001 सञ्जय उवाच 001a सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं तदा 001c आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे 002a माधवस्तु सुसङ्क्रुद्धो राक्षसं नवभिः शरैः 002c आजघान रणे राजन्प्रहसन्निव भारत 003a तथैव राक्षसो राजन्माधवं निशितैः शरैः 003c अर्दयामास राजेन्द्र सङ्क्रुद्धः शिनिपुङ्गवम् 004a शैनेयः शरसङ्घं तु प्रेषयामास संयुगे 004c राक्षसाय सुसङ्क्रुद्धो माधवः परवीरहा 005a ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् 005c विव्याध विशिखैस्तीक्ष्णैः सिंहनादं ननाद च 006a माधवस्तु भृशं विद्धो राक्षसेन रणे तदा 006c धैर्यमालम्ब्य तेजस्वी जहास च ननाद च 007a भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः 007c ताडयामास समरे तोत्त्रैरिव महागजम् 008a विहाय राक्षसं युद्धे शैनेयो रथिनां वरः 008c प्राग्ज्योतिषाय चिक्षेप शरान्सन्नतपर्वणः 009a तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः 009c चिच्छेद शितधारेण भल्लेन कृतहस्तवत् 010a अथान्यद्धनुरादाय वेगवत्परवीरहा 010c भगदत्तं रणे क्रुद्धो विव्याध निशितैः शरैः 011a सोऽतिविद्धो महेष्वासः सृक्किणी संलिहन्मुहुः 011c शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् 011e यमदण्डोपमां घोरां प्राहिणोत्सात्यकाय वै 012a तामापतन्तीं सहसा तस्य बाहोर्बलेरिताम् 012c सात्यकिः समरे राजंस्त्रिधा चिच्छेद सायकैः 012e सा पपात तदा भूमौ महोल्केव हतप्रभा 013a शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशाम्पते 013c महता रथवंशेन वारयामास माधवम् 014a तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम् 014c दुर्योधनो भृशं हृष्टो भ्रातॄन्सर्वानुवाच ह 015a तथा कुरुत कौरव्या यथा वः सात्यको युधि 015c न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् 015e अस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् 016a तत्तथेति वचस्तस्य परिगृह्य महारथाः 016c शैनेयं योधयामासुर्भीष्मस्य प्रमुखे तदा 017a अभिमन्युं तदायान्तं भीष्मायाभ्युद्यतं मृधे 017c काम्बोजराजो बलवान्वारयामास संयुगे 018a आर्जुनिर्नृपतिं विद्ध्वा शरैः सन्नतपर्वभिः 018c पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृपम् 019a सुदक्षिणस्तु समरे कार्ष्णिं विव्याध पञ्चभिः 019c सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् 020a तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे 020c यदभ्यधावद्गाङ्गेयं शिखण्डी शत्रुतापनः 021a विराटद्रुपदौ वृद्धौ वारयन्तौ महाचमूम् 021c भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ 022a अश्वत्थामा ततः क्रुद्धः समायाद्रथसत्तमः 022c ततः प्रववृते युद्धं तव तेषां च भारत 023a विराटो दशभिर्भल्लैराजघान परन्तप 023c यतमानं महेष्वासं द्रौणिमाहवशोभिनम् 024a द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तथा 024c गुरुपुत्रं समासाद्य भीष्मस्य पुरतः स्थितम् 025a अश्वत्थामा ततस्तौ तु विव्याध दशभिः शरैः 025c विराटद्रुपदौ वृद्धौ भीष्मं प्रति समुद्यतौ 026a तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत् 026c यद्द्रौणेः सायकान्घोरान्प्रत्यवारयतां युधि 027a सहदेवं तथा यान्तं कृपः शारद्वतोऽभ्ययात् 027c यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् 028a कृपश्च समरे राजन्माद्रीपुत्रं महारथम् 028c आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः 029a तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः 029c अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः 030a सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् 030c माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः 030e आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् 031a तथैव पाण्डवो राजञ्शारद्वतममर्षणम् 031c आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया 031e तयोर्युद्धं समभवद्घोररूपं भयावहम् 032a नकुलं तु रणे क्रुद्धं विकर्णः शत्रुतापनः 032c विव्याध सायकैः षष्ट्या रक्षन्भीष्मस्य जीवितम् 033a नकुलोऽपि भृशं विद्धस्तव पुत्रेण धन्विना 033c विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः 034a तत्र तौ नरशार्दूलौ भीष्महेतोः परन्तपौ 034c अन्योन्यं जघ्नतुर्वीरौ गोष्ठे गोवृषभाविव 035a घटोत्कचं रणे यत्तं निघ्नन्तं तव वाहिनीम् 035c दुर्मुखः समरे प्रायाद्भीष्महेतोः पराक्रमी 036a हैडिम्बस्तु ततो राजन्दुर्मुखं शत्रुतापनम् 036c आजघानोरसि क्रुद्धो नवत्या निशितैः शरैः 037a भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः 037c षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि 038a धृष्टद्युम्नं रणे यान्तं भीष्मस्य वधकाङ्क्षिणम् 038c हार्दिक्यो वारयामास रक्षन्भीष्मस्य जीवितम् 039a वार्ष्णेयः पार्षतं शूरं विद्ध्वा पञ्चभिरायसैः 039c पुनः पञ्चाशता तूर्णमाजघान स्तनान्तरे 040a तथैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः 040c विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रपरिच्छदैः 041a तयोः समभवद्युद्धं भीष्महेतोर्महारणे 041c अन्योन्यातिशयैर्युक्तं यथा वृत्रमहेन्द्रयोः 042a भीमसेनमथायान्तं भीष्मं प्रति महाबलम् 042c भूरिश्रवाभ्ययात्तूर्णं तिष्ठ तिष्ठेति चाब्रवीत् 043a सौमदत्तिरथो भीममाजघान स्तनान्तरे 043c नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे 044a उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् 044c स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम 045a तौ शरान्सूर्यसङ्काशान्कर्मारपरिमार्जितान् 045c अन्योन्यस्य रणे क्रुद्धौ चिक्षिपाते मुहुर्मुहुः 046a भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् 046c तथा भीष्मजये गृध्नुः सौमदत्तिश्च पाण्डवम् 046e कृतप्रतिकृते यत्तौ योधयामासतू रणे 047a युधिष्ठिरं महाराज महत्या सेनया वृतम् 047c भीष्मायाभिमुखं यान्तं भारद्वाजो न्यवारयत् 048a द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् 048c श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष 049a सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे 049c द्रोणेन वारिता यत्ता न चचाल पदात्पदम् 050a चेकितानं रणे क्रुद्धं भीष्मं प्रति जनेश्वर 050c चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् 051a भीष्महेतोः पराक्रान्तश्चित्रसेनो महारथः 051c चेकितानं परं शक्त्या योधयामास भारत 052a तथैव चेकितानोऽपि चित्रसेनमयोधयत् 052c तद्युद्धमासीत्सुमहत्तयोस्तत्र पराक्रमे 053a अर्जुनो वार्यमाणस्तु बहुशस्तनयेन ते 053c विमुखीकृत्य पुत्रं ते तव सेनां ममर्द ह 054a दुःशासनोऽपि परया शक्त्या पार्थमवारयत् 054c कथं भीष्मं परो हन्यादिति निश्चित्य भारत 055a सा वध्यमाना समरे पुत्रस्य तव वाहिनी 055c लोड्यते रथिभिः श्रेष्ठैस्तत्र तत्रैव भारत