001 धृतराष्ट्र उवाच 001a कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् 001c पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम् 002a केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधम् 002c त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः 003a कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि 003c अयुध्यत महावीर्यः पाण्डवैः सहसृञ्जयैः 004a न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिनम् 004c कच्चिन्न रथभङ्गोऽस्य धनुर्वाशीर्यतास्यतः 005 सञ्जय उवाच 005a नाशीर्यत धनुस्तस्य रथभङ्गो न चाप्यभूत् 005c युध्यमानस्य सङ्ग्रामे भीष्मस्य भरतर्षभ 005e निघ्नतः समरे शत्रूञ्शरैः सन्नतपर्वभिः 006a अनेकशतसाहस्रास्तावकानां महारथाः 006c रथदन्तिगणा राजन्हयाश्चैव सुसज्जिताः 006e अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम् 007a यथाप्रतिज्ञं कौरव्य स चापि समितिञ्जयः 007c पार्थानामकरोद्भीष्मः सततं समितिक्षयम् 008a युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः 008c पाञ्चालाः पाण्डवैः सार्धं सर्व एवाभ्यवारयन् 009a दशमेऽहनि सम्प्राप्ते तताप रिपुवाहिनीम् 009c कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः 010a न हि भीष्मं महेष्वासं पाण्डवाः पाण्डुपूर्वज 010c अशक्नुवन्रणे जेतुं पाशहस्तमिवान्तकम् 011a अथोपायान्महाराज सव्यसाची परन्तपः 011c त्रासयन्रथिनः सर्वान्बीभत्सुरपराजितः 012a सिंहवद्विनदन्नुच्चैर्धनुर्ज्यां विक्षिपन्मुहुः 012c शरौघान्विसृजन्पार्थो व्यचरत्कालवद्रणे 013a तस्य शब्देन वित्रस्तास्तावका भरतर्षभ 013c सिंहस्येव मृगा राजन्व्यद्रवन्त महाभयात् 014a जयन्तं पाण्डवं दृष्ट्वा त्वत्सैन्यं चाभिपीडितम् 014c दुर्योधनस्ततो भीष्ममब्रवीद्भृशपीडितः 015a एष पाण्डुसुतस्तात श्वेताश्वः कृष्णसारथिः 015c दहते मामकान्सर्वान्कृष्णवर्त्मेव काननम् 016a पश्य सैन्यानि गाङ्गेय द्रवमाणानि सर्वशः 016c पाण्डवेन युधां श्रेष्ठ काल्यमानानि संयुगे 017a यथा पशुगणान्पालः सङ्कालयति कानने 017c तथेदं मामकं सैन्यं काल्यते शत्रुतापन 018a धनञ्जयशरैर्भग्नं द्रवमाणमितस्ततः 018c भीमो ह्येष दुराधर्षो विद्रावयति मे बलम् 019a सात्यकिश्चेकितानश्च माद्रीपुत्रौ च पाण्डवौ 019c अभिमन्युश्च विक्रान्तो वाहिनीं दहते मम 020a धृष्टद्युम्नस्तथा शूरो राक्षसश्च घटोत्कचः 020c व्यद्रावयेतां सहसा सैन्यं मम महाबलौ 021a वध्यमानस्य सैन्यस्य सर्वैरेतैर्महाबलैः 021c नान्यां गतिं प्रपश्यामि स्थाने युद्धे च भारत 022a ऋते त्वां पुरुषव्याघ्र देवतुल्यपराक्रम 022c पर्याप्तश्च भवान्क्षिप्रं पीडितानां गतिर्भव 023a एवमुक्तो महाराज पिता देवव्रतस्तव 023c चिन्तयित्वा मुहूर्तं तु कृत्वा निश्चयमात्मनः 023e तव सन्धारयन्पुत्रमब्रवीच्छन्तनोः सुतः 024a दुर्योधन विजानीहि स्थिरो भव विशाम्पते 024c पूर्वकालं तव मया प्रतिज्ञातं महाबल 025a हत्वा दश सहस्राणि क्षत्रियाणां महात्मनाम् 025c सङ्ग्रामाद्व्यपयातव्यमेतत्कर्म ममाह्निकम् 025e इति तत्कृतवांश्चाहं यथोक्तं भरतर्षभ 026a अद्य चापि महत्कर्म प्रकरिष्ये महाहवे 026c अहं वा निहतः शेष्ये हनिष्ये वाद्य पाण्डवान् 027a अद्य ते पुरुषव्याघ्र प्रतिमोक्ष्ये ऋणं महत् 027c भर्तृपिण्डकृतं राजन्निहतः पृतनामुखे 028a इत्युक्त्वा भरतश्रेष्ठः क्षत्रियान्प्रतपञ्शरैः 028c आससाद दुराधर्षः पाण्डवानामनीकिनीम् 029a अनीकमध्ये तिष्ठन्तं गाङ्गेयं भरतर्षभ 029c आशीविषमिव क्रुद्धं पाण्डवाः पर्यवारयन् 030a दशमेऽहनि तस्मिंस्तु दर्शयञ्शक्तिमात्मनः 030c राजञ्शतसहस्राणि सोऽवधीत्कुरुनन्दन 031a पञ्चालानां च ये श्रेष्ठा राजपुत्रा महाबलाः 031c तेषामादत्त तेजांसि जलं सूर्य इवांशुभिः 032a हत्वा दश सहस्राणि कुञ्जराणां तरस्विनाम् 032c सारोहाणां महाराज हयानां चायुतं पुनः 033a पूर्णे शतसहस्रे द्वे पदातीनां नरोत्तमः 033c प्रजज्वाल रणे भीष्मो विधूम इव पावकः 034a न चैनं पाण्डवेयानां केचिच्छेकुर्निरीक्षितुम् 034c उत्तरं मार्गमास्थाय तपन्तमिव भास्करम् 035a ते पाण्डवेयाः संरब्धा महेष्वासेन पीडिताः 035c वधायाभ्यद्रवन्भीष्मं सृञ्जयाश्च महारथाः 036a स युध्यमानो बहुभिर्भीष्मः शान्तनवस्तदा 036c अवकीर्णो महाबाहुः शैलो मेघैरिवासितैः 037a पुत्रास्तु तव गाङ्गेयं समन्तात्पर्यवारयन् 037c महत्या सेनया सार्धं ततो युद्धमवर्तत