001 सञ्जय उवाच 001a अर्जुनस्तु रणे शल्यं यतमानं महारथम् 001c छादयामास समरे शरैः सन्नतपर्वभिः 002a सुशर्माणं कृपं चैव त्रिभिस्त्रिभिरविध्यत 002c प्राग्ज्योतिषं च समरे सैन्धवं च जयद्रथम् 003a चित्रसेनं विकर्णं च कृतवर्माणमेव च 003c दुर्मर्षणं च राजेन्द्र आवन्त्यौ च महारथौ 004a एकैकं त्रिभिरानर्छत्कङ्कबर्हिणवाजितैः 004c शरैरतिरथो युद्धे पीडयन्वाहिनीं तव 005a जयद्रथो रणे पार्थं भित्त्वा भारत सायकैः 005c भीमं विव्याध तरसा चित्रसेनरथे स्थितः 006a शल्यश्च समरे जिष्णुं कृपश्च रथिनां वरः 006c विव्यधाते महाबाहुं बहुधा मर्मभेदिभिः 007a चित्रसेनादयश्चैव पुत्रास्तव विशाम्पते 007c पञ्चभिः पञ्चभिस्तूर्णं संयुगे निशितैः शरैः 007e आजघ्नुरर्जुनं सङ्ख्ये भीमसेनं च मारिष 008a तौ तत्र रथिनां श्रेष्ठौ कौन्तेयौ भरतर्षभौ 008c अपीडयेतां समरे त्रिगर्तानां महद्बलम् 009a सुशर्मापि रणे पार्थं विद्ध्वा बहुभिरायसैः 009c ननाद बलवन्नादं नादयन्वै नभस्तलम् 010a अन्ये च रथिनः शूरा भीमसेनधनञ्जयौ 010c विव्यधुर्निशितैर्बाणै रुक्मपुङ्खैरजिह्मगैः 011a तेषां तु रथिनां मध्ये कौन्तेयौ रथिनां वरौ 011c क्रीडमानौ रथोदारौ चित्ररूपौ व्यरोचताम् 011e आमिषेप्सू गवां मध्ये सिंहाविव बलोत्कटौ 012a छित्त्वा धनूंषि वीराणां शरांश्च बहुधा रणे 012c पातयामासतुर्वीरौ शिरांसि शतशो नृणाम् 013a रथाश्च बहवो भग्ना हयाश्च शतशो हताः 013c गजाश्च सगजारोहाः पेतुरुर्व्यां महामृधे 014a रथिनः सादिनश्चैव तत्र तत्र निसूदिताः 014c दृश्यन्ते बहुधा राजन्वेष्टमानाः समन्ततः 015a हतैर्गजपदात्योघैर्वाजिभिश्च निसूदितैः 015c रथैश्च बहुधा भग्नैः समास्तीर्यत मेदिनी 016a छत्रैश्च बहुधा छिन्नैर्ध्वजैश्च विनिपातितैः 016c अङ्कुशैरपविद्धैश्च परिस्तोमैश्च भारत 017a केयूरैरङ्गदैर्हारै राङ्कवैर्मृदितैस्तथा 017c उष्णीषैरपविद्धैश्च चामरव्यजनैरपि 018a तत्र तत्रापविद्धैश्च बाहुभिश्चन्दनोक्षितैः 018c ऊरुभिश्च नरेन्द्राणां समास्तीर्यत मेदिनी 019a तत्राद्भुतमपश्याम रणे पार्थस्य विक्रमम् 019c शरैः संवार्य तान्वीरान्निजघान बलं तव 020a पुत्रस्तु तव तं दृष्ट्वा भीमार्जुनसमागमम् 020c गाङ्गेयस्य रथाभ्याशमुपजग्मे महाभये 021a कृपश्च कृतवर्मा च सैन्धवश्च जयद्रथः 021c विन्दानुविन्दावावन्त्यावाजग्मुः संयुगं तदा 022a ततो भीमो महेष्वासः फल्गुनश्च महारथः 022c कौरवाणां चमूं घोरां भृशं दुद्रुवतू रणे 023a ततो बर्हिणवाजानामयुतान्यर्बुदानि च 023c धनञ्जयरथे तूर्णं पातयन्ति स्म संयुगे 024a ततस्ताञ्शरजालेन सन्निवार्य महारथान् 024c पार्थः समन्तात्समरे प्रेषयामास मृत्यवे 025a शल्यस्तु समरे जिष्णुं क्रीडन्निव महारथः 025c आजघानोरसि क्रुद्धो भल्लैः सन्नतपर्वभिः 026a तस्य पार्थो धनुश्छित्त्वा हस्तावापं च पञ्चभिः 026c अथैनं सायकैस्तीक्ष्णैर्भृशं विव्याध मर्मणि 027a अथान्यद्धनुरादाय समरे भारसाधनम् 027c मद्रेश्वरो रणे जिष्णुं ताडयामास रोषितः 028a त्रिभिः शरैर्महाराज वासुदेवं च पञ्चभिः 028c भीमसेनं च नवभिर्बाह्वोरुरसि चार्पयत् 029a ततो द्रोणो महाराज मागधश्च महारथः 029c दुर्योधनसमादिष्टौ तं देशमुपजग्मतुः 030a यत्र पार्थो महाराज भीमसेनश्च पाण्डवः 030c कौरव्यस्य महासेनां जघ्नतुस्तौ महारथौ 031a जयत्सेनस्तु समरे भीमं भीमायुधं युवा 031c विव्याध निशितैर्बाणैरष्टभिर्भरतर्षभ 032a तं भीमो दशभिर्विद्ध्वा पुनर्विव्याध सप्तभिः 032c सारथिं चास्य भल्लेन रथनीडादपाहरत् 033a उद्भ्रान्तैस्तुरगैः सोऽथ द्रवमाणैः समन्ततः 033c मागधोऽपहृतो राजा सर्वसैन्यस्य पश्यतः 034a द्रोणस्तु विवरं लब्ध्वा भीमसेनं शिलीमुखैः 034c विव्याध बाणैः सुशितैः पञ्चषष्ट्या तमायसैः 035a तं भीमः समरश्लाघी गुरुं पितृसमं रणे 035c विव्याध नवभिर्भल्लैस्तथा षष्ट्या च भारत 036a अर्जुनस्तु सुशर्माणं विद्ध्वा बहुभिरायसैः 036c व्यधमत्तस्य तत्सैन्यं महाभ्राणि यथानिलः 037a ततो भीष्मश्च राजा च सौबलश्च बृहद्बलः 037c अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनधनञ्जयौ 038a तथैव पाण्डवाः शूरा धृष्टद्युम्नश्च पार्षतः 038c अभ्यद्रवन्रणे भीष्मं व्यादितास्यमिवान्तकम् 039a शिखण्डी तु समासाद्य भारतानां पितामहम् 039c अभ्यद्रवत संहृष्टो भयं त्यक्त्वा यतव्रतम् 040a युधिष्ठिरमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् 040c अयोधयन्रणे भीष्मं संहताः सह सृञ्जयैः 041a तथैव तावकाः सर्वे पुरस्कृत्य यतव्रतम् 041c शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे 042a ततः प्रववृते युद्धं कौरवाणां भयावहम् 042c तत्र पाण्डुसुतैः सार्धं भीष्मस्य विजयं प्रति 043a तावकानां रणे भीष्मो ग्लह आसीद्विशाम्पते 043c तत्र हि द्यूतमायातं विजयायेतराय वा 044a धृष्टद्युम्नो महाराज सर्वसैन्यान्यचोदयत् 044c अभिद्रवत गाङ्गेयं मा भैष्ट नरसत्तमाः 045a सेनापतिवचः श्रुत्वा पाण्डवानां वरूथिनी 045c भीष्ममेवाभ्ययात्तूर्णं प्राणांस्त्यक्त्वा महाहवे 046a भीष्मोऽपि रथिनां श्रेष्ठः प्रतिजग्राह तां चमूम् 046c आपतन्तीं महाराज वेलामिव महोदधिः