001 धृतराष्ट्र उवाच 001a कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे 001c पाण्डवाश्च तथा भीष्मं तन्ममाचक्ष्व सञ्जय 002 सञ्जय उवाच 002a ततः प्रभाते विमले सूर्यस्योदयनं प्रति 002c वाद्यमानासु भेरीषु मृदङ्गेष्वानकेषु च 003a ध्मायत्सु दधिवर्णेषु जलजेषु समन्ततः 003c शिखण्डिनं पुरस्कृत्य निर्याताः पाण्डवा युधि 004a कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् 004c शिखण्डी सर्वसैन्यानामग्र आसीद्विशाम्पते 005a चक्ररक्षौ ततस्तस्य भीमसेनधनञ्जयौ 005c पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान् 006a सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः 006c धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः 007a ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः 007c प्रययौ सिंहनादेन नादयन्भरतर्षभ 008a विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृतः 008c द्रुपदश्च महाराज ततः पश्चादुपाद्रवत् 009a केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् 009c जघनं पालयामास पाण्डुसैन्यस्य भारत 010a एवं व्यूह्य महत्सैन्यं पाण्डवास्तव वाहिनीम् 010c अभ्यद्रवन्त सङ्ग्रामे त्यक्त्वा जीवितमात्मनः 011a तथैव कुरवो राजन्भीष्मं कृत्वा महाबलम् 011c अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति 012a पुत्रैस्तव दुराधर्षै रक्षितः सुमहाबलैः 012c ततो द्रोणो महेष्वासः पुत्रश्चास्य महारथः 013a भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः 013c कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ 014a काम्बोजराजो बलवांस्ततः पश्चात्सुदक्षिणः 014c मागधश्च जयत्सेनः सौबलश्च बृहद्बलः 015a तथेतरे महेष्वासाः सुशर्मप्रमुखा नृपाः 015c जघनं पालयामासुस्तव सैन्यस्य भारत 016a दिवसे दिवसे प्राप्ते भीष्मः शान्तनवो युधि 016c आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान् 017a ततः प्रववृते युद्धं तव तेषां च भारत 017c अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम् 018a अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम् 018c भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान् 019a तत्र भारत भीमेन पीडितास्तावकाः शरैः 019c रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा 020a नकुलः सहदेवश्च सात्यकिश्च महारथः 020c तव सैन्यं समासाद्य पीडयामासुरोजसा 021a ते वध्यमानाः समरे तावका भरतर्षभ 021c नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम् 022a ततस्तु तावकं सैन्यं वध्यमानं समन्ततः 022c सम्प्राद्रवद्दिशो राजन्काल्यमानं महारथैः 023a त्रातारं नाध्यगच्छन्त तावका भरतर्षभ 023c वध्यमानाः शितैर्बाणैः पाण्डवैः सहसृञ्जयैः 024 धृतराष्ट्र उवाच 024a पीड्यमानं बलं पार्थैर्दृष्ट्वा भीष्मः पराक्रमी 024c यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय 025a कथं वा पाण्डवान्युद्धे प्रत्युद्यातः परन्तपः 025c विनिघ्नन्सोमकान्वीरांस्तन्ममाचक्ष्व सञ्जय 026 सञ्जय उवाच 026a आचक्षे ते महाराज यदकार्षीत्पितामहः 026c पीडिते तव पुत्रस्य सैन्ये पाण्डवसृञ्जयैः 027a प्रहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज 027c अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम् 028a तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् 028c नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः 029a स पाण्डवान्महेष्वासः पाञ्चालांश्च ससृञ्जयान् 029c अभ्यद्रवत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः 030a स पाण्डवानां प्रवरान्पञ्च राजन्महारथान् 030c आत्तशस्त्रान्रणे यत्तान्वारयामास सायकैः 030e नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा 031a निजघ्ने समरे क्रुद्धो हस्त्यश्वममितं बहु 031c रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभः 032a सादिनश्चाश्वपृष्ठेभ्यः पदातींश्च समागतान् 032c गजारोहान्गजेभ्यश्च परेषां विदधद्भयम् 033a तमेकं समरे भीष्मं त्वरमाणं महारथम् 033c पाण्डवाः समवर्तन्त वज्रपाणिमिवासुराः 034a शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्शरान् 034c दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः 035a मण्डलीकृतमेवास्य नित्यं धनुरदृश्यत 035c सङ्ग्रामे युध्यमानस्य शक्रचापनिभं महत् 036a तद्दृष्ट्वा समरे कर्म तव पुत्रा विशाम्पते 036c विस्मयं परमं प्राप्ताः पितामहमपूजयन् 037a पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव 037c युध्यमानं रणे शूरं विप्रचित्तिमिवामराः 037e न चैनं वारयामासुर्व्यात्ताननमिवान्तकम् 038a दशमेऽहनि सम्प्राप्ते रथानीकं शिखण्डिनः 038c अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम् 039a तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्स्तनान्तरे 039c आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम् 040a स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् 040c अनिच्छन्नपि सङ्क्रुद्धः प्रहसन्निदमब्रवीत् 041a काममभ्यस वा मा वा न त्वां योत्स्ये कथञ्चन 041c यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी 042a तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्छितः 042c उवाच भीष्मं समरे सृक्किणी परिलेलिहन् 043a जानामि त्वां महाबाहो क्षत्रियाणां क्षयङ्करम् 043c मया श्रुतं च ते युद्धं जामदग्न्येन वै सह 044a दिव्यश्च ते प्रभावोऽयं स मया बहुशः श्रुतः 044c जानन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह 045a पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम 045c अद्य त्वा योधयिष्यामि रणे पुरुषसत्तम 046a ध्रुवं च त्वा हनिष्यामि शपे सत्येन तेऽग्रतः 046c एतच्छ्रुत्वा वचो मह्यं यत्क्षमं तत्समाचर 047a काममभ्यस वा मा वा न मे जीवन्विमोक्ष्यसे 047c सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिञ्जय 048a एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः 048c अविध्यत रणे राजन्प्रणुन्नं वाक्यसायकैः 049a तस्य तद्वचनं श्रुत्वा सव्यसाची परन्तपः 049c कालोऽयमिति सञ्चिन्त्य शिखण्डिनमचोदयत् 050a अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः 050c अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम् 051a न हि ते संयुगे पीडां शक्तः कर्तुं महाबलः 051c तस्मादद्य महाबाहो वीर भीष्ममभिद्रव 052a अहत्वा समरे भीष्मं यदि यास्यसि मारिष 052c अवहास्योऽस्य लोकस्य भविष्यसि मया सह 053a नावहास्या यथा वीर भवेम परमाहवे 053c तथा कुरु रणे यत्नं साधयस्व पितामहम् 054a अहं ते रक्षणं युद्धे करिष्यामि परन्तप 054c वारयन्रथिनः सर्वान्साधयस्व पितामहम् 055a द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् 055c चित्रसेनं विकर्णं च सैन्धवं च जयद्रथम् 056a विन्दानुविन्दावावन्त्यौ काम्बोजं च सुदक्षिणम् 056c भगदत्तं तथा शूरं मागधं च महारथम् 057a सौमदत्तिं रणे शूरमार्श्यशृङ्गिं च राक्षसम् 057c त्रिगर्तराजं च रणे सह सर्वैर्महारथैः 057e अहमावारयिष्यामि वेलेव मकरालयम् 058a कुरूंश्च सहितान्सर्वान्ये चैषां सैनिकाः स्थिताः 058c निवारयिष्यामि रणे साधयस्व पितामहम्