001 सञ्जय उवाच 001a अथ वीरो महेष्वासो मत्तवारणविक्रमः 001c समादाय महच्चापं मत्तवारणवारणम् 002a विधुन्वानो धनुः श्रेष्ठं द्रावयाणो महारथान् 002c पृतनां पाण्डवेयानां पातयानो महारथः 003a निमित्तानि निमित्तज्ञः सर्वतो वीक्ष्य वीर्यवान् 003c प्रतपन्तमनीकानि द्रोणः पुत्रमभाषत 004a अयं स दिवसस्तात यत्र पार्थो महारथः 004c जिघांसुः समरे भीष्मं परं यत्नं करिष्यति 005a उत्पतन्ति हि मे बाणा धनुः प्रस्फुरतीव मे 005c योगमस्त्राणि गच्छन्ति क्रूरे मे वर्तते मतिः 006a दिक्षु शान्तासु घोराणि व्याहरन्ति मृगद्विजाः 006c नीचैर्गृध्रा निलीयन्ते भारतानां चमूं प्रति 007a नष्टप्रभ इवादित्यः सर्वतो लोहिता दिशः 007c रसते व्यथते भूमिरनुष्टनति वाहनम् 008a कङ्का गृध्रा बलाकाश्च व्याहरन्ति मुहुर्मुहुः 008c शिवाश्चाशिवनिर्घोषा वेदयन्त्यो महद्भयम् 009a पपात महती चोल्का मध्येनादित्यमण्डलात् 009c सकबन्धश्च परिघो भानुमावृत्य तिष्ठति 010a परिवेषस्तथा घोरश्चन्द्रभास्करयोरभूत् 010c वेदयानो भयं घोरं राज्ञां देहावकर्तनम् 011a देवतायतनस्थाश्च कौरवेन्द्रस्य देवताः 011c कम्पन्ते च हसन्ते च नृत्यन्ति च रुदन्ति च 012a अपसव्यं ग्रहाश्चक्रुरलक्ष्माणं निशाकरम् 012c अवाक्शिराश्च भगवानुदतिष्ठत चन्द्रमाः 013a वपूंषि च नरेन्द्राणां विगतानीव लक्षये 013c धार्तराष्ट्रस्य सैन्येषु न च भ्राजन्ति दंशिताः 014a सेनयोरुभयोश्चैव समन्ताच्छ्रूयते महान् 014c पाञ्चजन्यस्य निर्घोषो गाण्डीवस्य च निस्वनः 015a ध्रुवमास्थाय बीभत्सुरुत्तमास्त्राणि संयुगे 015c अपास्यान्यान्रणे योधानभ्यस्यति पितामहम् 016a हृष्यन्ति रोमकूपानि सीदतीव च मे मनः 016c चिन्तयित्वा महाबाहो भीष्मार्जुनसमागमम् 017a तं चैव निकृतिप्रज्ञं पाञ्चाल्यं पापचेतसम् 017c पुरस्कृत्य रणे पार्थो भीष्मस्यायोधनं गतः 018a अब्रवीच्च पुरा भीष्मो नाहं हन्यां शिखण्डिनम् 018c स्त्री ह्येषा विहिता धात्रा दैवाच्च स पुनः पुमान् 019a अमङ्गल्यध्वजश्चैव याज्ञसेनिर्महारथः 019c न चामङ्गलकेतोः स प्रहरेदापगासुतः 020a एतद्विचिन्तयानस्य प्रज्ञा सीदति मे भृशम् 020c अद्यैव तु रणे पार्थः कुरुवृद्धमुपाद्रवत् 021a युधिष्ठिरस्य च क्रोधो भीष्मार्जुनसमागमः 021c मम चास्त्राभिसंरम्भः प्रजानामशुभं ध्रुवम् 022a मनस्वी बलवाञ्शूरः कृतास्त्रो दृढविक्रमः 022c दूरपाती दृढेषुश्च निमित्तज्ञश्च पाण्डवः 023a अजेयः समरे चैव देवैरपि सवासवैः 023c बलवान्बुद्धिमांश्चैव जितक्लेशो युधां वरः 024a विजयी च रणे नित्यं भैरवास्त्रश्च पाण्डवः 024c तस्य मार्गं परिहरन्द्रुतं गच्छ यतव्रतम् 025a पश्य चैतन्महाबाहो वैशसं समुपस्थितम् 025c हेमचित्राणि शूराणां महान्ति च शुभानि च 026a कवचान्यवदीर्यन्ते शरैः सन्नतपर्वभिः 026c छिद्यन्ते च ध्वजाग्राणि तोमराणि धनूंषि च 027a प्रासाश्च विमलास्तीक्ष्णाः शक्त्यश्च कनकोज्ज्वलाः 027c वैजयन्त्यश्च नागानां सङ्क्रुद्धेन किरीटिना 028a नायं संरक्षितुं कालः प्राणान्पुत्रोपजीविभिः 028c याहि स्वर्गं पुरस्कृत्य यशसे विजयाय च 029a हयनागरथावर्तां महाघोरां सुदुस्तराम् 029c रथेन सङ्ग्रामनदीं तरत्येष कपिध्वजः 030a ब्रह्मण्यता दमो दानं तपश्च चरितं महत् 030c इहैव दृश्यते राज्ञो भ्राता यस्य धनञ्जयः 031a भीमसेनश्च बलवान्माद्रीपुत्रौ च पाण्डवौ 031c वासुदेवश्च वार्ष्णेयो यस्य नाथो व्यवस्थितः 032a तस्यैष मन्युप्रभवो धार्तराष्ट्रस्य दुर्मतेः 032c तपोदग्धशरीरस्य कोपो दहति भारतान् 033a एष सन्दृश्यते पार्थो वासुदेवव्यपाश्रयः 033c दारयन्सर्वसैन्यानि धार्तराष्ट्राणि सर्वशः 034a एतदालोक्यते सैन्यं क्षोभ्यमाणं किरीटिना 034c महोर्मिनद्धं सुमहत्तिमिनेव नदीमुखम् 035a हाहाकिलकिलाशब्दाः श्रूयन्ते च चमूमुखे 035c याहि पाञ्चालदायादमहं यास्ये युधिष्ठिरम् 036a दुर्लभं ह्यन्तरं राज्ञो व्यूहस्यामिततेजसः 036c समुद्रकुक्षिप्रतिमं सर्वतोऽतिरथैः स्थितैः 037a सात्यकिश्चाभिमन्युश्च धृष्टद्युम्नवृकोदरौ 037c परिरक्षन्ति राजानं यमौ च मनुजेश्वरम् 038a उपेन्द्रसदृशः श्यामो महाशाल इवोद्गतः 038c एष गच्छत्यनीकानि द्वितीय इव फल्गुनः 039a उत्तमास्त्राणि चादत्स्व गृहीत्वान्यन्महद्धनुः 039c पार्श्वतो याहि राजानं युध्यस्व च वृकोदरम् 040a को हि नेच्छेत्प्रियं पुत्रं जीवन्तं शाश्वतीः समाः 040c क्षत्रधर्मं पुरस्कृत्य ततस्त्वा विनियुज्महे 041a एष चापि रणे भीष्मो दहते वै महाचमूम् 041c युद्धे सुसदृशस्तात यमस्य वरुणस्य च