001 धृतराष्ट्र उवाच 001a कथं शान्तनवो भीष्मो दशमेऽहनि सञ्जय 001c अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः 002a कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन् 002c आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः 003 सञ्जय उवाच 003a कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत 003c यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः 004a प्रेषिताः परलोकाय परमास्त्रैः किरीटिना 004c अहन्यहनि सम्प्राप्तास्तावकानां रथव्रजाः 005a यथाप्रतिज्ञं कौरव्यः स चापि समितिञ्जयः 005c पार्थानामकरोद्भीष्मः सततं समितिक्षयम् 006a कुरुभिः सहितं भीष्मं युध्यमानं महारथम् 006c अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः 007a दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे 007c अवर्तत महारौद्रः सततं समितिक्षयः 008a तस्मिन्नयुतशो राजन्भूयश्च स परन्तपः 008c भीष्मः शान्तनवो योधाञ्जघान परमास्त्रवित् 009a येषामज्ञातकल्पानि नामगोत्राणि पार्थिव 009c ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः 010a दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम् 010c निरविद्यत धर्मात्मा जीवितेन परन्तपः 011a स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे 011c न हन्यां मानवश्रेष्ठान्सङ्ग्रामेऽभिमुखानिति 012a चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव 012c अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत् 013a युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद 013c शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः 014a निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत 014c घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे 015a तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा 015c मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम् 016a तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः 016c भीष्मं प्रतिययौ यत्तः सङ्ग्रामे सह सृञ्जयैः 017a धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः 017c श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम् 018a अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे 018c रक्षिताः सत्यसन्धेन जिष्णुना रिपुजिष्णुना 019a अयं चापि महेष्वासः पार्षतो वाहिनीपतिः 019c भीमसेनश्च समरे पालयिष्यति वो ध्रुवम् 020a न वै भीष्माद्भयं किञ्चित्कर्तव्यं युधि सृञ्जयाः 020c ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम् 021a तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः 021c ब्रह्मलोकपरा भूत्वा सञ्जग्मुः क्रोधमूर्छिताः 022a शिखण्डिनं पुरस्कृत्य पाण्डवं च धनञ्जयम् 022c भीष्मस्य पातने यत्नं परमं ते समास्थिताः 023a ततस्तव सुतादिष्टा नानाजनपदेश्वराः 023c द्रोणेन सहपुत्रेण सहसेना महाबलाः 024a दुःशासनश्च बलवान्सह सर्वैः सहोदरैः 024c भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा 025a ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम् 025c शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे 026a चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः 026c ययौ शान्तनवं भीष्मं पुरस्कृत्य शिखण्डिनम् 027a द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम् 027c युधामन्युः सहामात्यं दुर्योधनमयोधयत् 028a विराटस्तु सहानीकः सहसेनं जयद्रथम् 028c वृद्धक्षत्रस्य दायादमाससाद परन्तपः 029a मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः 029c भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत् 030a अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम् 030c द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः 031a कर्णिकारध्वजं चापि सिंहकेतुररिन्दमः 031c प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः 032a शिखण्डिनं च पुत्रास्ते पाण्डवं च धनञ्जयम् 032c राजभिः समरे सार्धमभिपेतुर्जिघांसवः 033a तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे 033c सम्प्रधावत्स्वनीकेषु मेदिनी समकम्पत 034a तान्यनीकान्यनीकेषु समसज्जन्त भारत 034c तावकानां परेषां च दृष्ट्वा शान्तनवं रणे 035a ततस्तेषां प्रयततामन्योन्यमभिधावताम् 035c प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत 036a शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः 036c सिंहनादैश्च सैन्यानां दारुणः समपद्यत 037a सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा 037c वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत 038a रजोमेघाश्च सञ्जज्ञुः शस्त्रविद्युद्भिरावृताः 038c धनुषां चैव निर्घोषो दारुणः समपद्यत 039a बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः 039c रथघोषश्च सञ्जग्मुः सेनयोरुभयोरपि 040a प्रासशक्त्यृष्टिसङ्घैश्च बाणौघैश्च समाकुलम् 040c निष्प्रकाशमिवाकाशं सेनयोः समपद्यत 041a अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे 041c कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः 042a तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह 042c भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा 043a तयोः समागमो घोरो बभूव युधि भारत 043c अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे