001 सञ्जय उवाच 001a अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् 001c शिखण्डिनमथोवाच समभ्येहि पितामहम् 002a न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन 002c अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् 003a एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ 003c अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् 004a धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः 004c हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् 005a विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः 005c अभ्यद्रवत गाङ्गेयं पुत्रस्य तव पश्यतः 006a नकुलः सहदेवश्च धर्मराजश्च वीर्यवान् 006c तथेतराणि सैन्यानि सर्वाण्येव विशाम्पते 006e समाद्रवन्त गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् 007a प्रत्युद्ययुस्तावकाश्च समेतास्तान्महारथान् 007c यथाशक्ति यथोत्साहं तन्मे निगदतः शृणु 008a चित्रसेनो महाराज चेकितानं समभ्ययात् 008c भीष्मप्रेप्सुं रणे यान्तं वृषं व्याघ्रशिशुर्यथा 009a धृष्टद्युम्नं महाराज भीष्मान्तिकमुपागतम् 009c त्वरमाणो रणे यत्तं कृतवर्मा न्यवारयत् 010a भीमसेनं सुसङ्क्रुद्धं गाङ्गेयस्य वधैषिणम् 010c त्वरमाणो महाराज सौमदत्तिर्न्यवारयत् 011a तथैव नकुलं वीरं किरन्तं सायकान्बहून् 011c विकर्णो वारयामास इच्छन्भीष्मस्य जीवितम् 012a सहदेवं तथा यान्तं यत्तं भीष्मरथं प्रति 012c वारयामास सङ्क्रुद्धः कृपः शारद्वतो युधि 013a राक्षसं क्रूरकर्माणं भैमसेनिं महाबलम् 013c भीष्मस्य निधनं प्रेप्सुं दुर्मुखोऽभ्यद्रवद्बली 014a सात्यकिं समरे क्रुद्धमार्श्यशृङ्गिरवारयत् 014c अभिमन्युं महाराज यान्तं भीष्मरथं प्रति 014e सुदक्षिणो महाराज काम्बोजः प्रत्यवारयत् 015a विराटद्रुपदौ वृद्धौ समेतावरिमर्दनौ 015c अश्वत्थामा ततः क्रुद्धो वारयामास भारत 016a तथा पाण्डुसुतं ज्येष्ठं भीष्मस्य वधकाङ्क्षिणम् 016c भारद्वाजो रणे यत्तो धर्मपुत्रमवारयत् 017a अर्जुनं रभसं युद्धे पुरस्कृत्य शिखण्डिनम् 017c भीष्मप्रेप्सुं महाराज तापयन्तं दिशो दश 017e दुःशासनो महेष्वासो वारयामास संयुगे 018a अन्ये च तावका योधाः पाण्डवानां महारथान् 018c भीष्मायाभिमुखं यातान्वारयामासुराहवे 019a धृष्टद्युम्नस्तु सैन्यानि प्राक्रोशत पुनः पुनः 019c अभिद्रवत संरब्धा भीष्ममेकं महाबलम् 020a एषोऽर्जुनो रणे भीष्मं प्रयाति कुरुनन्दनः 020c अभिद्रवत मा भैष्ट भीष्मो न प्राप्स्यते हि वः 021a अर्जुनं समरे योद्धुं नोत्सहेतापि वासवः 021c किमु भीष्मो रणे वीरा गतसत्त्वोऽल्पजीवितः 022a इति सेनापतेः श्रुत्वा पाण्डवानां महारथाः 022c अभ्यद्रवन्त संहृष्टा गाङ्गेयस्य रथं प्रति 023a आगच्छतस्तान्समरे वार्योघान्प्रबलानिव 023c न्यवारयन्त संहृष्टास्तावकाः पुरुषर्षभाः 024a दुःशासनो महाराज भयं त्यक्त्वा महारथः 024c भीष्मस्य जीविताकाङ्क्षी धनञ्जयमुपाद्रवत् 025a तथैव पाण्डवाः शूरा गाङ्गेयस्य रथं प्रति 025c अभ्यद्रवन्त सङ्ग्रामे तव पुत्रान्महारथान् 026a तत्राद्भुतमपश्याम चित्ररूपं विशाम्पते 026c दुःशासनरथं प्राप्तो यत्पार्थो नात्यवर्तत 027a यथा वारयते वेला क्षुभितं वै महार्णवम् 027c तथैव पाण्डवं क्रुद्धं तव पुत्रो न्यवारयत् 028a उभौ हि रथिनां श्रेष्ठावुभौ भारत दुर्जयौ 028c उभौ चन्द्रार्कसदृशौ कान्त्या दीप्त्या च भारत 029a तौ तथा जातसंरम्भावन्योन्यवधकाङ्क्षिणौ 029c समीयतुर्महासङ्ख्ये मयशक्रौ यथा पुरा 030a दुःशासनो महाराज पाण्डवं विशिखैस्त्रिभिः 030c वासुदेवं च विंशत्या ताडयामास संयुगे 031a ततोऽर्जुनो जातमन्युर्वार्ष्णेयं वीक्ष्य पीडितम् 031c दुःशासनं शतेनाजौ नाराचानां समार्पयत् 031e ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे 032a दुःशासनस्ततः क्रुद्धः पार्थं विव्याध पञ्चभिः 032c ललाटे भरतश्रेष्ठ शरैः सन्नतपर्वभिः 033a ललाटस्थैस्तु तैर्बाणैः शुशुभे पाण्डवोत्तमः 033c यथा मेरुर्महाराज शृङ्गैरत्यर्थमुच्छ्रितैः 034a सोऽतिविद्धो महेष्वासः पुत्रेण तव धन्विना 034c व्यराजत रणे पार्थः किंशुकः पुष्पवानिव 035a दुःशासनं ततः क्रुद्धः पीडयामास पाण्डवः 035c पर्वणीव सुसङ्क्रुद्धो राहुरुग्रो निशाकरम् 036a पीड्यमानो बलवता पुत्रस्तव विशाम्पते 036c विव्याध समरे पार्थं कङ्कपत्रैः शिलाशितैः 037a तस्य पार्थो धनुश्छित्त्वा त्वरमाणः पराक्रमी 037c आजघान ततः पश्चात्पुत्रं ते नवभिः शरैः 038a सोऽन्यत्कार्मुकमादाय भीष्मस्य प्रमुखे स्थितः 038c अर्जुनं पञ्चविंशत्या बाह्वोरुरसि चार्पयत् 039a तस्य क्रुद्धो महाराज पाण्डवः शत्रुकर्शनः 039c अप्रैषीद्विशिखान्घोरान्यमदण्डोपमान्बहून् 040a अप्राप्तानेव तान्बाणांश्चिच्छेद तनयस्तव 040c यतमानस्य पार्थस्य तदद्भुतमिवाभवत् 040e पार्थं च निशितैर्बाणैरविध्यत्तनयस्तव 041a ततः क्रुद्धो रणे पार्थः शरान्सन्धाय कार्मुके 041c प्रेषयामास समरे स्वर्णपुङ्खाञ्शिलाशितान् 042a न्यमज्जंस्ते महाराज तस्य काये महात्मनः 042c यथा हंसा महाराज तडागं प्राप्य भारत 043a पीडितश्चैव पुत्रस्ते पाण्डवेन महात्मना 043c हित्वा पार्थं रणे तूर्णं भीष्मस्य रथमाश्रयत् 043e अगाधे मज्जतस्तस्य द्वीपो भीष्मोऽभवत्तदा 044a प्रतिलभ्य ततः सञ्ज्ञां पुत्रस्तव विशाम्पते 044c अवारयत्ततः शूरो भूय एव पराक्रमी 045a शरैः सुनिशितैः पार्थं यथा वृत्रः पुरन्दरम् 045c निर्बिभेद महावीर्यो विव्यथे नैव चार्जुनात्