदगावृत्त आदित्ये हंसाः सत्यं ब्रवीमि वः 098a धारयिष्याम्यहं प्राणानुत्तरायणकाङ्क्षया 098c ऐश्वर्यभूतः प्राणानामुत्सर्गे नियतो ह्यहम् 098e तस्मात्प्राणान्धारयिष्ये मुमूर्षुरुदगायने 099a यश्च दत्तो वरो मह्यं पित्रा तेन महात्मना 099c छन्दतो मृत्युरित्येवं तस्य चास्तु वरस्तथा 100a धारयिष्ये ततः प्राणानुत्सर्गे नियते सति 100c इत्युक्त्वा तांस्तदा हंसानशेत शरतल्पगः 101a एवं कुरूणां पतिते शृङ्गे भीष्मे महौजसि 101c पाण्डवाः सृञ्जयाश्चैव सिंहनादं प्रचक्रिरे 102a तस्मिन्हते महासत्त्वे भरतानाममध्यमे 102c न किञ्चित्प्रत्यपद्यन्त पुत्रास्ते भरतर्षभ 102e सम्मोहश्चैव तुमुलः कुरूणामभवत्तदा 103a नृपा दुर्योधनमुखा निःश्वस्य रुरुदुस्ततः 103c विषादाच्च चिरं कालमतिष्ठन्विगतेन्द्रियाः 104a दध्युश्चैव महाराज न युद्धे दधिरे मनः 104c ऊरुग्राहगृहीताश्च नाभ्यधावन्त पाण्डवान् 105a अवध्ये शन्तनोः पुत्रे हते भीष्मे महौजसि 105c अभावः सुमहान्राजन्कुरूनागादतन्द्रितः 106a हतप्रवीराश्च वयं निकृत्ताश्च शितैः शरैः 106c कर्तव्यं नाभिजानीमो निर्जिताः सव्यसाचिना 107a पाण्डवास्तु जयं लब्ध्वा परत्र च परां गतिम् 107c सर्वे दध्मुर्महाशङ्खाञ्शूराः परिघबाहवः 107e सोमकाश्च सपञ्चालाः प्राहृष्यन्त जनेश्वर 108a ततस्तूर्यसहस्रेषु नदत्सु सुमहाबलः 108c आस्फोटयामास भृशं भीमसेनो ननर्त च 109a सेनयोरुभयोश्चापि गाङ्गेये विनिपातिते 109c सन्न्यस्य वीराः शस्त्राणि प्राध्यायन्त समन्ततः 110a प्राक्रोशन्प्रापतंश्चान्ये जग्मुर्मोहं तथापरे 110c क्षत्रं चान्येऽभ्यनिन्दन्त भीष्मं चैकेऽभ्यपूजयन् 111a ऋषयः पितरश्चैव प्रशशंसुर्महाव्रतम् 111c भरतानां च ये पूर्वे ते चैनं प्रशशंसिरे 112a महोपनिषदं चैव योगमास्थाय वीर्यवान् 112c जपञ्शान्तनवो धीमान्कालाकाङ्क्षी स्थितोऽभवत्