001 सञ्जय उवाच 001a भगदत्तः कृपः शल्यः कृतवर्मा च सात्वतः 001c विन्दानुविन्दावावन्त्यौ सैन्धवश्च जयद्रथः 002a चित्रसेनो विकर्णश्च तथा दुर्मर्षणो युवा 002c दशैते तावका योधा भीमसेनमयोधयन् 003a महत्या सेनया युक्ता नानादेशसमुत्थया 003c भीष्मस्य समरे राजन्प्रार्थयाना महद्यशः 004a शल्यस्तु नवभिर्बाणैर्भीमसेनमताडयत् 004c कृतवर्मा त्रिभिर्बाणैः कृपश्च नवभिः शरैः 005a चित्रसेनो विकर्णश्च भगदत्तश्च मारिष 005c दशभिर्दशभिर्भल्लैर्भीमसेनमताडयन् 006a सैन्धवश्च त्रिभिर्बाणैर्जत्रुदेशेऽभ्यताडयत् 006c विन्दानुविन्दावावन्त्यौ पञ्चभिः पञ्चभिः शरैः 006e दुर्मर्षणश्च विंशत्या पाण्डवं निशितैः शरैः 007a स तान्सर्वान्महाराज भ्राजमानान्पृथक्पृथक् 007c प्रवीरान्सर्वलोकस्य धार्तराष्ट्रान्महारथान् 007e विव्याध बहुभिर्बाणैर्भीमसेनो महाबलः 008a शल्यं पञ्चाशता विद्ध्वा कृतवर्माणमष्टभिः 008c कृपस्य सशरं चापं मध्ये चिच्छेद भारत 008e अथैनं छिन्नधन्वानं पुनर्विव्याध पञ्चभिः 009a विन्दानुविन्दौ च तथा त्रिभिस्त्रिभिरताडयत् 009c दुर्मर्षणं च विंशत्या चित्रसेनं च पञ्चभिः 010a विकर्णं दशभिर्बाणैः पञ्चभिश्च जयद्रथम् 010c विद्ध्वा भीमोऽनदद्धृष्टः सैन्धवं च पुनस्त्रिभिः 011a अथान्यद्धनुरादाय गौतमो रथिनां वरः 011c भीमं विव्याध संरब्धो दशभिर्निशितैः शरैः 012a स विद्धो बहुभिर्बाणैस्तोत्त्रैरिव महाद्विपः 012c ततः क्रुद्धो महाबाहुर्भीमसेनः प्रतापवान् 012e गौतमं ताडयामास शरैर्बहुभिराहवे 013a सैन्धवस्य तथाश्वांश्च सारथिं च त्रिभिः शरैः 013c प्राहिणोन्मृत्युलोकाय कालान्तकसमद्युतिः 014a हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः 014c शरांश्चिक्षेप निशितान्भीमसेनस्य संयुगे 015a तस्य भीमो धनुर्मध्ये द्वाभ्यां चिच्छेद भारत 015c भल्लाभ्यां भरतश्रेष्ठ सैन्धवस्य महात्मनः 016a स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः 016c चित्रसेनरथं राजन्नारुरोह त्वरान्वितः 017a अत्यद्भुतं रणे कर्म कृतवांस्तत्र पाण्डवः 017c महारथाञ्शरैर्विद्ध्वा वारयित्वा महारथः 017e विरथं सैन्धवं चक्रे सर्वलोकस्य पश्यतः 018a नातीव ममृषे शल्यो भीमसेनस्य विक्रमम् 018c स सन्धाय शरांस्तीक्ष्णान्कर्मारपरिमार्जितान् 018e भीमं विव्याध सप्तत्या तिष्ठ तिष्ठेति चाब्रवीत् 019a कृपश्च कृतवर्मा च भगदत्तश्च मारिष 019c विन्दानुविन्दावावन्त्यौ चित्रसेनश्च संयुगे 020a दुर्मर्षणो विकर्णश्च सिन्धुराजश्च वीर्यवान् 020c भीमं ते विव्यधुस्तूर्णं शल्यहेतोररिन्दमाः 021a स तु तान्प्रतिविव्याध पञ्चभिः पञ्चभिः शरैः 021c शल्यं विव्याध सप्तत्या पुनश्च दशभिः शरैः 022a तं शल्यो नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः 022c सारथिं चास्य भल्लेन गाढं विव्याध मर्मणि 023a विशोकं वीक्ष्य निर्भिन्नं भीमसेनः प्रतापवान् 023c मद्रराजं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् 024a तथेतरान्महेष्वासांस्त्रिभिस्त्रिभिरजिह्मगैः 024c ताडयामास समरे सिंहवच्च ननाद च 025a ते हि यत्ता महेष्वासाः पाण्डवं युद्धदुर्मदम् 025c त्रिभिस्त्रिभिरकुण्ठाग्रैर्भृशं मर्मस्वताडयन् 026a सोऽतिविद्धो महेष्वासो भीमसेनो न विव्यथे 026c पर्वतो वारिधाराभिर्वर्षमाणैरिवाम्बुदैः 027a शल्यं च नवभिर्बाणैर्भृशं विद्ध्वा महायशाः 027c प्राग्ज्योतिषं शतेनाजौ राजन्विव्याध वै दृढम् 028a ततस्तु सशरं चापं सात्वतस्य महात्मनः 028c क्षुरप्रेण सुतीक्ष्णेन चिच्छेद कृतहस्तवत् 029a अथान्यद्धनुरादाय कृतवर्मा वृकोदरम् 029c आजघान भ्रुवोर्मध्ये नाराचेन परन्तप 030a भीमस्तु समरे विद्ध्वा शल्यं नवभिरायसैः 030c भगदत्तं त्रिभिश्चैव कृतवर्माणमष्टभिः 031a द्वाभ्यां द्वाभ्यां च विव्याध गौतमप्रभृतीन्रथान् 031c ते तु तं समरे राजन्विव्यधुर्निशितैः शरैः 032a स तथा पीड्यमानोऽपि सर्वतस्तैर्महारथैः 032c मत्वा तृणेन तांस्तुल्यान्विचचार गतव्यथः 033a ते चापि रथिनां श्रेष्ठा भीमाय निशिताञ्शरान् 033c प्रेषयामासुरव्यग्राः शतशोऽथ सहस्रशः 034a तस्य शक्तिं महावेगां भगदत्तो महारथः 034c चिक्षेप समरे वीरः स्वर्णदण्डां महाधनाम् 035a तोमरं सैन्धवो राजा पट्टिशं च महाभुजः 035c शतघ्नीं च कृपो राजञ्शरं शल्यश्च संयुगे 036a अथेतरे महेष्वासाः पञ्च पञ्च शिलीमुखान् 036c भीमसेनं समुद्दिश्य प्रेषयामासुरोजसा 037a तोमरं स द्विधा चक्रे क्षुरप्रेणानिलात्मजः 037c पट्टिशं च त्रिभिर्बाणैश्चिच्छेद तिलकाण्डवत् 038a स बिभेद शतघ्नीं च नवभिः कङ्कपत्रिभिः 038c मद्रराजप्रयुक्तं च शरं छित्त्वा महाबलः 039a शक्तिं चिच्छेद सहसा भगदत्तेरितां रणे 039c तथेतराञ्शरान्घोराञ्शरैः सन्नतपर्वभिः 040a भीमसेनो रणश्लाघी त्रिधैकैकं समाच्छिनत् 040c तांश्च सर्वान्महेष्वासांस्त्रिभिस्त्रिभिरताडयत् 041a ततो धनञ्जयस्तत्र वर्तमाने महारणे 041c जगाम स रथेनाजौ भीमं दृष्ट्वा महारथम् 041e निघ्नन्तं समरे शत्रून्योधयानं च सायकैः 042a तौ तु तत्र महात्मानौ समेतौ वीक्ष्य पाण्डवौ 042c नाशशंसुर्जयं तत्र तावकाः पुरुषर्षभ 043a अथार्जुनो रणे भीष्मं योधयन्वै महारथम् 043c भीष्मस्य निधनाकाङ्क्षी पुरस्कृत्य शिखण्डिनम् 044a आससाद रणे योधांस्तावकान्दश भारत 044c ये स्म भीमं रणे राजन्योधयन्तो व्यवस्थिताः 044e बीभत्सुस्तानथाविध्यद्भीमस्य प्रियकाम्यया 045a ततो दुर्योधनो राजा सुशर्माणमचोदयत् 045c अर्जुनस्य वधार्थाय भीमसेनस्य चोभयोः 046a सुशर्मन्गच्छ शीघ्रं त्वं बलौघैः परिवारितः 046c जहि पाण्डुसुतावेतौ धनञ्जयवृकोदरौ 047a तच्छ्रुत्वा शासनं तस्य त्रिगर्तः प्रस्थलाधिपः 047c अभिद्रुत्य रणे भीममर्जुनं चैव धन्विनौ 048a रथैरनेकसाहस्रैः परिवव्रे समन्ततः 048c ततः प्रववृते युद्धमर्जुनस्य परैः सह