001 सञ्जय उवाच 001a अभिमन्युर्महाराज तव पुत्रमयोधयत् 001c महत्या सेनया युक्तो भीष्महेतोः पराक्रमी 002a दुर्योधनो रणे कार्ष्णिं नवभिर्नतपर्वभिः 002c आजघान रणे क्रुद्धः पुनश्चैनं त्रिभिः शरैः 003a तस्य शक्तिं रणे कार्ष्णिर्मृत्योर्घोरामिव स्वसाम् 003c प्रेषयामास सङ्क्रुद्धो दुर्योधनरथं प्रति 004a तामापतन्तीं सहसा घोररूपां विशाम्पते 004c द्विधा चिच्छेद ते पुत्रः क्षुरप्रेण महारथः 005a तां शक्तिं पतितां दृष्ट्वा कार्ष्णिः परमकोपनः 005c दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 006a पुनश्चैनं शरैर्घोरैराजघान स्तनान्तरे 006c दशभिर्भरतश्रेष्ठ दुर्योधनममर्षणम् 007a तद्युद्धमभवद्घोरं चित्ररूपं च भारत 007c ईक्षितृप्रीतिजननं सर्वपार्थिवपूजितम् 008a भीष्मस्य निधनार्थाय पार्थस्य विजयाय च 008c युयुधाते रणे वीरौ सौभद्रकुरुपुङ्गवौ 009a सात्यकिं रभसं युद्धे द्रौणिर्ब्राह्मणपुङ्गवः 009c आजघानोरसि क्रुद्धो नाराचेन परन्तपः 010a शैनेयोऽपि गुरोः पुत्रं सर्वमर्मसु भारत 010c अताडयदमेयात्मा नवभिः कङ्कपत्रिभिः 011a अश्वत्थामा तु समरे सात्यकिं नवभिः शरैः 011c त्रिंशता च पुनस्तूर्णं बाह्वोरुरसि चार्पयत् 012a सोऽतिविद्धो महेष्वासो द्रोणपुत्रेण सात्वतः 012c द्रोणपुत्रं त्रिभिर्बाणैराजघान महायशाः 013a पौरवो धृष्टकेतुं च शरैरासाद्य संयुगे 013c बहुधा दारयां चक्रे महेष्वासं महारथम् 014a तथैव पौरवं युद्धे धृष्टकेतुर्महारथः 014c त्रिंशता निशितैर्बाणैर्विव्याध सुमहाबलः 015a पौरवस्तु धनुश्छित्त्वा धृष्टकेतोर्महारथः 015c ननाद बलवन्नादं विव्याध दशभिः शरैः 016a सोऽन्यत्कार्मुकमादाय पौरवं निशितैः शरैः 016c आजघान महाराज त्रिसप्तत्या शिलीमुखैः 017a तौ तु तत्र महेष्वासौ महामात्रौ महारथौ 017c महता शरवर्षेण परस्परमवर्षताम् 018a अन्योन्यस्य धनुश्छित्त्वा हयान्हत्वा च भारत 018c विरथावसियुद्धाय सङ्गतौ तौ महारथौ 019a आर्षभे चर्मणी चित्रे शतचन्द्रपरिष्कृते 019c तारकाशतचित्रौ च निस्त्रिंशौ सुमहाप्रभौ 020a प्रगृह्य विमलौ राजंस्तावन्योन्यमभिद्रुतौ 020c वाशितासङ्गमे यत्तौ सिंहाविव महावने 021a मण्डलानि विचित्राणि गतप्रत्यागतानि च 021c चेरतुर्दर्शयन्तौ च प्रार्थयन्तौ परस्परम् 022a पौरवो धृष्टकेतुं तु शङ्खदेशे महासिना 022c ताडयामास सङ्क्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् 023a चेदिराजोऽपि समरे पौरवं पुरुषर्षभम् 023c आजघान शिताग्रेण जत्रुदेशे महासिना 024a तावन्योन्यं महाराज समासाद्य महाहवे 024c अन्योन्यवेगाभिहतौ निपेततुररिन्दमौ 025a ततः स्वरथमारोप्य पौरवं तनयस्तव 025c जयत्सेनो रथे राजन्नपोवाह रणाजिरात् 026a धृष्टकेतुं च समरे माद्रीपुत्रः परन्तपः 026c अपोवाह रणे राजन्सहदेवः प्रतापवान् 027a चित्रसेनः सुशर्माणं विद्ध्वा नवभिराशुगैः 027c पुनर्विव्याध तं षष्ट्या पुनश्च नवभिः शरैः 028a सुशर्मा तु रणे क्रुद्धस्तव पुत्रं विशाम्पते 028c दशभिर्दशभिश्चैव विव्याध निशितैः शरैः 029a चित्रसेनश्च तं राजंस्त्रिंशता नतपर्वणाम् 029c आजघान रणे क्रुद्धः स च तं प्रत्यविध्यत 029e भीष्मस्य समरे राजन्यशो मानं च वर्धयन् 030a सौभद्रो राजपुत्रं तु बृहद्बलमयोधयत् 030c आर्जुनिं कोसलेन्द्रस्तु विद्ध्वा पञ्चभिरायसैः 030e पुनर्विव्याध विंशत्या शरैः सन्नतपर्वभिः 031a बृहद्बलं च सौभद्रो विद्ध्वा नवभिरायसैः 031c नाकम्पयत सङ्ग्रामे विव्याध च पुनः पुनः 032a कौसल्यस्य पुनश्चापि धनुश्चिच्छेद फाल्गुणिः 032c आजघान शरैश्चैव त्रिंशता कङ्कपत्रिभिः 033a सोऽन्यत्कार्मुकमादाय राजपुत्रो बृहद्बलः 033c फाल्गुनिं समरे क्रुद्धो विव्याध बहुभिः शरैः 034a तयोर्युद्धं समभवद्भीष्महेतोः परन्तप 034c संरब्धयोर्महाराज समरे चित्रयोधिनोः 034e यथा देवासुरे युद्धे मयवासवयोरभूत् 035a भीमसेनो गजानीकं योधयन्बह्वशोभत 035c यथा शक्रो वज्रपाणिर्दारयन्पर्वतोत्तमान् 036a ते वध्यमाना भीमेन मातङ्गा गिरिसन्निभाः 036c निपेतुरुर्व्यां सहिता नादयन्तो वसुन्धराम् 037a गिरिमात्रा हि ते नागा भिन्नाञ्जनचयोपमाः 037c विरेजुर्वसुधां प्राप्य विकीर्णा इव पर्वताः 038a युधिष्ठिरो महेष्वासो मद्रराजानमाहवे 038c महत्या सेनया गुप्तं पीडयामास सङ्गतः 039a मद्रेश्वरश्च समरे धर्मपुत्रं महारथम् 039c पीडयामास संरब्धो भीष्महेतोः पराक्रमी 040a विराटं सैन्धवो राजा विद्ध्वा सन्नतपर्वभिः 040c नवभिः सायकैस्तीक्ष्णैस्त्रिंशता पुनरर्दयत् 041a विराटश्च महाराज सैन्धवं वाहिनीमुखे 041c त्रिंशता निशितैर्बाणैराजघान स्तनान्तरे 042a चित्रकार्मुकनिस्त्रिंशौ चित्रवर्मायुधध्वजौ 042c रेजतुश्चित्ररूपौ तौ सङ्ग्रामे मत्स्यसैन्धवौ 043a द्रोणः पाञ्चालपुत्रेण समागम्य महारणे 043c महासमुदयं चक्रे शरैः सन्नतपर्वभिः 044a ततो द्रोणो महाराज पार्षतस्य महद्धनुः 044c छित्त्वा पञ्चाशतेषूणां पार्षतं समविध्यत 045a सोऽन्यत्कार्मुकमादाय पार्षतः परवीरहा 045c द्रोणस्य मिषतो युद्धे प्रेषयामास सायकान् 046a ताञ्शराञ्शरसङ्घैस्तु सन्निवार्य महारथः 046c द्रोणो द्रुपदपुत्राय प्राहिणोत्पञ्च सायकान् 047a तस्य क्रुद्धो महाराज पार्षतः परवीरहा 047c द्रोणाय चिक्षेप गदां यमदण्डोपमां रणे 048a तामापतन्तीं सहसा हेमपट्टविभूषिताम् 048c शरैः पञ्चाशता द्रोणो वारयामास संयुगे 049a सा छिन्ना बहुधा राजन्द्रोणचापच्युतैः शरैः 049c चूर्णीकृता विशीर्यन्ती पपात वसुधातले 050a गदां विनिहतां दृष्ट्वा पार्षतः शत्रुसूदनः 050c द्रोणाय शक्तिं चिक्षेप सर्वपारशवीं शुभाम् 051a तां द्रोणो नवभिर्बाणैश्चिच्छेद युधि भारत 051c पार्षतं च महेष्वासं पीडयामास संयुगे 052a एवमेतन्महद्युद्धं द्रोणपार्षतयोरभूत् 052c भीष्मं प्रति महाराज घोररूपं भयानकम् 053a अर्जुनः प्राप्य गाङ्गेयं पीडयन्निशितैः शरैः 053c अभ्यद्रवत संयत्तं वने मत्तमिव द्विपम् 054a प्रत्युद्ययौ च तं पार्थं भगदत्तः प्रतापवान् 054c त्रिधा भिन्नेन नागेन मदान्धेन महाबलः 055a तमापतन्तं सहसा महेन्द्रगजसन्निभम् 055c परं यत्नं समास्थाय बीभत्सुः प्रत्यपद्यत 056a ततो गजगतो राजा भगदत्तः प्रतापवान् 056c अर्जुनं शरवर्षेण वारयामास संयुगे 057a अर्जुनस्तु रणे नागमायान्तं रजतोपमम् 057c विमलैरायसैस्तीक्ष्णैरविध्यत महारणे 058a शिखण्डिनं च कौन्तेयो याहि याहीत्यचोदयत् 058c भीष्मं प्रति महाराज जह्येनमिति चाब्रवीत् 059a प्राग्ज्योतिषस्ततो हित्वा पाण्डवं पाण्डुपूर्वज 059c प्रययौ त्वरितो राजन्द्रुपदस्य रथं प्रति 060a ततोऽर्जुनो महाराज भीष्ममभ्यद्रवद्द्रुतम् 060c शिखण्डिनं पुरस्कृत्य ततो युद्धमवर्तत 061a ततस्ते तावकाः शूराः पाण्डवं रभसं रणे 061c सर्वेऽभ्यधावन्क्रोशन्तस्तदद्भुतमिवाभवत् 062a नानाविधान्यनीकानि पुत्राणां ते जनाधिप 062c अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः 063a शिखण्डी तु समासाद्य भरतानां पितामहम् 063c इषुभिस्तूर्णमव्यग्रो बहुभिः स समाचिनोत् 064a सोमकांश्च रणे भीष्मो जघ्ने पार्थपदानुगान् 064c न्यवारयत सैन्यं च पाण्डवानां महारथः 065a रथाग्न्यगारश्चापार्चिरसिशक्तिगदेन्धनः 065c शरसङ्घमहाज्वालः क्षत्रियान्समरेऽदहत् 066a यथा हि सुमहानग्निः कक्षे चरति सानिलः 066c तथा जज्वाल भीष्मोऽपि दिव्यान्यस्त्राण्युदीरयन् 067a सुवर्णपुङ्खैरिषुभिः शितैः सन्नतपर्वभिः 067c नादयन्स दिशो भीष्मः प्रदिशश्च महायशाः 068a पातयन्रथिनो राजन्गजांश्च सह सादिभिः 068c मुण्डतालवनानीव चकार स रथव्रजान् 069a निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे 069c चकार स तदा भीष्मः सर्वशस्त्रभृतां वरः 070a तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः 070c निशम्य सर्वतो राजन्समकम्पन्त सैनिकाः 071a अमोघा ह्यपतन्बाणाः पितुस्ते मनुजेश्वर 071c नासज्जन्त शरीरेषु भीष्मचापच्युताः शराः 072a निर्मनुष्यान्रथान्राजन्सुयुक्ताञ्जवनैर्हयैः 072c वातायमानान्पश्याम ह्रियमाणान्विशां पते 073a चेदिकाशिकरूषाणां सहस्राणि चतुर्दश 073c महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः 074a अपरावर्तिनः शूराः सुवर्णविकृतध्वजाः 074c सङ्ग्रामे भीष्ममासाद्य सवाजिरथकुञ्जराः 074e जग्मुस्ते परलोकाय व्यादितास्यमिवान्तकम् 075a न तत्रासीन्महाराज सोमकानां महारथः 075c यः सम्प्राप्य रणे भीष्मं जीविते स्म मनो दधे 076a तांश्च सर्वान्रणे योधान्प्रेतराजपुरं प्रति 076c नीतानमन्यन्त जना दृष्ट्वा भीष्मस्य विक्रमम् 077a न कश्चिदेनं समरे प्रत्युद्याति महारथः 077c ऋते पाण्डुसुतं वीरं श्वेताश्वं कृष्णसारथिम् 077e शिखण्डिनं च समरे पाञ्चाल्यममितौजसम् 078a शिखण्डी तु रणे भीष्ममासाद्य भरतर्षभ 078c दशभिर्दशभिर्बाणैराजघान महाहवे 079a शिखण्डिनं तु गाङ्गेयः क्रोधदीप्तेन चक्षुषा 079c अवैक्षत कटाक्षेण निर्दहन्निव भारत 080a स्त्रीत्वं तत्संस्मरन्राजन्सर्वलोकस्य पश्यतः 080c न जघान रणे भीष्मः स च तं नावबुद्धवान् 081a अर्जुनस्तु महाराज शिखण्डिनमभाषत 081c अभित्वरस्व त्वरितो जहि चैनं पितामहम् 082a किं ते विवक्षया वीर जहि भीष्मं महारथम् 082c न ह्यन्यमनुपश्यामि कञ्चिद्यौधिष्ठिरे बले 083a यः शक्तः समरे भीष्मं योधयेत पितामहम् 083c ऋते त्वां पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते 084a एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ 084c शरैर्नानाविधैस्तूर्णं पितामहमुपाद्रवत् 085a अचिन्तयित्वा तान्बाणान्पिता देवव्रतस्तव 085c अर्जुनं समरे क्रुद्धं वारयामास सायकैः 086a तथैव च चमूं सर्वां पाण्डवानां महारथः 086c अप्रैषीत्समरे तीक्ष्णैः परलोकाय मारिष 087a तथैव पाण्डवा राजन्सैन्येन महता वृताः 087c भीष्मं प्रच्छादयामासुर्मेघा इव दिवाकरम् 088a स समन्तात्परिवृतो भारतो भरतर्षभ 088c निर्ददाह रणे शूरान्वनं वह्निरिव ज्वलन् 089a तत्राद्भुतमपश्याम तव पुत्रस्य पौरुषम् 089c अयोधयत यत्पार्थं जुगोप च यतव्रतम् 090a कर्मणा तेन समरे तव पुत्रस्य धन्विनः 090c दुःशासनस्य तुतुषुः सर्वे लोका महात्मनः 091a यदेकः समरे पार्थान्सानुगान्समयोधयत् 091c न चैनं पाण्डवा युद्धे वायरामासुरुल्बणम् 092a दुःशासनेन समरे रथिनो विरथीकृताः 092c सादिनश्च महाराज दन्तिनश्च महाबलाः 093a विनिर्भिन्नाः शरैस्तीक्ष्णैर्निपेतुर्धरणीतले 093c शरातुरास्तथैवान्ये दन्तिनो विद्रुता दिशः 094a यथाग्निरिन्धनं प्राप्य ज्वलेद्दीप्तार्चिरुल्बणः 094c तथा जज्वाल पुत्रस्ते पाण्डवान्वै विनिर्दहन् 095a तं भारतमहामात्रं पाण्डवानां महारथः 095c जेतुं नोत्सहते कश्चिन्नाप्युद्यातुं कथञ्चन 095e ऋते महेन्द्रतनयं श्वेताश्वं कृष्णसारथिम् 096a स हि तं समरे राजन्विजित्य विजयोऽर्जुनः 096c भीष्ममेवाभिदुद्राव सर्वसैन्यस्य पश्यतः 097a विजितस्तव पुत्रोऽपि भीष्मबाहुव्यपाश्रयः 097c पुनः पुनः समाश्वस्य प्रायुध्यत रणोत्कटः 097e अर्जुनं च रणे राजन्योधयन्स व्यराजत 098a शिखण्डी तु रणे राजन्विव्याधैव पितामहम् 098c शरैरशनिसंस्पर्शैस्तथा सर्पविषोपमैः 099a न च तेऽस्य रुजं चक्रुः पितुस्तव जनेश्वर 099c स्मयमानश्च गाङ्गेयस्तान्बाणाञ्जगृहे तदा 100a उष्णार्तो हि नरो यद्वज्जलधाराः प्रतीच्छति 100c तथा जग्राह गाङ्गेयः शरधाराः शिखण्डिनः 101a तं क्षत्रिया महाराज ददृशुर्घोरमाहवे 101c भीष्मं दहन्तं सैन्यानि पाण्डवानां महात्मनाम् 102a ततोऽब्रवीत्तव सुतः सर्वसैन्यानि मारिष 102c अभिद्रवत सङ्ग्रामे फल्गुनं सर्वतो रथैः 103a भीष्मो वः समरे सर्वान्पालयिष्यति धर्मवित् 103c ते भयं सुमहत्त्वक्त्वा पाण्डवान्प्रतियुध्यत 104a एष तालेन दीप्तेन भीष्मस्तिष्ठति पालयन् 104c सर्वेषां धार्तराष्ट्राणां रणे शर्म च वर्म च 105a त्रिदशापि समुद्युक्ता नालं भीष्मं समासितुम् 105c किमु पार्था महात्मानं मर्त्यभूतास्तथाबलाः 105e तस्माद्द्रवत हे योधाः फल्गुनं प्राप्य संयुगे 106a अहमद्य रणे यत्तो योधयिष्यामि फल्गुनम् 106c सहितः सर्वतो यत्तैर्भवद्भिर्वसुधाधिपाः 107a तच्छ्रुत्वा तु वचो राजंस्तव पुत्रस्य धन्विनः 107c अर्जुनं प्रति संयत्ता बलवन्तो महारथाः 108a ते विदेहाः कलिङ्गाश्च दाशेरकगणैः सह 108c अभिपेतुर्निषादाश्च सौवीराश्च महारणे 109a बाह्लिका दरदाश्चैव प्राच्योदीच्याश्च मालवाः 109c अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः 110a शाल्वाश्रयास्त्रिगर्ताश्च अम्बष्ठाः केकयैः सह 110c अभिपेतू रणे पार्थं पतङ्गा इव पावकम् 111a स तान्सर्वान्सहानीकान्महाराज महारथान् 111c दिव्यान्यस्त्राणि सञ्चिन्त्य प्रसन्धाय धनञ्जयः 112a स तैरस्त्रैर्महावेगैर्ददाहाशु महाबलः 112c शरप्रतापैर्बीभत्सुः पतङ्गानिव पावकः 113a तस्य बाणसहस्राणि सृजतो दृढधन्विनः 113c दीप्यमानमिवाकाशे गाण्डीवं समदृश्यत 114a ते शरार्ता महाराज विप्रकीर्णरथध्वजाः 114c नाभ्यवर्तन्त राजानः सहिता वानरध्वजम् 115a सध्वजा रथिनः पेतुर्हयारोहा हयैः सह 115c गजाः सह गजारोहैः किरीटिशरताडिताः 116a ततोऽर्जुनभुजोत्सृष्टैरावृतासीद्वसुन्धरा 116c विद्रवद्भिश्च बहुधा बलै राज्ञां समन्ततः 117a अथ पार्थो महाबाहुर्द्रावयित्वा वरूथिनीम् 117c दुःशासनाय समरे प्रेषयामास सायकान् 118a ते तु भित्त्वा तव सुतं दुःशासनमयोमुखाः 118c धरणीं विविशुः सर्वे वल्मीकमिव पन्नगाः 118e हयांश्चास्य ततो जघ्ने सारथिं च न्यपातयत् 119a विविंशतिं च विंशत्या विरथं कृतवान्प्रभो 119c आजघान भृशं चैव पञ्चभिर्नतपर्वभिः 120a कृपं शल्यं विकर्णञ्च विद्ध्वा बहुभिरायसैः 120c चकार विरथांश्चैव कौन्तेयः श्वेतवाहनः 121a एवं ते विरथाः पञ्च कृपः शल्यश्च मारिष 121c दुःशासनो विकर्णश्च तथैव च विविंशतिः 121e सम्प्राद्रवन्त समरे निर्जिताः सव्यसाचिना 122a पूर्वाह्णे तु तथा राजन्पराजित्य महारथान् 122c प्रजज्वाल रणे पार्थो विधूम इव पावकः 123a तथैव शरवर्षेण भास्करो रश्मिवानिव 123c अन्यानपि महाराज पातयामास पार्थिवान् 124a पराङ्मुखीकृत्य तदा शरवर्षैर्महारथान् 124c प्रावर्तयत सङ्ग्रामे शोणितोदां महानदीम् 124e मध्येन कुरुसैन्यानां पाण्डवानां च भारत 125a गजाश्च रथसङ्घाश्च बहुधा रथिभिर्हताः 125c रथाश्च निहता नागैर्नागा हयपदातिभिः 126a अन्तरा छिध्यमानानि शरीराणि शिरांसि च 126c निपेतुर्दिक्षु सर्वासु गजाश्वरथयोधिनाम् 127a छन्नमायोधनं रेजे कुण्डलाङ्गदधारिभिः 127c पतितैः पात्यमानैश्च राजपुत्रैर्महारथैः 128a रथनेमिनिकृत्ताश्च गजैश्चैवावपोथिताः 128c पादाताश्चाप्यदृश्यन्त साश्वाः सहयसादिनः 129a गजाश्वरथसङ्घाश्च परिपेतुः समन्ततः 129c विशीर्णाश्च रथा भूमौ भग्नचक्रयुगध्वजाः 130a तद्गजाश्वरथौघानां रुधिरेण समुक्षितम् 130c छन्नमायोधनं रेजे रक्ताभ्रमिव शारदम् 131a श्वानः काकाश्च गृध्राश्च वृका गोमायुभिः सह 131c प्रणेदुर्भक्ष्यमासाद्य विकृताश्च मृगद्विजाः 132a ववुर्बहुविधाश्चैव दिक्षु सर्वासु मारुताः 132c दृश्यमानेषु रक्षःसु भूतेषु विनदत्सु च 133a काञ्चनानि च दामानि पताकाश्च महाधनाः 133c धूमायमाना दृश्यन्ते सहसा मारुतेरिताः 134a श्वेतच्छत्रसहस्राणि सध्वजाश्च महारथाः 134c विनिकीर्णाः स्म दृश्यन्ते शतशोऽथ सहस्रशः 134e सपताकाश्च मातङ्गा दिशो जग्मुः शरातुराः 135a क्षत्रियाश्च मनुष्येन्द्र गदाशक्तिधनुर्धराः 135c समन्ततो व्यदृश्यन्त पतिता धरणीतले 136a ततो भीष्मो महाराज दिव्यमस्त्रमुदीरयन् 136c अभ्यधावत कौन्तेयं मिषतां सर्वधन्विनाम् 137a तं शिखण्डी रणे यत्तमभ्यधावत दंशितः 137c सञ्जहार ततो भीष्मस्तदस्त्रं पावकोपमम् 138a एतस्मिन्नेव काले तु कौन्तेयः श्वेतवाहनः 138c निजघ्ने तावकं सैन्यं मोहयित्वा पितामहम्