001 सञ्जय उवाच 001a एवं व्यूढेष्वनीकेषु भूयिष्ठमनुवर्तिषु 001c ब्रह्मलोकपराः सर्वे समपद्यन्त भारत 002a न ह्यनीकमनीकेन समसज्जत सङ्कुले 002c न रथा रथिभिः सार्धं न पदाताः पदातिभिः 003a अश्वा नाश्वैरयुध्यन्त न गजा गजयोधिभिः 003c महान्व्यतिकरो रौद्रः सेनयोः समपद्यत 004a नरनागरथेष्वेवं व्यवकीर्णेषु सर्वशः 004c क्षये तस्मिन्महारौद्रे निर्विशेषमजायत 005a ततः शल्यः कृपश्चैव चित्रसेनश्च भारत 005c दुःशासनो विकर्णश्च रथानास्थाय सत्वराः 005e पाण्डवानां रणे शूरा ध्वजिनीं समकम्पयन् 006a सा वध्यमाना समरे पाण्डुसेना महात्मभिः 006c त्रातारं नाध्यगच्छद्वै मज्जमानेव नौर्जले 007a यथा हि शैशिरः कालो गवां मर्माणि कृन्तति 007c तथा पाण्डुसुतानां वै भीष्मो मर्माण्यकृन्तत 008a अतीव तव सैन्यस्य पार्थेन च महात्मना 008c नगमेघप्रतीकाशाः पातिता बहुधा गजाः 009a मृद्यमानाश्च दृश्यन्ते पार्थेन नरयूथपाः 009c इषुभिस्ताड्यमानाश्च नाराचैश्च सहस्रशः 010a पेतुरार्तस्वरं कृत्वा तत्र तत्र महागजाः 010c आबद्धाभरणैः कायैर्निहतानां महात्मनाम् 011a छन्नमायोधनं रेजे शिरोभिश्च सकुण्डलैः 011c तस्मिन्नतिमहाभीमे राजन्वीरवरक्षये 011e भीष्मे च युधि विक्रान्ते पाण्डवे च धनञ्जये 012a ते पराक्रान्तमालोक्य राजन्युधि पितामहम् 012c न न्यवर्तन्त कौरव्या ब्रह्मलोकपुरस्कृताः 013a इच्छन्तो निधनं युद्धे स्वर्गं कृत्वा परायणम् 013c पाण्डवानभ्यवर्तन्त तस्मिन्वीरवरक्षये 014a पाण्डवापि महाराज स्मरन्तो विविधान्बहून् 014c क्लेशान्कृतान्सपुत्रेण त्वया पूर्वं नराधिप 015a भयं त्यक्त्वा रणे शूरा ब्रह्मलोकपुरस्कृताः 015c तावकांस्तव पुत्रांश्च योधयन्ति स्म हृष्टवत् 016a सेनापतिस्तु समरे प्राह सेनां महारथः 016c अभिद्रवत गाङ्गेयं सोमकाः सृञ्जयैः सह 017a सेनापतिवचः श्रुत्वा सोमकाः सह सृञ्जयैः 017c अभ्यद्रवन्त गाङ्गेयं शस्त्रवृष्ट्या समन्ततः 018a वध्यमानस्ततो राजन्पिता शान्तनवस्तव 018c अमर्षवशमापन्नो योधयामास सृञ्जयान् 019a तस्य कीर्तिमतस्तात पुरा रामेण धीमता 019c सम्प्रदत्तास्त्रशिक्षा वै परानीकविनाशिनी 020a स तां शिक्षामधिष्ठाय कृत्वा परबलक्षयम् 020c अहन्यहनि पार्थानां वृद्धः कुरुपितामहः 020e भीष्मो दश सहस्राणि जघान परवीरहा 021a तस्मिंस्तु दिवसे प्राप्ते दशमे भरतर्षभ 021c भीष्मेणैकेन मत्स्येषु पाञ्चालेषु च संयुगे 021e गजाश्वममितं हत्वा हताः सप्त महारथाः 022a हत्वा पञ्च सहस्राणि रथिनां प्रपितामहः 022c नराणां च महायुद्धे सहस्राणि चतुर्दश 023a तथा दन्तिसहस्रं च हयानामयुतं पुनः 023c शिक्षाबलेन निहतं पित्रा तव विशाम्पते 024a ततः सर्वमहीपानां क्षोभयित्वा वरूथिनीम् 024c विराटस्य प्रियो भ्राता शतानीको निपातितः 025a शतानीकं च समरे हत्वा भीष्मः प्रतापवान् 025c सहस्राणि महाराज राज्ञां भल्लैर्न्यपातयत् 026a ये च केचन पार्थानामभियाता धनञ्जयम् 026c राजानो भीष्ममासाद्य गतास्ते यमसादनम् 027a एवं दश दिशो भीष्मः शरजालैः समन्ततः 027c अतीत्य सेनां पार्थानामवतस्थे चमूमुखे 028a स कृत्वा सुमहत्कर्म तस्मिन्वै दशमेऽहनि 028c सेनयोरन्तरे तिष्ठन्प्रगृहीतशरासनः 029a न चैनं पार्थिवा राजञ्शेकुः केचिन्निरीक्षितुम् 029c मध्यं प्राप्तं यथा ग्रीष्मे तपन्तं भास्करं दिवि 030a यथा दैत्यचमूं शक्रस्तापयामास संयुगे 030c तथा भीष्मः पाण्डवेयांस्तापयामास भारत 031a तथा च तं पराक्रान्तमालोक्य मधुसूदनः 031c उवाच देवकीपुत्रः प्रीयमाणो धनञ्जयम् 032a एष शान्तनवो भीष्मः सेनयोरन्तरे स्थितः 032c नानिहत्य बलादेनं विजयस्ते भविष्यति 033a यत्तः संस्तम्भयस्वैनं यत्रैषा भिद्यते चमूः 033c न हि भीष्मशरानन्यः सोढुमुत्सहते विभो 034a ततस्तस्मिन्क्षणे राजंश्चोदितो वानरध्वजः 034c सध्वजं सरथं साश्वं भीष्ममन्तर्दधे शरैः 035a स चापि कुरुमुख्यानामृषभः पाण्डवेरितान् 035c शरव्रातैः शरव्रातान्बहुधा विदुधाव तान् 036a तेन पाञ्चालराजश्च धृष्टकेतुश्च वीर्यवान् 036c पाण्डवो भीमसेनश्च धृष्टद्युम्नश्च पार्षतः 037a यमौ च चेकितानश्च केकयाः पञ्च चैव ह 037c सात्यकिश्च महाराज सौभद्रोऽथ घटोत्कचः 038a द्रौपदेयाः शिखण्डी च कुन्तिभोजश्च वीर्यवान् 038c सुशर्मा च विराटश्च पाण्डवेया महाबलाः 039a एते चान्ये च बहवः पीडिता भीष्मसायकैः 039c समुद्धृताः फल्गुनेन निमग्नाः शोकसागरे 040a ततः शिखण्डी वेगेन प्रगृह्य परमायुधम् 040c भीष्ममेवाभिदुद्राव रक्ष्यमाणः किरीटिना 041a ततोऽस्यानुचरान्हत्वा सर्वान्रणविभागवित् 041c भीष्ममेवाभिदुद्राव बीभत्सुरपराजितः 042a सात्यकिश्चेकितानश्च धृष्टद्युम्नश्च पार्षतः 042c विराटो द्रुपदश्चैव माद्रीपुत्रौ च पाण्डवौ 042e दुद्रुवुर्भीष्ममेवाजौ रक्षिता दृढधन्वना 043a अभिमन्युश्च समरे द्रौपद्याः पञ्च चात्मजाः 043c दुद्रुवुः समरे भीष्मं समुद्यतमहायुधाः 044a ते सर्वे दृढधन्वानः संयुगेष्वपलायिनः 044c बहुधा भीष्ममानर्छन्मार्गणैः कृतमार्गणाः 045a विधूय तान्बाणगणान्ये मुक्ताः पार्थिवोत्तमैः 045c पाण्डवानामदीनात्मा व्यगाहत वरूथिनीम् 045e कृत्वा शरविघातं च क्रीडन्निव पितामहः 046a नाभिसन्धत्त पाञ्चाल्यं स्मयमानो मुहुर्मुहुः 046c स्त्रीत्वं तस्यानुसंस्मृत्य भीष्मो बाणाञ्शिखण्डिनः 046e जघान द्रुपदानीके रथान्सप्त महारथः 047a ततः किलकिलाशब्दः क्षणेन समपद्यत 047c मत्स्यपाञ्चालचेदीनां तमेकमभिधावताम् 048a ते वराश्वरथव्रातैर्वारणैः सपदातिभिः 048c तमेकं छादयामासुर्मेघा इव दिवाकरम् 048e भीष्मं भागीरथीपुत्रं प्रतपन्तं रणे रिपून् 049a ततस्तस्य च तेषां च युद्धे देवासुरोपमे 049c किरीटी भीष्ममानर्छत्पुरस्कृत्य शिखण्डिनम्